विराटपर्व

अध्यायः 001

युधिष्ठिरेण ब्राह्मणाय मृगापहृतारणिभाण्डप्रत्यर्पणम् ॥ 1 ॥ धौम्येन ब्राह्मणमध्ये दुर्योधनापनयादिकथनेन शोचतो युधिष्ठिरस्य दुःखानुभवविषये देवादिनिदर्शनप्रदर्शनेन परिसान्त्वनम् ॥ 2 ॥ पाण्डवैः स्वसहचरब्राह्मणाभ्यनुज्ञानसंपादनेन तद्वितर्जनपूर्वकं धौम्येनसह मन्त्राय क्वचिदुपवेशनम् ॥ 3 ॥

॥ श्रीवेदव्यासाय नमः ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
॥ जनमेजय उवाच ।
कथं विराटनगरे मम पूर्वपितामहाः । अज्ञातवासमुषिता दुर्योधनभयार्दिताः ॥
पतिव्रता महाभागा सततं सुखभागिनी ।
द्रौपदी सा कथं ब्रह्मन्नज्ञाता दुःखिताऽवसत् ॥
ते च ब्राह्मणमुख्याश्च सूतपौरोगवैः सह ।
अज्ञातवासमुषिताः कथं च परिचारकाः ॥
वैशंपायन उवाच ।
यथा विराटनगरे तव पूर्वपितामहाः ।
अज्ञातवासमुषितास्तावद्वक्ष्यामि तच्छृणु ॥
तथा स तान्वराँल्लब्ध्वा धर्मराजो युधिष्ठिरः ।
गत्वाऽऽश्रमं ब्राह्मणेभ्य आचख्यौ वृत्तमात्मनः ॥
कथयित्वा च तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः ।
अरणीसहितं भाण्डं ब्राह्मणाय न्यवेदयत् ॥
ततो युधिष्ठिरो राजा कुन्तीपुत्रो दृढव्रतः ।
समाहूयानुजान्सर्वानिति होवाच भारत ॥
द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम् ।
छद्मना हृतराज्याश्च निस्वाश्च बहुशः कृताः ॥
उषिताश्च वने वासं यथा द्वादश वत्सरान् ।
अज्ञातचर्यां वत्स्यामश्छन्ना वर्षं त्रयोदशम् ॥
वैशंपायन उवाच ।
धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः ।
अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम् ॥
उपोपविश्य विद्वांसः स्नातकाः संशितव्रताः । ये तत्र ब्राह्मणा आसन्वनवाससहायिनः ।
ये च भक्ता वसन्ति स्म वनवासे तपस्विनः ॥
तानब्रुवन्महात्मानो हृष्टाः प्राञ्जलयः स्थिताः ।
अभ्यनुज्ञापयिष्यन्तस्तान्प्रवासे धृतव्रताः ॥
विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वयम् ।
छद्मना हृतराज्याश्च निस्वाश्च बहुशः कृताः ॥
उषिताश्च वने वासं यथा द्वादशवत्सरान् ।
भवद्भिरेव सहिता वन्याहारा द्विजोत्तमाः ॥
अज्ञातवाससमयं शेषं वर्षं त्रयोदशम् ।
तद्वत्स्यामो वयं छन्नास्तदनुज्ञातुमर्हथ ॥
सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः ।
जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः ॥
युक्तचाराश्च यत्ताश्च दाये स्वस्य जनस्य च ।
दुरात्मनां हि कस्तेषां विश्वासं गन्तुमर्हति ॥
अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह ।
समस्तेषु च राष्ट्रेषु स्वराज्यस्था भवेम हि ॥
इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा ।
संमूर्च्छितोऽभवद्राजा सास्रकण्ठो युधिष्ठिरः ॥
तमथाश्वासयन्सर्वे ब्राह्मणा भ्रातृभिः सह ॥
प्रबुध्य दुःखमोहार्तो धौम्यं धर्मभृतांवरम् ।
प्रावैक्षत तदा राजा साश्रुकण्ठो युधिष्ठिरः ॥
अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा ।
आश्वासयंस्तं स नृपं भ्रातॄंश्च ब्राह्मणैः सह ॥
राजन्विद्वान्भवान्दान्तः सत्यसन्धो जितेन्द्रियः ।
नैवंविधाः प्रमुह्यन्ति धीराः कस्यांचिदापदि ॥
देवैरप्यापदः प्राप्ताश्छन्नैश्च बहुभिस्तदा ।
तत्रतत्र सपत्नानां निग्रहार्थं महात्मभिः ॥
दितिपुत्रैर्हृते राज्ये देवराजः सुदुःखितः ।
ब्रह्माणं तोषयिष्यंश्च ब्रह्मरूपं विधाय च ॥
इन्द्रेण निषधं प्राप्य गिरिप्रस्थाह्वये पुरे ।
छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे ॥
प्रसादाद््ब्रह्मणो राजन्दितेः पुत्रान्महाबलान् ।
निर्जित्य तरसा शत्रून्पुनर्लोकाञ्जुगोप च ॥
विष्णुनाऽश्मगिरिं प्राप्य तदा दित्यां निवत्स्यता ।
गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम् ॥
प्रोष्य वामनरूपेण च्छन्नेन ब्रह्मचारिणा ।
बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम् ॥
और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा ।
यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया ॥
प्रच्छन्नेनापि सर्वत्र हरिणा वृत्रनिग्रहे ।
वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम् ॥
हुताशनेन यच्चापः प्रविश्य च्छन्नमूषितम् ।
विबुधानां हि यत्कर्म कृतं तच्चापि ते श्रुतम् ॥
यथा विवस्वता तात छन्नेनोत्तमतेजसा ।
निर्दग्धाः शत्रवः सर्वे वसता गवि वर्षशः ॥
विष्णुना वसता चात्र गृहे दशरथस्य वै ।
दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा ॥
एवमेते महात्मानः प्रच्छन्नास्तत्रतत्र हि ।
अजयञ्छात्रवान्मुख्यांस्तथा त्वमपि जेष्यसि ॥
वैशंपायन उवाच ।
इति धौम्येन धर्मज्ञो वाक्यैः स परिहर्षितः ।
शान्तबुद्धिः पुनर्भूत्वा व्यष्टम्भत युधिष्ठिरः ॥
अथाब्रवीन्महाबाहुर्भीमसेनो महाबलः ।
राजानं बलिनां श्रेष्ठो गिरा संपरिहर्षयन् ॥
अवेक्षय महाराज तव गाण्डीवधन्वना ।
धर्मार्थपरया बुद्ध्या न किंचित्साहसं कृतम् ॥
सहदेवो मया नित्यं नकुलश्च निवारितौ ।
शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ ॥
न वयं वर्त्म हास्यामो यस्मिन्योक्ष्यति नो भवान् ।
तद्विधत्तां भवान्सर्वं क्षिप्रं जेष्यामहे परान् ॥
इत्युक्तो भीमसेनेन धर्मराजो युधिष्ठिरः ।
सुखोपविष्टो विद्वद्भिस्तापसैः संशितव्रतैः ॥
ये तद्भक्त्याऽभवंस्तस्मिन्वनवासे तपस्विनः । तानब्रवीन्महाप्राज्ञः शिष्टान्राजा कृताञ्जलिः ।
अभ्यनुज्ञापयिष्यन्वै तस्मिन्वासे धृतव्रतः ॥
विदितं भवतां सर्वे र्धार्तराष्ट्रैर्यथा वयम् । संमन्त्राहृतराज्याश्च निस्स्वाश्च बहुशः कृताः ।
उषिताः स्मो वने कृच्छ्रं तथा वर्षाणि द्वादश ॥
अज्ञातचर्यासमयं शेषं वर्षं त्रयोदशम् ।
तद्वत्स्यामः क्वचिच्छन्नास्तदनुज्ञातुमर्हथ ॥
इत्युक्ता धर्मराजेन ब्राह्मणाः परमाशिषः ।
प्रयुज्यापृच्छ्य भरतान्यथास्वं प्रययुर्गृहान् ॥
सर्वे वेदविदो मुख्या यतयो मुनयस्तदा ।
आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः ॥
ते तु भृत्याश्च दूताश्च शिल्पिनः परिचारकाः ।
अनुज्ञाप्य यथान्यायं पुनर्दर्शनकाङ्क्षिणः ॥
सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः ।
उत्थाय प्रययुर्वीराः कृष्णामादाय भारत ॥
क्रोशमात्रमतिक्रम्य तस्माद्वासान्निमित्ततः ।
श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः ॥
पृथक् शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः ।
सन्धिविग्रहतत्वज्ञा मन्त्राय समुपाविशन् ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि प्रथमोऽध्यायः ॥ 1 ॥

4-1-1अयमध्यायो झo पुस्तके वनपर्वान्तिमाध्यायतया वर्तते । विराटo ।