अध्यायः 046

द्रोणेनार्जुनशङ्खनादादिना तस्यार्जुनत्वनिर्धारणेन दुर्योधनंप्रति तन्निवेदनपूर्वकं दुर्निमित्तप्रदर्शनम् ॥ 1 ॥

वैशंपायन उवाच ।
भारद्वाजस्ततो द्रोणः सर्वशस्त्रभृतांवरः ।
राजानं चाह संप्रेक्ष्य दुर्योधनमरिंदमः ॥
यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते ।
कम्पते च यथा भूमिर्नैषोन्यः सव्यसाचिनः ॥
औत्पातिकमिदं राजन्निमित्तं भवतीह नः ।
न हि पश्यामि विजयं सैन्येऽस्माकं परन्तप ॥
शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाहनाः ।
अग्नयश्च न भासन्ते सुसमिद्धा न शोभनाः ॥
प्रत्यादित्यं च नः सर्वे मृगा घोरा नदन्ति च ।
शकुनाश्चापसव्याश्च वेदयन्ति महाभयम् ॥
गोमायुरेष सैन्यानां रुदन्मध्येन धावति ।
चाषा नदन्ति चाकाशे वेदयन्तो महद्भयम् ॥
भवतां चैव रोमाणि प्रहृष्टानीव लक्षये ॥
अनुष्णाङ्गाश्च संस्विन्ना जृम्भन्ते चाप्यभीक्ष्णशः । विष्कम्भन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः ।
सदा मूत्रं पुरीषं च उत्सृजन्ति पुनः पुनः ॥
लोहितार्द्रा च पृथिवी दिशः सर्वाः प्रधूमिताः ।
न च सूर्यः प्रतपति महद्वेदयते भयम् ॥
हस्तिनश्चापि वित्रस्ता योधाश्चापि वितत्रसुः ।
पराभूता च वः सेना न कश्चिद्योद्भुमिच्छति ॥
विषण्णमुखभूयिष्ठाः सर्वे योधा विचेतसः ।
दिशं ते दक्षिणां सर्वे विप्रेक्षन्ते पुनः पुनः ॥
मृगाश्च पक्षिणश्चैव सव्यमेव पतन्ति नः । वादित्रोद्धृष्टघोषाश्च न च गाढं स्वनन्ति च ।
ध्वजाग्रेषु निलीयन्ते वायसास्तन्न शोभनम् ॥
यथा मेघस्य निनदो गम्भीरस्तूर्णमायतः ।
श्रूयते रथनिर्घोषो नायमन्यो धनञ्जयात् ॥
अश्वानां स्वनतां शब्दो वहतां पाकशासनिम् ।
वानरस्य रथे दिव्यो निस्वनः श्रूयते महान् ॥
शङ्खशब्देन पार्थस्य कर्णौ मे बधिरीकृतौ ।
सर्वसैन्यं च वित्रस्तं नायमन्यो धनञ्जयात् ॥
राजानमग्रतः कृत्वा दुर्योधनमरिन्दमम् । गाः प्रस्थाप्य च तिष्ठामो व्यूढानीकाः प्रहारिणः ।
प्रविभज्य त्रिधा सेनां समुच्छ्रित्य ध्वजानपि ॥
शितैर्बाणैः प्रताप्येमां चमूमेष धनञ्जयः ।
मूर्ध्नि सर्वनरेन्द्राणां वामपादं करिष्यति ॥
न ह्येष शक्यो बीभत्सुर्जेतुं देवासुरैरपि ।
दिक्षु गुल्मा निवेश्यन्तां यत्ता योत्स्यामहेऽर्जुन ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्चत्वारिंशोऽध्यायः ॥ 46 ॥