अध्यायः 050

कृपेण स्वगर्हणममृष्यता कर्णेन तदुपालम्भः ॥ 1 ॥ तदसहिष्णुनाऽश्वत्थाम्ना समर्मोद्धाटनं कर्णदुर्योधनोपालम्भः ॥ 2 ॥

वैशंपायन उवाच ।
कृपस्य वचनं श्रुत्वा कर्णो राजन्युधांपतिः ।
पुनः प्रोवाच संरब्धो गर्हयन्ब्राह्मणं कृपम् ॥
कर्ण उवाच ।
लक्षयाम्यहमाचार्यं भयाद्भक्तिं गतं रिपौ ।
भीतेन हि न योद्धव्यमहं योत्स्ये धनञ्जयम् ॥ 2 ॥
ननु वारुणमाग्नेयं याम्यं वायव्यमेव च ।
अस्त्रं ब्रह्मशिरश्चैव सत्वहीनस्य ते वृथा ॥
मित्रकार्यं कृतमिदं पितापुत्रैर्महारथैः ।
भर्तृपिण्डश्च निर्विष्टो यथेष्टं गन्तुमर्हथ ॥
भिक्षां हरस्व नित्यं त्वं यज्ञाननुचरस्व च ।
आमन्त्रणानि भुङ्क्षाद्य माऽस्मान्युद्धेन भीषय ॥
भार्गवास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम् ।
किं पुनः पाण्डुपुत्राणामेकमर्जुनमाहवे ॥
आगमिष्यन्ति पदवीं मात्स्याः पाण्डवमाश्रिताः ।
कीचकानां तु बलिनां शत्रुसेनावमर्दिनाम् ॥
तानहं निहनिष्यामि भवता गम्यतां गृहम् ।
किं वेदवादिनां कार्यं परस्नेहानुभाषिणाम् ॥
तस्य तद्वचनं श्रुत्वा अश्वत्थामा प्रतापवान् ।
उवाच वदतांश्रेष्ठो दुर्योधनमवेक्ष्य च ॥
न च तावञ्जिता गावो न च सीमान्तरं गताः ।
न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे ॥
बहूनि धर्मशास्त्राणि पठन्ति द्विजसत्तमाः ।
तेषु किंस्विदिदं दृष्टं द्यूते जीयेत यन्नृपः ॥
संग्रामान्विपुलाञ्जित्वा लब्धा च विपुलं धनम् ।
विजित्य च महीं कृत्स्नां नेह कत्थन्ति पण्डिताः ॥
पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः ।
तूष्णीं धारयते लोकान्वसुधा सचराचरान् ॥
चातुर्वर्ण्यस्य कर्माणि विहितानि महर्षिभिः ।
धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति ॥
अधीत्य ब्राह्मणो वेदान्याजयेत यजेत वा ।
क्षत्रियो धनमाहृत्य यजेतैव न याजयेत् ॥
वैश्योऽधिगम्य वित्तानि वार्ताकर्माणि कारयेत् ॥
शूद्रः शुश्रूषणं कुर्यात्रिषु वर्णेषु नित्यशः ।
वन्दनायोगविधिभिर्वैतसीं वृत्तिमाश्रितः ॥
वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम् ।
प्रकुर्वन्ति महाभागा यज्ञान्सुविपुलानपि ॥
का जातिस्तेषु सूतेयं केऽपि मन्त्राः क्रियाश्च काः ।
केयं वर्णेषु या राज्ञो वक्तृभोक्तृनियन्तृषु ॥
वैशंपायन उवाच ।
दुर्योधनमभिप्रेक्ष्य कर्णं च कुरुसंसाद ।
अश्वत्थामा भृशं क्रुद्धो दुर्योधनमतर्जयत् ॥
प्राप्य द्यूतेन को राज्यं क्षत्रियः स्तोष्टुर्महति ।
तथा नृशंसरूपोयं धार्तराष्ट्रश्च निर्घृणः ॥
तथाऽधिगम्य वित्तानि को विकत्थेद्विचक्षणः ।
निकृत्या वञ्चनायोगैश्चरन्वैतंसिको यथा ॥
कतमद्द्वैरथं युद्धं यत्राजैषीर्धनञ्जयम् ।
नकुलं सहदेवं वा धनं येषां त्वया हृतम् ॥
युधिष्ठिरो जितः कस्मिन्भीमश्च बलिनांवरः ।
इन्द्रप्रस्थं त्वया कस्मिन्संग्रामे निर्जितं पुरा ॥
तथैव कतमद्युद्धं यस्मिन्कृष्णा जिता त्वया ।
एकवस्त्रा सभां नीता क्षुद्रकर्मन्रजस्वला ॥
मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा ।
क्षुद्रं कर्म समास्थाय तत्र किं विदुरोऽब्रवीत् ॥
यथाशक्ति मनुष्याणाममर्षं लक्षयामहे ।
अन्येषामपि सत्वानामपि कीटपिपीलिकैः ॥
द्रौपद्याः संपरिक्लेशं न क्षन्तुं पाण्डवोऽर्हति ।
क्षयाय धार्तराष्ट्राणां प्रादुर्भूतो धनञ्जयः ॥
त्वं पुनः पण्डितो भूत्वा ह्याचार्यं क्षेप्तुमिच्छसि ।
वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति ॥
नैव देवा न गन्धर्वा नासुरा न च राक्षसाः ।
भयादिह न युद्ध्येरन्पाण्डुपुत्रेण धीमता ॥
यं यमेकोपि संक्रुद्धः संग्रामे निपतिष्यति ।
वृक्षं गरुडवद्वेगाद्विनिहत्यान्तमेष्यति ॥
त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम् ।
वासुदेवसमं युद्धे तं पार्थं को न पूजयेत् ॥
देवं दैवेन युद्ध्येत मानुपेण च मानुपम् ।
अस्त्रं ह्यस्त्रेण यो हन्यात्कोऽर्जुनेन समः पुमान् ॥
पुत्रादनवमः शिष्य इति धर्मविदो विदुः ।
एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः ॥
यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाऽहरः ।
यथाऽनैषीः सभां कृष्णां तथा युध्यस्व पाण्डवं ॥
अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः ।
दुर्द्यूतदेवी गान्धारः शकुनिर्युद्ध्यतामिह ॥
नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च ।
ज्वलतो निशितान्बाणांस्तांस्तान्क्षिपति गाण्डिवं ॥
न हि गाण्डीवनिर्मुक्ता गृध्रपक्षाः सुतेजनाः ।
नान्तरेष्ववतिष्ठन्ते गिरीणामपि दारणाः ॥
अन्तकः पवनो मृत्युस्तथाऽग्निर्बडवामुखः ।
कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनञ्जयः ॥
यथा सभायां द्यूतं त्वं मातुलेन महाकरोः ।
तथा युद्धस्व संग्रामे सौबलेन सुरक्षितः ॥
युद्ध्यतां काममाचार्यो नाहं योत्स्ये धनञ्जयम् ।
मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवांपदम् ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चाशोऽध्यायः ॥ 50 ॥

4-50-14 यदुक्तं ब्राह्मणानां भोजनादावेव कौशलं न युद्ध इति तत्र तवापि वैश्यत्वान्न युद्धे सामर्थ्यमस्तीति दर्शयिष्यन्वर्णानां कर्माणि विभजते चातुर्वर्ण्यस्येत्यादिना ॥ 14 ॥ 4-50-22 वैतंसिको व्याधः ॥ 22 ॥ 4-50-26 अनृतं द्यूतं कुर्वता धार्तराष्ट्रेण धर्मस्य मूलं कृत्तं छिन्नं । तत्र तदा विदुरः किमब्रवीत् क्षयमूलं द्यूतमिति तत्स्मरेति शेषः ॥ 26 ॥ 4-50-37 चकारात् त्रेतानि समुच्चीयते । कृतादयो द्यूतशास्त्रप्रसिद्धाः पाशकाः ॥ 37 ॥ ॥ पञ्चाशोऽध्यायः ॥ 50 ॥