अध्यायः 058

अर्जुनेन रणे विकर्णादिपराभवनपूर्वकं कर्णानुजहननम् ॥ 1 ॥ अर्जुनपराजितेन कर्णेन रणाङ्कणादपयानम् ॥ 2 ॥

वैशंपायन उवाच ।
तत्प्रभग्नं बलं सर्वं विपुलौघस्वनं तथा ।
भीष्ममासाद्य संतस्थौ वेलामिव महोदधिः ॥
तानि सर्वाणि गाङ्गेयः समाश्वास्य परंतपः ।
ततो व्यूह्य महाबाहुः समरेष्वपराजितः ॥
रथनागाश्वकलिकं युयुजे युद्धकोविदः ।
अभेद्यं पंरसैन्यानां शूरैरपि समीक्षितम् ॥
आचार्यदुर्योधनसूतपुत्रैः कृपेण भीष्मेण च पालितानि ।
अवध्यकल्पानि दुरासदानि रथाश्वमातङ्गसमाकुलानि च ॥
तेषामनीकानि किरीटमाली व्यूढानि दृष्ट्वा विपुलध्वजानि ।
गाण्डीवधन्वा द्विषतां निहन्ता वैराटिमामन्त्र्य ततोऽभ्युवाच ॥
सुसंगृहीतैरथ रश्मिभिस्त्वं हयान्नियम्य प्रसमीक्ष्य यत्तः ।
संप्रेषयाशु प्रतिवीरमेनं वैकर्तनं योधयितुं वृणोमि ॥
यां हस्तिकक्ष्यां बहुधा विचित्रां स्तम्भे रथे पश्यसि दर्शनीयाम् ।
विवर्तमानां ज्वलनप्रकाशां वैकर्तनस्यैतदनीकमग्र्यम् ॥
एतेन शीघ्रं प्रतिपादयेमान् श्वेतान्हयान्काञ्चनजालकक्ष्यान् ।
सर्वं जवं तत्र विदर्शयिष्ये ह्यासादयैतद्रथवीरवृन्दम् ॥
गजो गजनेव हि योद्धुकामो मया सदा काङ्क्षति सूतपुत्रः । तमेव मां प्रापय सूतपुत्रं दुर्योधनोपाश्रयजातदर्पम् ।
तं पातयिष्यामि रथस्य मध्ये सहस्रनेत्रोऽशनिनेव वृत्रम् ॥
वैशंपायन उवाच ।
स तैर्हयैर्जातजवैर्बृहद्भिः पुत्रो विराटस्य हिरण्यकक्ष्यै ।
विध्वंसयंस्तद्रथिनामनीकं ततोऽवहत्पाण्डवमाजिमध्ये ॥
तमापतन्तं परमेण तेजसा समीक्ष्य वैकर्तनमभ्यरक्षन् ।
अभ्यद्रवंस्ते रथवीरवृन्दा व्याघ्रेण चाक्रान्तमिवर्षभं रणे ॥
चित्राङ्गदश्चित्ररथश्च वीरः संग्रामजिद्दुःसहचित्रसेनौ । विविंशतिर्दुर्मुखदुर्जयौ च विकर्णदुःशासनसौबलाश्च ।
शोणो निषेधश्च तमन्वयुस्ते वैकर्तनं शीघ्रतरं युवानः ॥
पुत्रा ययुस्ते सहसोदराश्च वैकर्तनं पार्थगतं समीक्ष्य ।
प्रगृह्य चापानि महाबला रणे धनंजयं पर्यकिरञ्शरार्चिभिः ॥
तेषां धनुर्ज्याकृतनैकतन्त्रीं प्रासोपवीणां शरसङ्घकोणाम् ।
कराग्रयन्त्रां स्थिरचापदण्डां वीणामुपावादयदाशु पार्थः ॥
तस्मिंस्तु युद्धे तुमुले प्रवृत्ते पार्थं विकर्णोऽतिरथं रथेन ।
विपाठवर्षेण कुरुप्रवीरो भीमेन भीमानुजमाससाद ॥
ततो विकर्णस्य धनुर्विकृत्य जाम्बुनदेनोपहितं दृढज्यम् ।
न्यपातयत्तद्ध्वजमस्य विद्ध्वा छिन्नध्वजः सोऽप्यपयाञ्जवेन ॥
तं शात्रवाणां गणवाधितारं कर्माणि कुर्वाणममानुपाणि ।
शत्रुंतपो वैरममृष्यमाणः समार्पयत्कूर्मनखेन पार्थम् ॥
स तेन राज्ञाऽतिरथेन विद्धो विगाहमानो ध्वजिनीं पेरपाम् ।
शत्रुंतपं पञ्चभिराशु विद्ध्वा ततोऽस्य सूतं दशभिर्जघान ॥
ततः स विद्धो भरतर्षभेण बाणेन कायावरणातिगेन ।
गतासुराजौ निपपात राजन्नगो नगाग्रादिव वातरुग्णः ॥
रथर्षभास्ते तु रथर्षभेण वीरा रणे वीरतरेण भग्नाः ।
चकम्पिरे वातवशेन काले प्रकम्पितानीव महावनानि ॥
हताश्च पार्थेन नरप्रवीरा भूमौ युवानः सुष्रुषुः सुवेषाः । वसुप्रदा वासवतुल्यवीर्याः पराजिता वासवजेन सङ्ख्ये ।
सुवर्णकार्ष्णायसवर्भनद्धा नागा यथा हैमवते प्रवृद्धाः ॥
तथा स शत्रून्समरे विनिघ्नन् गाण्डीवधन्वा पुरुषप्रवीरः ।
चचार सङ्ख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते ॥
सुजीर्णपर्णानि यथा वसन्ते विशातयित्वा तु रजो नुदन्खे ।
तथा सपत्नान्विकिरन्किरीटी चचार सङ्ख्येऽतिरथो रथेन ॥
शोणाश्ववाहस्य हयान्निहत्य वैकर्तनभ्रातुरदीनसत्वः ।
एकेन संग्रामजितः शरेण शिरो जहाराथ किरीटमाली ॥
तस्मिन्हते भ्रातरि सूतपुत्रो वैकर्तनो वीर्यमदप्रतापी ।
प्रगृह्य दन्ताविव नागराजो महाबलः सिंहमिवाजगाम ॥
स पाण्डवं द्वादशभिः पृषत्कैर्वैकर्तनः पार्थमुपाजघान् ।
विव्याध गात्रेषु हयांश्च सर्वान्विराटपुत्रं च शरैर्विजघ्ने ॥
तमापतन्तं समरे किरीटी वैकर्तनं सर्वसमृद्धतेजाः ।
प्रच्छादयामास महाधनुष्मान्न्यषेधयच्छत्रुगणांश्च वीरः ॥
निहत्य कर्णस्य ततः किरीटी पुरश्चरांश्चापि च पृष्ठगोपान् ।
समीपमभ्यागमदप्रमेयो वितत्य पक्षौ गरुडो यथोरगम् ॥
तावुत्तमौ सर्वधनुर्धराणां महाबलौ सर्वसपत्नसाहौ ।
कर्णं च पार्थं च निशम्य युद्धे दिदृक्षमाणाः कुरवोऽवतस्थुः ॥
तं पाण्डवः स्पष्टमुदीर्णकोपं कृतागसं कर्णमुदीक्ष्य कोपात् ।
क्षणेन साश्वं सरथं ससूतमन्तर्दधे मेघ इवातिवृष्ट्या ॥
ततः सयुग्याः सरथाः सनागा योधा विनेदुर्भरतर्षभाणाम् ।
अन्तर्हितं भीष्ममुखाः समीक्ष्य किरीटिना कर्णरथं पृषत्कैः ॥
स चापि तानर्जुनबाहुमुक्ताञ्शराञ्शरौघैः प्रतिहत्य तूर्णम् ।
बभौ महात्मा सधनुः सबाणः सविष्फुलिङ्गोऽग्निरिवाथ कर्णः ॥
ततस्तु जज्ञे करतालघोषः सशङ्खभेरीपणवाकुलस्तु ।
प्रक्ष्वेलितास्फोटितसिंहनादैर्वैकर्तनं पूजयतां कुरूणाम् ॥
आधूतलाङ्गूलमहापताकं रथोत्तमं श्रेष्ठतमं कुरूणाम् ।
ततः सगाण्डीवकृतप्रणादं किरीटिनं प्रेक्ष्य ननाद कर्णः ॥
पार्थोपि वैकर्तनमर्दयित्वा साश्वं सकेतुं सरथं ससूतम् ।
ननाद हर्षात्सहसा किरीटी पितामहं द्रोणकृपौ च दृष्ट्वा ॥
सिषेच पार्थं बहुभिः शरौघैर्वैकर्तनः संयति तीक्ष्णवेगैः ।
वैकर्तनश्चापि किरीटमाली प्रच्छादयामास शितैः शरौघैः ॥
तयोरमोघन्सृजतोः शरौघानस्त्रज्ञयोरास महान्विमर्दः ।
राहुप्रमुक्ताविव चन्द्रसूर्यौ क्षणान्तरेणानुददर्श लोकः ॥
हतास्तु पार्थेन रथप्रवीरा भूमौ युवानः सुपुपुः सुकेशाः ।
सुवर्णलोहायसवर्मगात्रा वृक्षा यथा हैमवते निकृत्ताः ॥
तथा स शत्रून्समरे विनिघ्नन्गाण्डीवधन्वा व्यधमत्सपत्नान् ।
चचार सङ्ख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते ॥
सुशीर्णपर्णानि यथा वसन्ते विधूनयन्वायुरिवाल्पसारान् ।
तथा सपत्नान्विधमन्किरीटी चचार सङ्ख्येऽतिरथो रथेन ॥
शत्रूनिवेन्द्रः समरे किरीटी विद्रावयंस्तद्रथवीरबृन्दम् ।
प्राच्छादयच्चरुकिरीटमाली वरेषुभिः शत्रुगणाननेकान् ॥
कर्णं तदोवाच किरीटमाली शूरः कुरूणां प्रवरोऽभिगर्जन् ॥
कर्ण यस्त्वं सभामध्ये बह्वबद्धं प्रभाषसे ।
न मे युधि समोस्तीति तदिदं प्रत्युपस्थितम् ॥
सभायां पौरुषं प्रोच्य धर्ममुत्सृज्य केवलम् । कर्तुमिच्छसि यत्कर्म तन्मन्ये दुष्करं त्वया ।
यत्त्वया कथितं पूर्वं नास्ति मत्सम इत्यपि ।
तत्सत्यं कुरु राधेय कुरुमध्ये मया सह ॥
सभायां यस्तु पाञ्चालीं क्लिश्यमानां तदा त्वया ।
दृष्टवानस्मि तस्याद्य फलमश्रुहि केवलम् ॥
धर्मपाशनिबद्धेन यन्मया मर्षितं तव ।
तस्य पापस्य राधेय फलं प्राप्नुहि दुर्मते ॥
एहि कर्ण मया सार्धमिहाद्य कुरु वैशसम् ।
प्रेक्षका कुरवः सन्तु सर्वे ते सहसैनिकाः ॥
इदानीमेव तावत्त्वमपयातो रणान्मम ।
कस्माज्जीवसि राधेय निहतस्त्वनुजस्तव ॥
यो भ्रातरं पातयित्वा कस्त्यक्त्वा च रणाजिरम् ।
त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः ॥
कर्ण उवाच ।
ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर ।
विशेषितो हि त्वं वाचा कर्मणाप्रतिमं भुवि ॥
यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम् ।
इति गृह्णीम ते पार्थ तमदृष्ट्वा पराक्रमम् ॥
धर्मपाशनिबद्धेन यत्त्वया मर्षितं पुरा ।
तथैव बद्धमात्मानमबद्ध इति मन्यसे ॥
न हि तावद्वने वासो यथोक्तं चरितस्त्वया ।
क्लिष्टस्त्वमर्थलोभात्तु समयं छेत्तुमिच्छसि ॥
यदि चेन्द्रः स्वयं पार्थ तव युद्ध्येत कारणात् ।
तथाऽपिन व्यथा काचिन्मम स्याद्विक्रमिष्यतः ॥
अयं कौन्तेयकामस्ते नचिरात्समुपस्थितः ।
योत्स्यसे हि मया सार्धमत्र पश्यामि ते बलम् ॥
वैशंपायन उवाच ।
इति कर्णो ब्रुवन्नेव बीभत्सुमपराजितम् ।
अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः ॥
प्रतिजग्राह तान्पार्थः प्रीयमाणो महारथः ॥
शरवर्षेण महता पर्जन्य इव वृष्टिमान् ।
अभीयाय हि बीभत्सुर्गाण्डीवं विक्षिपन्धनुः ॥
जिघांसुः समरे कर्णं विससर्ज शरान्बहून् ।
तान्कर्णः प्रतिजग्राह वायुवेगमिवाचलः ॥
तयोर्दैवासुरसमः सन्निपातोऽभवन्महान् ।
किरतोः शरजालानि कृत्स्नं व्योम निरन्तरं ॥
उत्पेतुर्मेघजालानि घोररूपाणि सर्वशः ।
ववर्ष च रजो भौमं कर्णपार्थसमागमे ॥
न स्म सूर्यः प्रतपति न च वाति समीरणः ।
शरप्रच्छादितं व्योम छायाभूतमिवाभवत् ॥
गाण्डीवस्य च निर्घोषः कर्णस्य धनुषस्तथा ।
दह्यतामिव वेणूनामासीत्परमदारुणः ॥
अर्जुनस्तु हयान्नागान्रथांश्च विनिपातयन् ।
क्षोभयामास तत्सैन्यं कर्णं विव्याध चासकृत् ॥
ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत् । छिन्नधन्वा ततः कर्णः शक्तिं चिक्षेप वेगवान्
तां शक्तिं समरे पार्थश्चिच्छेद निशितैः शरैः ॥
ततो निपेतुर्बहुशो राधेयस्य पदानुगाः ।
तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम् ॥
अशेरतावृत्य महीं समग्रां पार्थेषुमार्गे निहता द्विपेन्द्राः ।
हिरण्यकक्ष्यां शरजालचित्रा यथा नगाः पावकजालनद्धाः ॥
तं शत्रुसेनाङ्गनिबर्हणानि कर्माणि कुर्वाणममानुषाणि ।
वैकर्तनः पूर्वममृष्यमाणः समार्पयल्लक्ष्यमिवाशु पार्थम् ॥
ततश्चतुर्भिस्तुरगान्विकृष्य विव्याध कर्णोऽथ धनंजयस्य ।
षङ्भिश्च सूतं दशभिर्हयांश्च षष्ट्या च पार्थं त्रिभिरस्य केतुम् ॥
सविष्फुलिङ्गोज्ज्वलभीमघोषः कोपेन्धनः केतुशिखः शरार्चिः ।
कर्णाग्निरस्त्रानिलभीमवातो बभौ दिधक्षन्निव पार्थकक्षम् ॥
स्वनेमिशङ्खस्वनभीमघोषश्चलत्पताकोज्ज्वलभीमविद्युत् ।
पार्थाम्बुदः शस्त्रशराम्बुधारः कर्णानलं संशमयांचकार ॥
तेनातिविद्धः समरे किरीटी प्रबोधितः सिंह इव प्रसुप्तः ।
गाण्डीवधन्वा प्रवरः कुरूणां प्रतत्वरे कर्णवधाय जिष्णुः ॥
स ब्राह्ममस्त्रं समरे किरीटी प्रादुश्चकाराद्भुतवीर्यकर्मा ।
सन्तापयन्कर्णरथं शरौघैर्लोकानिमान्त्सूर्य इवांशुमाली ॥
स हस्तिनेवाभिहतो गजेन्द्रः प्रगृह्य भल्लान्निशितान्निषङ्गात् ।
आकर्णपूर्णे तु धनुर्विकृष्य विव्याध बाणैरथ सूतपुत्रम् ॥
अथास्य बाहू सशिरो ललाटं ग्रीवामुरः स्कन्धभुजान्तरं च ।
कर्णस्य पार्थो युधि निर्बिभेद वज्रैरिवाद्रिं भगवान्महेन्द्रः ॥
स पार्थमुक्तानविषह्य बाणान् गजो गजेनेव जितस्तरस्वी ।
विहाय संग्रामशिरोपयातो वैकर्तनः पार्थशराभितप्तः ॥ 77 ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि अष्टपञ्चाशोऽध्यायः ॥ 58 ॥

4-58-23 वायुर्यथा खे आकाशे रजो नुदन् चरति तथेत्यध्याहारेण योजना ॥ 23 ॥ 4-58-30 कर्णमुदीक्ष्य हर्षादिति धo पाठः ॥ 30 ॥