अध्यायः 059

द्रोणार्जुनयोर्युद्धवर्णनम् ॥ 1 ॥ अर्जुनबाणाहतिविषपणे द्रोणे अश्वत्थाम्ना तद्रक्षणायार्जुनप्रत्यभियानम् ॥ 2 ॥ अत्रान्तरेऽर्जुनदत्तावकाशेन द्रोणेन रणादपयानम् ॥ 3 ॥

वैशंपायन उवाच ।
जितं वैकर्तनं दृष्ट्वा पार्थो वैराटिमब्रवीत् ।
स्थिरो भव त्वं संग्रामे जयोऽस्माकं नृपात्मजः ॥
यावच्छङ्खमुपाध्यास्ये द्विषतां रोमहर्षणम् । अविक्लबमसंभ्रान्तमव्यक्तहृदयेक्षणम् ।
याहि शीघ्रं यतो द्रोणो ममाचार्यो रणे स्थितः ॥ तथा संक्रीडमानस्य अर्जुनस्य रणाजिरे ।
बलं सत्वं च तेजश्च लाघवं च व्यवर्धत ॥
तच्चाद्भुतमभिप्रेक्ष्य भयमुत्तरमाविशत् ॥
उत्तर उवाच ।
अस्त्राणां तव दिव्यानां शरौघान्क्षिपतः शितान् ।
मनो मे मुह्यतेऽत्यर्थं तव दृष्ट्वा पराक्रमम् ॥
द्वैधीभूतं मनो मह्यं भयाद्भरतसत्तम ।
अदृष्टपूर्वं पश्यामि तव गाण्डीवनिस्वनम् ॥
तव बाहुबलं चैव धनुः कर्षयतो बहु ।
तव तेजो दुराधर्षं यथा विष्णोस्त्रिविक्रमे ॥
वैशंपायन उवाच ।
तमुत्तरश्चित्रमवेक्ष्य गाण्डिवं शरांश्च मुक्तान्सहसा किरीटिना ।
भीतोऽब्रवीदर्जुनमाजिमध्ये नाहं तवाश्वान्विषहे नियन्तुम् ॥
तमब्रवीत्किंचिदिव प्रहस्य गाण्डीवधन्वा द्विषतां निहन्ता ।
मया सहायेन कुतोऽस्ति ते भयं प्रेह्युत्तराश्वाननुमन्त्र्य वाहय ॥
वैशंपायन उवाच ।
आश्वासितस्तेन धनंजयेन वैराटिरश्वान्प्रतुतोदय शीघ्रम् ।
धनंजयश्चापि विकृष्य चापं विष्फारयामास महेन्द्रकल्पः ॥
उत्तरं चैव बीभत्सुरब्रवीत्पुनरर्जुनः ।
न भेतव्यं मया सार्धं तात संग्राममूर्धनि ॥
राजपुत्रोऽसि ते भद्रं कुले महति मात्स्यके ।
जातस्त्वं क्षत्रियकुले न विषीदितुमर्हसि ॥
धृतिं कृत्वा सुविपुलां राजपुत्र रथं मम ।
युध्यमानस्य संग्रामे राजभिः सह वाहय ॥
उक्त्वा तमेवं बीभत्सुरर्जुनः पुनरब्रवीत् ।
पाण्डवो रथिनां श्रेष्ठो भारद्वाजं समीक्ष्य तु ॥
यत्रैषा काञ्चनी वेदिर्दृश्यतेऽग्निशिखोपमा ।
उच्छ्रिता काञ्चने दण्डे पताकाभिरलंकृता ॥
तत्र मां वह भद्रं ते द्रोणं योत्स्यामि सत्तमम् ।
भारद्वाजेन योत्स्येऽहमाचार्येण महात्मना ॥
अमी शोणाः प्रकाशन्ते तुरगाः साधुवाहिनः ।
मुक्ता रथवरे तस्य सर्वशिक्षाविशारदाः ॥
यतो रथवरे शूरः सर्वशस्त्रभृतांवरः ।
स्निग्धवैडूर्यसंकाशस्ताम्राक्षः प्रियदर्शनः ॥
आदित्य इव तेजस्वी बलवीर्यसमन्वितः । सर्वलोकधनुःश्रेष्ठः सर्वलोकेषु पूजितः ।
अङ्गिरोशनसोस्तुल्यो नये बुद्धिमतांवरः ॥
चत्वारो निखिला वेदाः साङ्गोपाङ्गाः सलक्षणाः ।
धनुर्वेदश्च कार्त्स्न्येन ब्राह्मं चास्त्रं प्रतिष्ठितम् ॥
पुराणमितिहासश्च अर्थविद्या च मानवम् ।
भारद्वाजे समस्तानि सर्वाण्येतानि सांप्रतम् ॥
क्षमा दमश्च सत्यं च तेजो मार्दवमार्जवम् ।
प्रतिष्ठिता गुणा यस्मिन्बहवो द्विजसत्तमे ॥
यस्याहमिष्टः सततं मम चेष्टः सदा च सः ।
क्षत्रधर्मं पुरस्कृत्य तेन योत्स्ये हि सांप्रतम् ॥
आचार्यं प्रापयेदानीं ममोत्तर महारथम् ।
अपरं पश्य संग्राममद्भुतं मम तस्य च ॥
उत्तरस्त्वेवमुक्तोऽश्वांश्चोदयामास तं प्रति ।
आजगामार्जुनरथो भारद्वाजरथं प्रति ॥
तमापतन्तं वेगेन पाण्डवं सरथं रणे ।
द्रोणोप्यभ्यद्रवत्पार्थं मतो मत्तमिव द्विपम् ॥
स तु रुक्मरथं दृष्ट्वा कौन्तेयः समभिद्रुतम् ।
आचार्यं तं महाबाहुः प्राञ्जलिर्वाक्यमब्रवीत् ॥
उषिताः स्मो वने वासं प्रतिकर्मचिकीर्षवः ।
कोपं नार्हसि नः कर्तुं सदा समरदुर्जय ॥
अहं तु ताडितः पूर्वं प्रहरेयं तवानघ ।
इति मे वर्तते बुद्धिस्तद्भवान्क्षन्तुमर्हति ॥
ततः प्राध्मापयच्छङ्खं भेरीपटहवादितम् ।
व्यक्षोभत बलं सर्वमुद्धूतमिव सागरम् ॥
वैशंपायन उवाच ।
ततस्तु प्राहिणोद्द्रोणः शरानथ स विंशतिम् ।
अप्राप्तानेव तान्पार्थश्चिच्छेद कृतहस्तवान् ॥
ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् ।
अवाकिरत्ततो द्रोणः शीघ्रहस्तं प्रदर्शयन् ॥
एवं प्रववृते युद्धं भारज्वाजकिरीटिनोः ॥
अश्वाञ्शोणान्महावेगान्हंसवर्णैस्तु वाजिभिः ।
मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त पृथग्जनाः ॥
रथं रथेन पार्थस्य समाहत्य परंतपः ।
हर्षयुक्तस्तदाऽऽचार्यः प्रत्यगृह्णात्स पाण्डवम् ॥
समाश्लिष्टाविवान्योन्यं द्रोणपाण्डवयोर्ध्वजौ ।
दृष्ट्वा प्राकम्पत मुहुर्भारतानां महाचमूः ॥
तत्तु युद्धं प्रववृते ह्याचार्यस्यार्जुनस्य च ।
विमुञ्चतोः शरानुग्रान्विशिखान्दीप्ततेजसः ॥
तौ वीरौ वीर्यसंपन्नौ दृष्ट्वा समरमूर्धनि ।
आचार्यशिष्यौ रथिनौ कृतवीर्यौ तरस्विनौ ॥
उभौ विश्रुतकर्माणावुभौ श्रमगतौ जये । उभावतिरथौ लोके ह्युभौ परपुंरजयौ ।
क्षिपन्तौ शरजालानि क्षत्रियान्मोह आविशत् ॥
व्यस्मयन्त नराः सर्वे द्रोणार्जुनसमागमे ।
नराणां ब्रुवतां वाक्यं श्रूयते स महास्वनः ॥
द्रोणं हि समरे कोऽन्यो योद्धुमर्हत्यथार्जुनात् ।
रौद्रः क्षत्रियधर्मोऽयं गुरं वै यदयोधयत् ॥
इत्यब्रुवञ्जनास्तत्र संग्रामशिरसि स्थिताः ।
तौ समीक्ष्य तु संरब्धौ सन्निकृष्टौ महारथौ ॥
छाद्येतां शरौघैस्तावन्योन्यमुपराजितौ ।
संयुगे संचकाशेतां कालसूर्याविवोदितौ ॥
विष्फार्य च महाचापं हेमपृष्ठं दुरासदम् ।
संरब्धस्तु तदा द्रोणः प्रत्ययुध्यत फल्गुनम् ॥
स सायकमयैर्जालैरर्जुनस्य रथं प्रति ।
भानुमद्भिः शिलाधौतैर्बाणैः प्राच्छादयद्दिशः ॥
अर्जुनस्तु तदा द्रोणं महावेगैर्महारथः ।
विव्याध शतशो बाणैर्धाराभिरिव पर्वतम् ॥
कालमेघ इवोष्णान्ते फल्गुनः समवाकिरत् ॥
तस्य जाम्बूनदमयैश्चितरैश्चापच्युतैः शरैः ।
प्राच्छादयद्रथश्रेष्ठं भारद्वाजोऽर्जुनस्य वै ॥
तथैव दिव्यं गाण्डीवं धनुरानम्य चार्जुनः ।
शत्रुघ्नं वेगवत्सृष्टं भारसाधनमुत्तमम् ॥
शोभते स्म महावाहुर्गाण्डीवं विक्षिपन्धनुः ।
शरांश्च विसृजंश्चित्रान्सुवर्णविकृतान्बहून् ॥
प्राच्छादयदमेयात्मा भारद्वाजरथं प्रति ।
द्रोणचापविनिर्मुक्तान्बाणान्बाणैरवारयत् ॥
सरथोऽप्यचरत्पार्थः प्रेक्षणीयो महारथः ।
युगपद्दिक्षु सर्वासु सर्वतोऽस्त्राण्यवासृजम् ॥
आददानं शरान्घोरान्संदधानं च पाण्डवम् ।
विसृजन्तं च क्रौन्तेयं न स्म पश्यन्ति लाघवाम् ॥
एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः ।
नादृश्यत ततो द्रोणो नीहारेणेव पर्वतः ॥
मरीचिविकचस्येव राजन्भानुमतो वपुः ।
आसीत्पार्थस्य सुमहद्वपुः शरशतार्चितम् ॥
क्षिपतः शरजालानि कौन्तेयस्य महात्मनः । तान्विधूय शरान्घोरान्द्रोणोऽपि समितिंजयः ।
बभासे तिमिरं व्योम्नि विधूय सविता यथा ॥
अग्निचक्रोपमं घोरं मण्डलीकृतमाहवे । विकृष्य सुमहच्चापं मेघस्तनितनिस्वनम् ।
असकृत्मुञ्चतो बाणान्ददृशुः कुरवो युधि ॥
दिक्षु सर्वासु विपुलः शुश्रुवेऽथ जनैस्तदा । द्रोणस्यापि धनुर्घोषो विद्युत्स्तनितनिस्वनः ।
अभवद्विस्मयकरः सैन्यानां भरतर्षभ ॥
तप्तजाम्बूनदमयैर्दीप्तैरग्निसमैः शरैः ।
प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम् ॥
ततः काञ्चनपङ्खानां शराणां नतपर्वणाम् ।
वियद्गतानां चरतां दृश्यन्ते बहवो व्रजाः ॥
शरासनात्तु द्रोणस्य प्रभवन्ति स्म सायकाः । एको दीर्घ इवाभान्तः प्रदृश्यन्ते महाशराः ।
आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः ॥
एवं सुवर्णविकृतान्विमुञ्चन्तौ शरान्बहून् ।
आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः ॥
तयोः शराश्च विबभुः कङ्कबर्हिणवाससः ।
पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बरे ॥
तत्तु युद्धं महाघोरं तयोः संरब्धयोरभूत् ।
अत्यद्भुतमचिन्त्यं च वृत्रवासवयोरिव ॥
महागजाविवासाद्य विषाणाग्रैः परस्परम् ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥
अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान् ।
अवारयच्छितैर्बाणैरर्जुनो जयतांवरः ॥
दर्शयन्नैन्द्रमात्मानमुग्रमुग्रुपराक्रमः । इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत् ।
जिघांसन्तं नरव्याघ्रमर्जुनं भीमदर्शनम् ।
विव्याध निशितैर्द्रोणः शरैः सन्नतपर्वभिः ॥
हृष्टः समभवद्द्रोणो रणशौण्डः प्रतापवान् ।
अर्जुनेन समं क्रीडञ्शरैः सन्नतपर्वभिः ॥
तौ व्यदारयतां शूरौ सन्नद्धौ रणशोभिनौ ।
उदीरयन्तौ दिव्यानि ब्राह्माद्यस्त्राणि भागशः ॥
पार्थस्तु समरे शूरो दर्शयन्वीर्यमात्मनः ।
स मह्यस्त्रैर्महात्मानं द्रोणं प्राच्छादयच्छरैः ॥
अस्त्रैरस्त्राणि संवार्य पार्थो द्रोणमवारयत् ॥
तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः ।
अमृष्यमाणयोः सङ्ख्ये बलिवासवयोरिव ॥
दर्शयेतां महास्राणि भारद्वाजार्जुनौ रणे ॥
ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः ।
मुक्तंमुक्तं द्रोणचापाद्ग्रमते स्म पुनः पुनः ॥
एवं शूरौ महेष्वासौ विसृजन्तौ शिलाशितान् ।
एकच्छायमकुर्वातां गगनं शरवृष्टिभिः ॥
ततोऽर्जुनेन मुक्तानां पततां च शरीरिपु ।
पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः ॥
ततो नागा रथाश्वाश्च सादिनश्च विशांपते ।
शोणिताक्ताश्च दृश्यन्ते पुष्पिता इव किंशुकाः ॥
बाहुभिश्च सकेयूरैर्निकृत्तैश्च महारथैः ।
सुवर्णाचित्रैः कवचैर्ध्वजैश्च विनिपातितैः ॥
योधैश्च निहतैस्तत्र पार्थबाणाभिपीडितैः ।
बलमासीत्सुसंभ्रान्तं द्रोणार्जुनसमागमे ॥
विधृन्वानौ तु तौ वीरौ धनुषी भारसाधने ।
प्राच्छादयेतामन्योन्यं दिधक्षन्तौ वरेषुभिः ॥
अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम् ।
दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत् ॥
प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम् ।
जेतारं सर्वदैत्यानां सर्वेषां च महारथम् ॥
अविभ्रमं च शिक्षां च लाघवं दूरपातनम् ।
पार्थस्य समरे दृष्ट्वा द्रोणस्यासीच्च विस्मयः ॥
तत्प्रवृत्तं चिरं घोरं तयोर्युद्धं महात्मनोः ।
अवर्तत महारौद्रं लोकसंक्षोभकरकम् ॥
अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः ।
विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभः ॥
तस्य बाणमयं वर्षे शलभानामिवाभवत् ।
न च बाणान्तरे तस्य वायुः शक्नोति सर्पितुम् ॥
अभीक्ष्णं संदधानस्य बाणानुत्सृजतस्तथा ।
नान्तरं ददृशे किंचित्पार्थस्यापततोपी च ॥
युद्धे तु कृतशीघ्रास्त्रे वर्तमाने सुदारुणे ।
शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदैरयत् ॥
ततः शरसहस्राणि शराणां नतपर्वणाम् ।
युगपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात् ॥
विकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना ॥
हाहाकारो महानासीत्सैन्यानां भरतर्षभ ॥
पाण्डवस्य तु शीघ्रास्त्रं मघवा समपूजयत् ।
गन्धर्वाप्सरसश्चैव ये च तत्र समागताः ॥
द्रोणं युद्धार्णवे मग्नं दृष्ट्वा पुत्रः प्रतापवान् । ततो वृन्देन महता रथिनां रथियूथपः ।
आचार्यपुत्रस्तु शरैः पाण्डवं प्रत्यवारयत् ॥
अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः ।
पूजयामास पार्थस्य कोपं चास्य तदाऽकरोत् ॥
स भन्युवशमापन्नः पार्थमभ्यद्रवद्रणे ।
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ॥
आवृत्य च महाबाहुर्यतो द्रोणस्ततोऽभवत् ।
अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम् ॥
स तु लब्धान्तरस्तूर्णमपायाञ्जवनैर्हयैः ।
छिन्नवर्मध्वजरथो निकृत्तः परमेषुभिः ॥
पराजिते तदा द्रोणे द्रोणपुत्रः समागतः ।
सदण्ड इव रक्ताक्षः कृतान्तः समरे स्थितः ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनषष्टितमोऽध्यायः ॥ 59 ॥