अध्यायः 060

अर्जुनेन द्रोणिपराभवनम् ॥ 1 ॥

वैशंपायन उवाच ।
तं पार्थः प्रतिजग्राह वायुवेगमिवाचलः ।
शरजालेन महता वर्षमाण इवाम्बुदः ॥
तयोर्देवासुरसमः सन्निपातो महानभूत् ।
किरतोः शरजालानि वृत्रवासवयोरिव ॥
न स्म सूर्यस्तदा भाति न च वाति समीरणः ।
शरगाढे कृते व्योम्नि छायाभूतमिवाभवत् ॥
महांश्चटचटाशब्दो योधयोर्युध्यमानयोः ।
दह्यतामिव वेणूनामासीत्परमदारुणः ॥
हयांस्तस्यार्जुनः सङ्ख्ये कृतवानल्पतेजसाः ।
ते राजन्न प्रजानन्ति दिशं कांचन मोहिताः ॥
ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः ।
विवरं सूक्ष्ममालोक्य ज्यां नुनोद क्षुरेण सः ॥
तदस्यापूजयन्देवाः कर्म दृष्ट्वाऽतिमानुषम् ।
न शक्तोऽन्यः पुमान्स्थातुमृते द्रौणेर्धनंजयम् ॥
ततो द्रौणिर्धनुर्व्यस्य व्यपक्रम्य नरर्षभः । पुनरप्यभ्यहन्पार्थं हृदये कङ्कपत्रिभिः ।
ततः पार्थो महाबाहुः प्रहसन्स्वनवत्तदा ।
योजयामास च तदा मौर्व्या गाण्डीवमोजसा ॥
तं दृष्ट्वा ऋद्धमायान्तं प्रभिन्नमिव कुञ्जरम् ।
ऋद्धः समाह्वयामास द्रौणिर्युद्धाय भारत ॥
ततोऽर्धचन्द्रपाहृत्य तेन पार्थः समाहतः । चिच्छेद तस्य चापं च सूतं चाश्वं च तेजसा ।
विव्याध निशितैश्चापि शरैराशीविपोपमैः ॥
सोऽन्यं रथं समास्थाय प्रत्यायाद्रथिपुङ्गवः ।
वारणेनेव मत्तेन मत्तो वारणयूथपः ॥
ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः ।
रणमध्ये द्वयोरेव सुमहद्रोमहर्षणम् ॥
तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः ।
युध्यमानौ महात्मानौ द्विरदाविव संगतौ ॥
तौ समाजघ्नतुर्वीरौ परस्परजयैषिणौ ।
शरै राशीविषाकारैर्ज्वलद्भिरिव पावकैः ॥
अक्षयाविषुधी दिव्यौ पाण्डवस्य महात्मनः ।
तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः ॥
अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे ।
जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षष्टितमोऽध्यायः ॥ 60 ॥