अध्यायः 002

युधिष्ठिरेण भ्रातृभिः सह मन्त्रणेन विराटनगरे निवासनिर्धारणम् ॥ 1 ॥ तथा स्वस्य यतिवेपपरिग्रहेण विराटसभास्तारीभवनकथनम् ॥ 2 ॥

वैशंपायन उवाच ।
निवृत्तवनवासास्ते सत्यसन्धा मनस्विनः ।
अकुर्वत पुनर्मन्त्रं सह धौम्येन पाण्डवाः ॥ 1 ॥
अथाब्रवीद्धर्मराजः कुन्तीपुत्रो युधिष्ठिरः ।
भ्रातॄन्कृष्णां च संग्रेक्ष्य धौम्यं च कुरुनन्दनः ॥ 2 ॥
द्वादशेमानि वर्षाणि राज्याद्विप्रोषिता वयम् । त्रयोदशोऽयं संप्राप्तः कृच्छ्रात्परमदुर्वसः ।
स साधु कौन्तेय इतो वासमर्जुन रोचय ॥ 3 ॥
त्रयोदशमिदं प्राप्तं क्वनु वत्स्यामहेऽर्जुन ।
अबुद्धा धार्तराष्ट्रैश्च समग्राः सह कृष्णया ॥ 4 ॥
अर्जुन उवाच ।
तस्यैव वरदानेन धर्मस्य मनुजाधिप ।
अज्ञाता विचरिष्यामो नराणां भरतर्षभ ॥ 5 ॥
यानि राष्ट्राणि वासाय कीर्तयिष्यामि कानिचित् ।
रमणीयानि गुप्तानि तेषां किंचित्तु रोचय ॥ 6 ॥
रम्या जनपदाः सन्ति बहवस्त्वभितः कुरून् । पाञ्चालाश्चैव मत्स्याश्च साल्ववैदेहबाह्लिकाः ।
दशार्णाः शूरसेनाश्च कलिङ्गा मागधा अपि ॥ 7 ॥
विराटनगरं चापि श्रूयते शत्रुसूदन ।
रमणीयं जनाकीर्णं सुभिक्षं स्फीतमेव च ॥ 8 ॥
नानाराष्ट्राणि चान्यानि श्रूयन्ते सुबहूनि च ।
यत्र ते रोचते राजंस्तत्र गच्छामहे वयम् ॥ 9 ॥
कतमस्मिञ्जनपदे महाराज निवत्स्यसि ।
मा विषादे मनः कार्यं राज्यभ्रंश इति क्वचित् ॥ 10 ॥
युधिष्ठिर उवाच ।
एवमेतन्महाबाहो यथा स भगवान्प्रभुः ।
अब्रवीत्सर्वभूतेशस्तथैतन्न तदन्यथा ॥ 11 ॥
अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम् ।
संमन्त्र्य सहितैः सर्वैर्द्रव्यमकुतोऽभयम् ॥ 12 ॥
मात्स्यो विराटो बलवानभिरक्तोथ पाण्डवान् ।
धर्मशीलो वदान्यश्च वृद्धः सत्स्वपि संमतः ॥ 13 ॥
गुणवाँल्लोकविख्यातो दृढभक्तिर्जितेन्द्रियः ।
तत्र मे रोचते पार्थ मत्स्यराजान्तिकेऽनघ ॥ 14 ॥
विराटनगरे तात मासान्द्वादशसंमितान् ।
कुर्वन्तस्तस्य कर्माणि वसामो यदि रोचते ॥ 15 ॥
यानियानि च कर्माणि तस्य शक्ष्यामहे वयम् ।
कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दन ॥ 16 ॥
अर्जुन उवाच ॥
नरदेव कथं कर्म तस्य राष्ट्रे करिष्यसि ।
मनुजेन्द्र विराटस्य रंस्यसे केन कर्मणा ॥ 17 ॥
अक्लिष्टवेषधारी च धार्मिको ह्यनसूयकः ।
न तवाभ्युचितं कर्म नृशंसं नापि कैतवम् ॥ 18 ॥
सत्यवागसि याज्ञीको लोभक्रोधविवर्जितः ।
मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः ॥ 19 ॥
स राजंस्तपसा क्लिष्टः कथं तस्य करिष्यसि । न दुःखमुचितं किंचिद्राजन्पापमतेर्यथा ।
स इमामापदं प्राप्य कथं घोरां तरिष्यसि ॥ 20 ॥
वैशंपायन उवाच ।
अर्जुनेनैवमुक्तस्तु प्रत्युवाच युधिष्ठिरः ।
शृणु त्वं यत्करिष्यामि कर्म वै कुरुनन्दन ॥ 21 ॥
विराटं समनुप्राप्य राजानं मात्स्यनन्दनम् ।
सभास्तारो भविष्यामि विराटस्येति मे मतिः ॥ 22 ॥
कङ्को नाम ब्रुवाणोऽहं मताक्षः साधुदेविता ।
वैडूर्यान्काञ्चनान्दानान्स्फाटिकान्राजतानपि ॥ 23 ॥
कृष्णाक्षाँल्लोहिताक्षांश्च निवप्स्यामि मनोरमान् ।
अरिष्टान्राजगोलिङ्गान्दर्शनीयान्सुवर्चसः ॥ 24 ॥
लोहिताश्चाश्मगर्भाश्च सन्ति तात धनानि मे ।
दर्शनीयाः सभानन्दाः कुशलैः साधुनिष्ठिताः ॥ 25 ॥
अप्येतान्पाणिना स्पृष्ट्वा संप्रहृष्यन्ति मानवाः ॥ 26 ॥
तान्विकीर्य समे देशे रमणीये विपांसुले ।
देविष्यामि यथाकामं स विहारो भविष्यति ॥ 27 ॥
कङ्को नाम्ना परिव्राट् च विराटस्य सभासदः । ज्योतिषे शकुनज्ञाने निमित्ते चाक्षकौशले ।
ब्राह्मे वेदे मयाऽधीते वेदाङ्गेषु च सर्वशः ॥ 28 ॥
धर्मकामार्थमोक्षेषु नीतिशास्त्रेषु पारगः ।
पृष्टोऽहं कथयिष्यामि राज्ञः प्रियतमं वचः ॥ 29 ॥
आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा ।
इति वक्ष्यामि राजानं यदि मामनुयोक्ष्यते ॥ 30 ॥
विराटनगरे छन्न एवं युक्तः सदा वसे । इत्येवं मे प्रतिज्ञातं विचरिष्याम्यहं यथा ॥ 31 ॥

इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥ ---------------