अध्यायः 065

अर्जुनेनोत्तरंप्रति भीष्मादिसकाशे रथप्रापणप्रेरणापूर्वकं तदाप्यायनाय स्वपराक्रमप्रकथनम् ॥ 1 ॥ तदा दुःशासनादिपराभवनपूर्वकं भीष्मादिभिः सहायोधनम् ॥ 2 ॥

वैशंपायन उवाच ।
कर्णं पराजितं दृष्ट्वा पार्थो वैराटिमब्रवीत् ।
एतं मां प्रापयेदानीं रथवृन्दं प्रहारिणाम् ॥
यत्र शान्तनवो भीष्मः सर्वेषां नः पितामहः ।
सुयुद्धं काङ्क्षमाणो वै रथे तिष्ठति दंशितः ॥
तालो वै काञ्चनो यत्र वज्रवैडूर्यभूषितः ।
अतीव समरे भाति मातरिश्वप्रकम्पितः ॥
दारुणं प्रहरिष्यामि रथबृन्दानि धन्विनाम् ।
आदास्याम्यहमेतेषां धनुर्ज्यावेष्टनानि च ॥
अस्यन्तं दिव्यमस्त्राणि चित्रमुत्तर पश्यसि ॥
शतह्रदां जृम्भमाणां मेघस्थां प्रावृषीव च ।
सुवर्णपृष्ठं गाण्डीवं पश्यन्तु कुरवो मम ॥
दक्षिणेनाथ वामेन कतमेन स्विदस्यति ।
इति मां शत्रवः सर्वे न विज्ञास्यन्ति सारथे ॥
अस्त्रोदकां हयावर्तां नागनक्रां रथह्रदाम् ।
नदीं प्रस्कन्दयिष्यामि परलोकापहारिणीम् ॥
पाणिपादशिरःपृष्ठबाहुशङ्खचराचरम् ।
वनं कुरूणां छेत्स्यामि भल्लैः सन्नतपर्वभिः ॥
तूणीशयाः सुपुङ्खाग्रा विशिखा दुन्दुभिस्वनाः ।
मया प्रमुक्ताः संग्रामे कुरून्धक्ष्यन्ति सायकाः ॥
ध्वजवृक्षं शरतृणं नागाश्वश्वापदाकुलम् । रथसिंहगणैर्युक्तं धनुर्वल्लिसमाकुलम् ।
वनमादीपयिष्यामि कुरूणामस्त्रतेजसा ॥
जयतो भारतीं सेनामेकस्य मम संयुगे ।
शतं मार्गा भविष्यन्ति पावकस्येव कानने ॥
मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् । तानहं रथनीडेभ्यः परलोकाय शात्रवान् ।
एकः प्रद्रावयिष्यामि चक्रपाणिरिवासुरान् ॥
असंभ्रान्तो रथे तिष्ठन्समेषु विषमेषु च ।
मार्गमावृत्य तिष्ठन्तमपि भेत्स्यामि पर्वतम् ॥
अहमिन्द्रस्य संग्रामे द्विषतो बलदर्पितान् । मातलिं सारथिं कृत्वा निवातकवचान्रणे ।
हतवान्सर्वतः सर्वान्धावतो युध्यतस्तदा ॥
निवातकवचान्हत्वा गाण्डीवास्त्रैः सहस्रशः ।
परं पारे समुद्रस्य हिरण्यपुरमारुजम् ॥
हत्वा षष्टिसहस्राणि रथानामुग्रधन्विनाम् । पौलोमान्कालकेयांश्च समरे भृशदारुणान् ।
असुरानहनं घोरान्रौद्रेणास्त्रेण सारथे ॥
अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः क्षिप्रहस्तताम् ।
प्रगाढनिपुणं चित्रमतिवृद्धं प्रजापतेः ॥
रौद्रं रुद्रादहं वेद्मि वारुणं वरुणादपि ।
सौर्यं सूर्यादहं वेद्मि याम्यं दण्डधरादपि ॥
अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः ।
अन्यैर्देवैरहं प्राप्तः को मां विषहते पुमान् ॥
अद्य गाण्डीवनिर्मुक्तैःशरौघै रोमहर्षणैः ।
कुरूणां पातयिष्यामि रथवृन्दानि धन्विनाम् ॥
वैशंपायन उवाच ।
एवमाश्वासितस्तेन वैराटिः सव्यसाचिना ।
व्यगाहत रथानीकं भीमं भीष्मस्य वाजिभिः ॥
रथिसिंहमनाधृष्यं जिगीषन्तं परान्रणे ।
अभ्यधावत्तदैवोग्रो ज्यां विकर्षन्धनञ्जयः ॥
दुःशासनोऽभ्ययात्तूर्णमर्जुनं भरतर्षभः ॥
अन्येऽपि चित्राभरणा युवानो मृष्टकुण्डलाः ।
अभ्ययुर्भीमधन्वानो मौवी पर्यस्य बाहुभिः ॥
दुःशासनो विकर्णश्च वृषसेनो विविशतिः ।
अभीता भीमधन्वानं पाण्डवं पर्यवारयन् ॥
तस्य दुःशासनः षष्टिं वामपार्श्वे समार्पयत् ।
अस्यतः प्रतिसन्धाय कुन्तीपुत्रस्य धीमतः ॥
पुनश्चैव स भल्लेन विद्ध्वा वैराटिमुत्तरम् ।
द्वितीयेनार्जुनं वीरं प्रत्यविध्यत्स्तनान्तरे ॥
तस्य जिष्णुरुदावृत्य क्षुरधारेण कार्मुकम् ।
प्राकृन्तद्गृध्रपत्रेण जातरूपपरिष्कृतम् ॥
अथैनं पञ्चभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ।
सोपयातो रथोपस्थात्पार्थबाणाभिपीडितः ॥
सर्वा दिशश्चाभ्यपतद्बीभत्सुरपाराजितः । तं विकर्णः शरैस्तीक्ष्णैर्गृध्रपक्षैः शिलाशितैः ।
विव्याध परवीरध्नमर्जुनं धृतराष्ट्रजः ॥
ततस्तमपि कौन्तेयः शरेण नतपर्वणा ।
ललाटेऽभ्यहनद्गाढं स विद्धः प्राद्रवद्भयात् ॥
ततः पार्थमुपाद्रुत्य दुस्सहः सविविंशतिः ।
अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे ॥
तावुभौ गृध्रपत्राभ्यां निशिताभ्यां धनञ्जयः ।
विव्याध युगपद्व्यग्रस्तयोर्वाहानसूदयत् ॥
तौ हताश्वौ तु विद्धाङ्गौ धृतराष्ट्रात्मजावुभौ ।
अभिपत्य रथैरन्यैरपनीतौ पदानुगैः ॥
व्यद्रावयदशेषांश्च धृतराष्ट्रसुतांस्तदा ।
विद्राव्य च रणे पार्थो रणभूमिं व्यराजयत् ॥
किरीटमाली कौन्तेयो लब्धलक्षः प्रतापवान् ।
पातयन्नुत्तमाङ्गानि बाहूश्च परिघोपमान् ॥
अशेरत महावीराः शतशो रुक्ममालिनः ॥
कमलदिनकरेन्दुसन्निभैः सितदशनैः सुमुखाक्षिनासिकैः ।
रुचिरमकरकुण्डलैर्मही पुरुषशिरोभिरथास्तृता बभौ ॥
सुनसं चारुदीप्ताश्चं क्लृप्तश्मश्रु स्वलंकृतम् ।
अदृश्यत शिरश्छिन्नमनेकं हेमकुण्डलम् ॥
एवं तत्प्रहतं सैन्यं समन्तात्प्रद्रुतं भयात् ॥
अथ दुर्योधनः कर्णः सौबलः शकुनिस्तदा ।
द्रोणश्च द्रोणपुत्रश्च कृपश्चातिरथो रणे ॥
सहिता विजयं तत्र योधयन्तो महारथाः ।
विष्फारयन्तश्चापानि बलवन्ति महाबलाः ॥
ततः कीर्णपताकेन रथेनादित्यवर्चसा ।
पुनरावृत्य मार्गस्थं ददृशुर्वानरध्वजम् ॥
ते महास्त्रैर्महेष्वासाः परिवार्य धनञ्जयम् ।
अभ्यवर्षन्सुसंक्रुद्धा महामेघा इवाचलम् ॥
शरौघान्सम्यगस्यन्तो जीमूता इव शारदाः ।
युद्धे तस्थुर्महावीर्याः प्रतपन्तः किरीटिनम् ॥
इषुभिर्बहुभिस्तूर्णं निशितैर्लोमवापिभिः ।
अदूरात्प्रत्यवस्थाय पाण्डवं समयोधयन् ॥
ततः प्रहस्य बीभत्सुस्तमैन्द्रं पञ्चवार्षिकम् ।
अस्त्रमादित्यसंकाशं गाण्डीवे समयोजयत् ॥
नाक्षणां न च चक्राणां न रथानां न वाजिनाम् ।
अङ्गुलाद्दव्यङ्गुलाद्वापि विवृतं प्रत्यदृश्यत ॥
यथा रश्मिभिरादित्यो वृणुते सर्वतो दिशम् ।
एवं किरीटिना मुक्तं सर्वं प्राच्छादयञ्जगत् ॥
यथा बलाहके विद्युत्पावको वा शिलोच्चये ।
तथा गाण्डीवमभवच्चक्राभुधमिवाततम् ॥
यथा वर्षति पर्जन्यो विद्युत्पतति पर्वते ।
विस्फूर्जिता दिशः सर्वा ज्वलद्गाण्डीवमावृणोत् ॥
त्रस्ताश्च रथिनःक सर्वे चैन्द्रमस्त्रं विकुर्वति । सर्वे शान्तिपरा योधाः स्वचित्तं नाभिजझिरे ।
सहिता द्रोणभीष्माभ्यां प्रमोहगतचेतनाः ॥
तानि सर्वाणि सैन्यानि भग्नानि भरतर्षभ ।
प्राद्रवन्त दिशः सर्वा भयाद्वै सव्यसाचिनः ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चषष्टितमोऽध्यायः ॥