अध्यायः 066

अर्जुनेन भीतमुत्तरंप्रति समाश्वासनपूर्वकं दुर्योधनंप्रति रथयापनचोदना ॥ 1 ॥ तथा स्वबाणाभिघातासहनेन पलायमानं तंप्रति सोपहासमाह्वानम् ॥ 2 ॥

अर्जुन उवाच ।
दक्षिणामेव तु दिशं हयानुत्तर वाहय ।
पुरा सार्थी भवत्येषामयं शब्दोऽत्र तिष्ठताम् ॥
अश्चत्थाम्नः प्रतिरथं प्राचीमुद्याहि सारथे ।
अचिराद्द्रष्टुमिच्छामि गुरुपुत्रं यशस्विनम् ॥
वैशंपायन उवाच ।
मोहयित्वा तु तान्सर्वान्धनुर्घोषेण पाण्डवः ।
प्रसव्यं चैवमावृत्य क्रोशार्धं प्राद्रवत्तदा ॥
यथा सततगो वायुः सुपर्णश्चापि शीघ्रगः ।
तथा पार्थरथः शीघ्रमाकाशे पर्यवर्तत ॥
मुहूर्तोपरते शब्दे प्रतियाते धनञ्जये ।
हस्त्यश्वरथपादातं पुरस्कृत्य महारथाः ॥
द्रोणभीष्ममुखाः सर्वे सैन्यानां जघने ययुः ।
यत्ताः पार्थमपश्यन्तः सहिताः शरविक्षताः ॥
सैनिका ऊचुः ।
दिष्ट्या दुर्योधनो मुक्तः सैन्यं भूयिष्ठमागतम् । क्रोशमात्रमतिक्रम्य बलमन्वानयामहे ।
यात यत्र वनं गुल्मं नदीमन्वश्मकां प्रति ॥
वैशंपायन उवाच ।
अथ दुर्योधनो दृष्ट्वा भग्नं स्वं बलमाहवे ।
अमृष्यमाणः क्रोधेन प्रतिमार्गन्धनञ्जयम् ॥
न्यवर्तत कुरुश्रेष्ठ स्वेनानीकेन संवृतः ।
वार्यमाणो दुराधर्षैर्भीष्मद्रोणकृपैर्भृशम् ॥
ततोऽर्जुनश्चित्रमुदारवेगं समीक्ष्य गाण्डीवमुवाच वाक्यम् ।
भोगीन्द्रकल्पं भुवनेषु रूढमभेद्यमच्छेद्यमदाह्यमाजौ ॥
इदं त्विदानीमनयं कुरूणां शिवं धनुः शत्रुनिबर्हणं च ।
अत्याशुगं वेगवदाशुकर्तृ अवारणीयं महते रणाय ॥
प्रदारणं शत्रुवरूथिनीनामनीकजित्संयति वज्रकल्पम् ।
वैधव्यदं शत्रुनितम्बिनीनां मुखप्रदं कौरववंशजानाम् ॥
प्रयाहि यत्रैष सुयोधनो हि तं पातयिष्यामि शरैः सुतीक्ष्णैः । आचार्यपुत्रं च सुयोधनं च पितामहं सूतसुतं च सङ्ख्ये ।
द्रोणं कृपं चैव निवार्य सर्वाञ्शिरो हरिष्यामि सुयोधनस्य ॥
वैशंपायन उवाच ।
तदुत्तरश्चित्रमुदारवेगं धनुश्च दृष्ट्वा निशिताञ्शरांश्च ।
भीतोऽब्रवीदर्जुनमाजिमध्ये नाहं तवाश्वान्विषहे नियन्तुम् ॥
तमब्रवीन्मात्स्यसुतं प्रहस्य गाण्डीवधन्वा द्विषतां निहन्ता ।
मया सहायेन कुतो भयं ते प्रेह्युत्तराश्वानुपमन्त्रयस्व ॥
आश्वासितस्तेन धनञ्जयेन वैराटिरश्वानतुदञ्जवेन ।
विष्फारयंस्तद्धनुरुग्रवेगं युयुत्समानः पुनरेव जिष्णुः ॥
गाण्डीवशब्देन तु तत्रतत्र भूमौ निषेदुर्बहवोऽतिवेलम् ।
शङ्खस्य शब्देन तु वानरस्य शब्देन ते योधवराः समन्तात् ॥
अर्जुन उवाच ।
एषोऽतिमानी धृतराष्ट्रपुत्रः सेनामुखे सर्वसमृद्धतेजाः ।
पराजयं नित्यममृष्यमाणो निवर्तते युद्धमनाः पुरस्तात् ॥
तमेव याहि प्रसमीक्ष्य युक्तः सुयोधनं तत्र सहानुजं च ॥
वैशंपायन उवाच ।
तमापतन्तं प्रसमीक्ष्य सर्वे कुरुप्रवीराः सहसाऽभ्यगच्छन् ।
प्रहस्य वीरः स तु तानतीत्य दुर्योधने द्वौ निचखान बाणौ ॥
तेनार्दितो नाग इव प्रभिन्नः पार्थेन विद्धो धृतराष्ट्रपुत्रः ।
युयुत्समानोऽतिरथेन सङ्ख्ये स्वयं विगृह्यार्जुनमाससाद ॥
स भीमधन्वानमुदग्रवेगो धनञ्जयं शत्रुशतैरजेयम् ।
आकर्णपूर्णायतचोदितेन भल्लेन विव्याध ललाटमध्ये ॥
स तेन बाणेन समर्पितेन जाम्बूनदाभेन सुसंहितेन ।
रराज पार्थो रुधिरं क्षरन्वै यथैकरश्मिर्भगवान्दिवार्कः ॥
अथास्य बाणेन विदारितस्य प्रादुर्वभूवास्रमजस्रमुष्णम् ।
सा तस्य जाम्बूनदपुष्पचित्रा मालेव धाराऽभिविराजते स्म ॥
स तेन बाणाभिहतस्तरस्वी दुयोधनेनोद्धतमन्युवेगः ।
शरानुपादाय विषाग्निकल्पान्विव्याध राजानमदीनसत्वः ॥
दुर्योधनश्चापि तमुग्रतेजाः पार्थश्च दुर्योधनमेकवीरः ।
अन्योन्यमाजौ पुरुषप्रवीरौ सम समाजघ्नतुराजमीढौ ॥
ततः प्रभिन्नेन महागजेन महीधराभेन पुनर्विकर्णः ।
रथैश्चतुर्भिर्गजपादरक्षैः कुन्तीसुतं पाण्डवमभ्यधावत् ॥
तमापतन्तं त्वरितं गजेन्द्रं धनञ्जयः कुम्भललाटमध्ये ।
आकर्णपूर्णेन दृढायसेन बाणेन विव्याध भृशं तु वीरः ॥
पार्थेन सृष्टः स तु गृध्रपत्रो ह्यापुङ्खदेशं प्रविवेश नागम् ।
विदार्य शैलप्रवरप्रकाशं यथाऽशनिः पर्वतमिन्द्रसृष्टः ॥
शरप्रतप्तः स तु नागराजः प्रवेपिताङ्गो व्यथितान्तरात्मा ।
संसीदमानो निपपात भूमौ वज्राहतं शृङ्गमिवाचलस्य ॥
निपातिते दन्तिवरे पृथिव्यां त्रासाद्विकर्णः सहसाऽवतीर्य ।
तूर्णं पदान्यष्टशतानि गत्वा विविंशतेः स्यन्दनमारुरोह ॥
निहत्य नागं तु शरेण तेन वज्रोपमेनाद्रिवरप्रकाशम् ।
तथाविधेनैव शरेण पार्थो दुर्योधनं वक्षसि निर्बिभेद ॥
हते गजे राजनि चैव भिन्ने भग्ने विकर्णे च सपादरक्षे ।
गाण्डीवमुक्तैर्विशिखैः प्रभिन्नास्ते योधमुख्याः सहसा प्रजग्मुः ॥
दृष्ट्वैव बाणेन हतं च नागं योधांश्च सर्वान्नृपतिर्निरीक्ष्य ।
रथं समावृत्य कुरग्नवीरो रणात्प्रदुद्राव यतो न पार्थः ॥
तं भीतरूपं त्वरितं व्रजन्तं दुर्योधनं शत्रुगणावमर्दी ।
अन्वाह्वयद्योद्धुमनाः किरीटी बाणाभिविद्धं रुधिरं वमन्तम् ॥
तस्मिन्महेष्वासवरेऽतिविद्धे धनञ्जयेनाप्रतिमेन युद्धे ।
सर्वाणि सैन्यानि भयार्दितानि त्रासं ययुः पार्थमुदीक्ष्य तानि ॥
ततस्तु ते शान्तिपराश्च सर्वे दृष्ट्वाऽर्जुनं नागमिव प्रभिन्नम् ।
उच्चैर्नदन्तं बलमत्तमाजौ मध्ये स्थितं सिंहमिवर्षभाणाम् ॥
गाण्डीवशब्देन तु पाण्डवस्य योधा निपेतुः सहसा रथेभ्यः ।
भयार्दिताः पार्थशराभितप्ताः सिंहाभिपन्ना इव वारणेन्द्राः ॥
संरक्तनेत्रः पुनरिन्द्रकर्मा वैकर्तनं द्वादशभिः पृषत्कैः ।
वित्रास्य तेषां द्रवतां समैक्षद्दुःशासनं चैकरथेन पार्थः ॥
कर्णोऽब्रवीत्पार्थशराभितप्तो दुर्योधनं दुष्प्रसहं च दृष्ट्वा ।
दृष्टोऽर्जुनोऽयं प्रतियाम शीघ्रं श्रेयो विधास्याम इतो गतेन ॥
मन्ये त्वया तात कृतं च कार्यं यदर्जुनोऽस्माभिरिहाद्य दृष्टः ।
भूयो वनं गच्छतु सव्यसाची पश्यामि पूर्णं समयं न तेषाम् ॥
वैशंपायन उवाच ।
शरार्दितास्ते युधि पाण्डवेन प्रससुरन्योन्यमथाह्वयन्तः ।
कर्णोऽब्रवीदापतत्येष जिष्णुर्दुर्योधनं संपरिवार्य यामः ॥
सर्वास्त्रविद्वारणयूथपाभः काले प्रहर्ता युधि शात्रवाणाम् ।
अयं च पार्थः पुनरागतो नो मूलं च रक्ष्यं भरतर्षभाणाम् ॥
समीक्ष्य पार्थं तरसाऽऽपतन्तं दुर्योधनः कालमिवात्तशस्त्रम् ।
भयार्तरूपः शरणं प्रपेदे द्रोणं च कर्णं च कृपं च भीष्मम् ॥
तं भीतरूपं शरणं व्रजन्तं दुर्योधनं शत्रुसहो निषङ्गी ।
इत्यब्रवीत्प्रीतमनाः किरीटी बाणाभितप्तं रुधिरं वमन्तम् ॥
विहाय कीर्तिं च यशश्च लोके युद्धात्परावृत्य पलायसे किम् ।
न नन्दयिष्यन्ति तवाहतानि तूर्याणि युद्धादवरोपितस्य ॥
न भोक्ष्यसे सोऽद्य महीं समग्रां यानानि वस्त्राण्यथ भोजनानि । कल्याणगन्धीनि च चन्दनानि युद्धात्परावृत्य तु भोक्ष्यसे किम् ।
सुवर्णमाल्यानि च कुण्डलानि हारांश्च वैडूर्यकृतोपधानान् ॥
च्युतरा युद्धान्न तु शङ्खशब्दास्तथा भविष्यन्ति तवाद्य पाप । न भोगहेतोर्वरचन्दनं च स्त्रियश्च मुख्या मधुरप्रलापाः ।
युद्धात्प्रयातस्य नरेन्द्रसूनो परे च लोके फलिता न चेह ॥
युधिष्ठिरस्यास्मि निदेशकारी पार्थस्तृतीयो युधि च स्थिरोस्मि ।
तदर्थमावृत्य मुखं प्रयच्छनरेन्द्रवृत्तं स्मर धार्तराष्ट्रः ॥
मोघं तवैतद्भुवि नामधेयं दुर्योधनेतीह कृतं पुरस्तात् । दुर्योधनस्त्वं प्रथितोसि नाम्ना सुयोधनः सन्निकृतिप्रधानः ।
न ते पुरस्तादथ पृष्ठतो वा पश्यामि दुर्योधन रक्षितारम् ।
परीप्स युद्धेन कुरुप्रवीर प्राणान्मया बाणबलाभितप्तान् ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्षष्टितमोऽध्यायः ॥

4-66-50 सुयोधनस्त्वं निकृतिप्रधान इति खo पाठः ॥ 50 ॥