अध्यायः 00

अर्जुनेनोत्तरंप्रति युधिष्ठिरादितत्वप्रकाशनप्रतिषेधनम् ॥ 1 ॥ तथा श्मशानमेत्य शमीतरौ गाण्डिवादिनिधानपूर्वकं पुनर्बृहन्नलावेषपरिग्रहेण सारथ्यकरणम् ॥ 2 ॥ उत्तरेणार्जुनचोदनया स्वजयोद्धोषणाय नगरंप्रति दूतप्रेषणम् ॥ 3 ॥

वैशंपायन उवाच ।
ततो विजित्य संग्रामे कुरुगोवृषभेक्षणः ।
समानयामास तदा विराटस्य धनं महत् ॥
मतषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः । वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः ।
भयात्संत्रस्तमनसः समाजग्मुस्ततस्ततः ॥
मुक्तकेशाः प्रदृश्यन्ते स्थिताः प्राञ्जलयस्तदा । क्षुत्पिणसापरिश्रान्ता विदेशस्था विचेतसः ।
ऊचुः प्राञ्जलयः सर्वे पार्थ किं करवामहे ॥
प्राणानन्तर्मनोयातान्प्रयाचिष्यामहे वयम् ।
वयं चार्जुन ते दासा ह्यनुरक्ष्या ह्यनाथकाः ॥
अर्जुन उवाच ।
अनाथान्दुःखितान्दीनान्कृशान्वृद्धान्पराजितान् ।
न्यस्तशस्त्रान्निराशांश्च नाहं हन्मि कृताञ्जलीन् ॥
भवन्तो यान्तु विस्रब्धा निर्भया अमृता यथा ।
मम पादरजोलक्ष्म्या जीवन्तु सुचिरं भुवि ॥
तस्य तामभयां वाचं श्रुत्वा योधाः समागताः ।
आयुः कीर्तियशोभिस्ते तमाशीर्भिरवर्धयन् ॥
ततो निवृत्ताः कुरवो यग्नाश्च दिवमास्थिताः ।
प्रयाताः सर्वतस्तत्र नमस्कृत्य धनञ्जयम् ॥
एवं दत्ताभयास्तेन ततो याताः कुरून्प्रति ॥
स कर्म कृत्वा परमार्यकर्मा निहत्य शत्रून्द्विषतां निहन्ता ।
यातो महामेघ इवातपान्ते विद्राव्य पार्थः कुरुसैन्यमेकः ॥
तं मात्स्यपुत्रं द्विषतां निहन्ता वचोऽब्रवीत्संपरिगृह्य राजन् ॥
पितुः सकाशे तव तात सर्वे वसन्ति पार्था विदितं त्वयेति ।
तान्मास्म शंसीर्नगरं प्रविश्य भीतः प्रणश्येत्स च मत्स्यराजः ॥
मया जिता सा ध्वजिनी कुरूणां मया हि गावो विजिता द्विषद्भ्यः ।
एवं तु कामं नगरं प्रविश्य त्वमात्मना कर्म कृतं ब्रवीहि ॥
र उवाच ।
यत्ते कृतं कर्म न वारणीयं तत्कर्म कर्तुं मम नास्ति शक्तिः ।
न त्वां प्रवक्ष्यामि पितुः सकाशे यावन्न मां वक्ष्यसि सव्यसाचिन् ॥
पायन उवाच ।
स शत्रुसेनां तरसा विजित्य आच्छिद्य सर्वं तु धनं कुरूणाम् ।
श्मशानमागम्य पुनः शमीं तामभ्येत्य तस्थौ शरविक्षताङ्गः ॥
ततः स वह्निप्रतिमो महाकपिः सहैव भूतैर्दिवमुत्पपात ।
तथा च माया विहिता बभूव सा ध्वजं च सिंहं युयुजे रथे पुनः ॥
निधाय तच्चायुधमाजिमर्दनः कुरूत्तमानामिषुधीन्ध्वजांस्तथा ।
प्रायात्स मात्स्यो नगरं प्रवेष्टुं किरीटिना सारथिना महात्मा ॥
पार्थश्च कृत्वा परमार्यकर्म निहत्य शत्रून्द्विषतां निहन्ता । विधाय भूयश्च तथैव वेषं जग्राह रश्मीन्पुनरुत्तरस्य ।
बृहन्नलारूपमथो विधाय प्रायात्य मात्स्यो नगरं प्रवेष्टुम् ॥
वैशंपायन उवाच ।
ततो निवृत्ताः कुरवः प्रभग्नाः शममास्थिताः ।
परस्परमवेक्ष्यैव जग्मुस्ते हृतवाससः ॥
पन्थानमुपसंगम्य फल्गुनो वाक्यमब्रवीत् । राजपुत्र प्रपद्यस्व धनानीमानि सर्वशः ।
गोकुलानि महाबाहो वीरगोपालकैः सह ॥
ततोऽपराह्णे यास्यामो विराटनगरं प्रति । आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः ।
गच्छन्तु त्वरितं दूता गोपालाः प्रेषितास्त्वया ।
नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम् ॥
उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत्ततः ।
वचनादर्जुनस्यैव ह्याचक्षध्वं जयं मम ॥
मया जिता सा ध्वजिनी कुरुणं मया च गावो विजिता द्विषद्भ्यः ।
एवं तु कामं नगरं प्रविश्य मयाऽऽत्मना कर्म कृतं ब्रवीत ॥