अध्यायः 073

भीमार्जुनादिभी रात्रौ युधिष्ठिरसमीपगमनम् ॥ 1 ॥ युधिष्ठिरेण सहर्षं स्वानभिभाषणे अर्जुनेन भीमंप्रति तत्कारणप्रश्नः ॥ 2 ॥ युधिष्ठिरेण तं प्रति विराटेनाक्षताडनस्य तत्कारणत्वकथनम् ॥ 3 ॥ भीमादिभिः क्रोधाद्विराटवधाध्यवसाये युधिष्ठिरेण हेतुकथनेन तत्प्रतिषेधनम् ॥ 4 ॥

वैशंपायन उवाच ।
प्रदाय वस्त्राणि किरीटमाली विराटगेहे मुदितः सखीभ्यः ।
कृत्वा महर्तर्म तदाऽऽजिमध्ये दिदृक्षया सोऽभिजगाम पार्थम् ॥
तं प्रेक्षमाणस्त्वथ धर्मराजं पप्रच्छ पार्थोऽथ स भीमसेनम् ।
किं धर्मराजो हि यथापुरं मां मुखं प्रतिच्छाद्य न चाह किंचित् ॥
तमेवमुक्त्वा परिशङ्कमानं दृष्ट्वाऽर्जुनं भीमसेनं च राजा ।
तदाऽब्रवीत्तावभिवीक्ष्य राज- न्युधिष्ठिरस्तत्परिमृज्य रक्तम् ॥
दुरात्मना त्वय्यभिपूज्यमाने विराटराज्ञाऽभिहतोऽस्मि पार्थ ।
तस्मात्प्रहाराद्रुधिरस्य बिन्दू- न्पश्यन्न चेमे पृथिवीं स्पृशेयुः । इति प्रतिच्छाद्य मुखं ततोऽहं मन्युं नियच्छन्नुपविष्ट आसम् ॥
शुभार्ह राष्ट्रं न खिलीकृतं भवे- द्वयं तु यस्मिन्सुखिनोऽभवाम ।
क्रुद्धे तु वीरे त्वयि चाप्रतीते राजा विराटो न लभेत शर्म ॥
अजानता तेन च शौर्यमाजौ छन्नस्य सत्रेण बलं च पार्थ ।
इदं विराटेन मयि प्रयुक्तं त्वां वीक्षमाणो न गतोस्मि हर्षम् ॥
वैशंपायन उवाच
तेनाप्रमेयेन महाबलेन तस्मिंस्तथोक्ते शममास्थितेन ।
तं भीमसेनो बलवानमर्षी धनंजयं क्रुद्धमुवाच वाक्यम् ॥
न पार्थ नित्यं क्षमकालमाह बृहस्पतिर्ज्ञानवतां वरिष्ठः ।
क्षमीह सर्वैः परिभूयतेसौ यथा भुडङ्गो विषवीर्यहीनः ॥
विराटमद्यैव निहत्य शीघ्रं सपुत्रपौत्रं सकुलं ससैन्यम् ।
योक्ष्यामहे धर्मसुतं च राज्ये अद्यैव शीघ्रं त्वरिरेष मात्स्यः ॥
अनेन पाञ्चालसुताऽथ कृष्णा उपेक्षिता कीचकेनाभियुक्ता ।
तस्मादयं नार्हति राजशब्दं राजा भव त्वं नृप पार्थवीर्यात् ॥
राजा कुरूणां च युधिष्ठिरोऽयं मात्स्येषु राजा भवतु प्रवीरः
तं मात्स्यदेहं शतधा भिनद्मि पूर्णोदकं कुम्भमिवाश्मनीह ॥
अर्जुन उवाच ।
भवतः क्षमया राजन्त्सर्वे दोषाश्च नोऽभवन् । तं मात्स्यं सबलं हत्वा सपुत्रज्ञातिबान्धवम् ।
पश्चाच्चैव कुरून्सर्वान्हनिष्यामि न संशयः ॥
भीमसेनश्च ये चान्ये तथैवेति तमब्रुवन् ॥
तमब्रवीद्धर्मसुतो महात्मा क्षमी वदान्यः कुपितं च भीमम् ।
न प्रत्युपस्थास्यति चेत्सदारः प्रसादने सम्यगथास्तु वध्यः ॥
न हन्तव्यो दुरात्माऽयं विराटश्चापि तेऽर्जुन ॥
श्वः प्रभाते प्रवेक्ष्यामः सभां सिंहासनेष्वपि ।
राजवेषेण संयुक्ताः स्थानमस्व स्वलंकृताः ॥
विराटो यदि तत्रस्थान्राजालङ्कारशोभितान् । राजलक्षणसंपन्नान्यदि तत्र न मंस्यते ।
पश्चाद्धन्यामहे पार्थ विराटं सहबान्धवम् ॥
इतिकर्तव्यतां सर्वे मन्त्रयित्वा तु पाण्डवाः ।
न्यवसंश्चैव तां रात्रिं धर्मज्ञा धर्मवत्सलाः ॥
सहपुत्रेण मात्स्यः स संप्रहृष्टो नराधिपः ।
तां रात्रिमवसत्प्रीतः संप्रहृष्टेन चेतसा ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिसप्ततितमोऽध्यायः ॥