अध्यायः 020

विराटेन कीचकस्य दण्डाप्रयोगाद्रुष्ट्या द्रौपद्या तंप्रत्युपालम्भनम् ॥ 1 ॥ युधिष्ठिरेण द्रौपद्याः सान्त्वनम् ॥ 2 ॥ द्रौपद्याऽज्ञानादिव स्वशोकहेतुं पृच्छन्तीं सुदेष्णांप्रति गन्धर्वैः कीचकवधस्य भावित्वकथनम् ॥ 3 ॥

वैशंपायन उवाच ।
एवं विलपमानायां पाञ्चाल्यां मत्स्यपुङ्गवः । अशक्तः कीचकं तत्र शासितुं बलदर्पितम् ।
विराटराजः मूतं तु सान्त्वेनैव न्यवारयत् ॥ 1 ॥
कीचकं मत्स्यराजेन कृतागसमनिन्दिता ।
नापराधानुरूपेण दण्डेन प्रतिपादितम् ॥ 2 ॥
पाञ्चालराजस्य सुता दृष्ट्वा सुरसुतोपमा । धर्मज्ञा व्यवहाराणां कीचके कृतकिल्बिषे ।
पुनः प्रोवाच राजानं स्मरन्ती धर्ममुत्तमम् ॥ 3 ॥
संप्रेक्ष्य च वरारोहा सर्वांस्तत्र सभासदः । राजानुवर्तनपरान्कीचकं च कृतागसम् ।
विराटं चाह पाञ्चाली दुःखेनाविष्टचेतना ॥ 4 ॥
न राजन्राजवत्किंचित्समाचरसि कीचके ।
दस्यूनामिव ते धर्मो न सत्सु परिवर्तते ॥ 5 ॥
न कीचकः स्वधर्मस्थो न च मत्स्यः कथंचन ।
सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते ॥ 6 ॥
न धर्मं कीचको वेत्ति राजभृत्यास्तथैव च ।
न राजा विनयं ब्रूते अमात्याश्च न जानते ॥ 7 ॥
नोपालभे त्वां नृपते विराटं नृपसंसदि ।
नाहमेतेन युक्ता वै हन्तुं मात्स्य तवान्तिके ॥ 8 ॥
सभासदस्तु पश्यन्तु कीचकं धर्मलङ्घिनम् ।
विराटनृपते पश्य मामनाथामनागसम् ॥ 9 ॥
न साम फलते दुष्टे दुष्टे दण्डः प्रयुज्यते ॥ 10 ॥
अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन् ।
स राजा न भवेल्लोके राजशब्दस्य भाजनम् ॥ 11 ॥
दीनान्धकृपणाशक्तपङ्गुकुब्जजडादिकान् । अनाथबालवृद्धांश्च पुरुषान्वा स्त्रियोऽपि वा ।
दुष्टचोराभिभूतांश्च पालयेदवनीपतिः ॥ 12 ॥
अनाथानां च नाथः स्यादपितॄणां पिता नृपः । माता भवेदमातॄणामगुरूणां गुरुर्भवेत् ।
अगतीनां गती राजा नृणां राजा परायणम् ॥ 13 ॥
विशेषतः परैर्दुष्टैः परामृष्टं नरोत्तमः ।
स्त्रियं साध्वीमनाथां च पालयेत्स्वसुतामिव ॥ 14 ॥
त्वद्गृहावसतिं राजन्नेतावत्कालपर्ययम् ।
अधिकां त्वत्सुतायाश्च पश्य मां कीचकाहतां ॥ 15 ॥
विराट उवाच ।
परोक्षं नाभिजानामि विग्रहं युवयोरहम् ।
अर्थतत्त्वमविज्ञाय किं स्यादकुशलं मम ॥ 16 ॥
द्रौपद्युवाच ।
येषां न वैरी स्वपिति पदा भूमिमुपस्पृशन् ।
तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत् ॥ 17 ॥
ये च दद्युर्न याचेयुर्ब्रह्मण्याः सत्यवादिनः । येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते भृशम् ।
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ॥ 18 ॥
तेजस्विनस्तथा क्षान्ता बलवन्तश्च मानिनः । महेष्वासा रणे शूरा गर्विता मानतत्पराः ।
तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत् ॥ 19 ॥
सर्वलोकमिमं हन्युर्यदि क्रुद्धा महाबलाः ।
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ॥ 20 ॥
येषां नास्ति समः कश्चिद्वीर्ये सत्ये बले दमे ।
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ॥ 21 ॥
येषां न सदृशः कश्चिद्धनाद्यैर्भुवि मानवः ।
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ॥ 22 ॥
तवाग्रतो विशेषेण प्रजानां च हितैषिणः ।
पश्यतो निहता राजंस्तेनेह जगतीपते ॥ 23 ॥
शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम् ।
चरन्ति लोके प्रच्छन्नाः क्वनु तेऽद्य महाबलाः ॥ 24 ॥
कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम् ।
मर्षयन्ति यथा क्लीबा बलवन्तोऽतितेजसः ॥ 25 ॥
क्वनु तेषाममर्षश्च वीर्यं तेषां च तद्बलम् ।
न परीप्सन्ति ये भार्यां वध्यमानां दुरात्माना ॥ 26 ॥
मयाऽपि शक्यं किं कर्तुं विराटे धर्मदूषणे ।
मां मर्षंयति यः पश्यन्वध्यमानामनागसम् ॥ 27 ॥
धर्मो विद्धो ह्यधर्मेण सभां यत्रोपतिष्ठति ।
न चेद्विशल्यः क्रियते सर्वे विद्धाः सभासदः ॥ 28 ॥
यत्र धर्मो ह्यधर्मेम सत्यं यत्रानृतेन च ।
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ 29 ॥
वैशंपायन उवाच ।
तस्यास्तत्कृपणं श्रुत्वा सैरन्ध्र्याः परिदेवितम् । ततः सभ्यास्तु ते सर्वे भूयः कृष्णामपूजयन् ।
साधुसाध्विति चाप्याहुः कीचकं चाप्यगर्हयन् ॥ 30 ॥
केचित्कृष्णां प्रशंसन्ति केचिन्निन्दन्ति कीचकम् ।
केचिन्निन्दन्ति राजानं केचिद्देवीं च तां नराः ॥ 31 ॥
सभ्या ऊचुः ।
यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा ।
परो लाभश्च तस्य स्यान्न स शोचेत्कदाचन ॥ 32 ॥
यस्या गात्रं शुभं पीनं मुखं जयति पङ्कजम् ।
गतिर्हंसं स्मितं कुन्दं सौषा नार्हति पद्वधम् ॥ 33 ॥
द्वात्रिंशद्दशना यस्याः श्वेता मांसनिबन्धनाः ।
स्निग्धाश्च मृदवः केशाः सैषा नार्हति पद्वधम् ॥ 34 ॥
पद्मं चक्रं ध्वजं शङ्खं प्रासादो मकरस्तथा ।
यस्याः पाणितले सन्ति सैषा नार्हति पद्वधम् ॥ 35 ॥
आवर्ताः खलु चत्वारः सर्वे चैव प्रदक्षिणाः ।
समं गात्रं शुभं स्निग्धं यस्या नार्हति पद्वधम् ॥ 36 ॥
अच्छिद्रहस्तपादा च अच्छिद्रदशना च या ।
कन्या कमलपत्राक्षी कथमर्हति पद्वधम् ॥ 37 ॥
सेयं लक्षणसंपन्ना पूर्णचन्द्रनिभानना ।
सुरूपिणी सुवदना नेयं योग्या पदा वधम् ॥ 38 ॥
देवदेवीव सुभगा शक्रदेवीव शोभना ।
अप्सरा इव सारूप्यान्नेयं योग्या पदा वधम् ॥ 39 ॥
इति स्मापूजसंस्तत्र कृष्णां प्रेक्ष्य सभासदः ॥ 40 ॥
सा विनिःश्वस्य सुश्रोणी भूमावन्तर्मुखी स्थिता ।
तूष्णीमासीत्तदा दृष्ट्वा विवक्षन्तं युधिष्ठिरम् ॥ 41 ॥
युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आस्रवत् । अब्रवीद्धर्मपुत्रोऽथ सैरन्ध्रीं महिषीं प्रियाम् ।
कृष्णां तत्र नृपाभ्याशे परिव्राजकरूपधृत् ॥ 42 ॥
गच्छ सैरन्ध्रि मा भैस्त्वं सुदेष्णाया निवेशनम् । राजा ह्ययं धर्मशीलो विराटः परलोकभीः ।
यतस्त्वां न परित्राति सत्ये धर्मपथे स्थितः ॥ 43 ॥
भर्तारमनुरुन्धन्त्यः क्लिश्यन्ते वीरपत्नयः ।
शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत ॥ 44 ॥
मन्ये न कालः क्रोधस्य पश्यन्ति पतयस्तव ।
तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः ॥ 45 ॥
श्रूयन्तां ते सुकेशान्ते मोक्षधर्माश्रयाः कथाः ।
यथा धर्मः कुलस्त्रीणां दृष्टो धर्मानुरोधनात् ॥ 46 ॥
नास्ति यज्ञः स्त्रियाः कश्चिन्न श्राद्धं नाप्युपोषणम् ।
या तु भर्तारि शुश्रूषा सा स्वर्गायाभिजायते ॥ 47 ॥
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥ 48 ॥
भीरु भर्तृभयात्पत्न्यो न क्रुध्यन्ति कदाचन । बहुभिश्च परिक्लेशैरवज्ञाताश्च शत्रुभिः ।
अनन्यभावाः शुद्धाश्च पुण्यलोकं जयन्त्युत ॥ 49 ॥
न क्रोधकालं नियतं पश्यन्ति पतयस्तव । न क्रुद्धान्प्रतियायाद्वै पतींस्ते वृत्रहा अपि ।
तेन त्वां नाभिधावन्ति गन्धर्वाः कामरूपिणः ॥ 50 ॥
यदि ते समयः कश्चित्कृतो ह्यायतलोचने ।
तं स्मरस्व क्षमाशीले क्षमा धर्मो ह्यनुत्तमः ॥ 51 ॥
क्षमा धर्मः क्षमा सत्यं क्षमा दानं क्षमा तपः ।
क्षमावतामयं लोकः परलोकः क्षमावतांम् ॥ 52 ॥
द्व्यंशिनो द्वादशाङ्गस्य चतुर्विंशतिपर्वणः ।
कस्त्रिषष्ठिशतारस्य मासोनस्याक्षमी भवेत् ॥ 53 ॥
गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम् ।
व्यपनेष्यन्ति ते दुःखं येन ते विप्रियं कृतम् ॥ 54 ॥
इत्येवमुक्ते तिष्ठन्तीं पुनरेवाह धर्मराट् ।
विघ्नं करोषि वै भद्रे दीव्यतां राजसंसदि ॥ 55 ॥
तस्मात्त्वमपि सुश्रोणि शैलूषीव विभासि नः ।
एवमुक्ता तु सा भर्त्रा समुद्वीक्ष्याब्रवीदिदम् ॥ 56 ॥
सत्यमुक्तं त्वया विद्वञ्शैलूषीं विद्धि मां पुनः ।
शैलूषकस्य तस्याहं येषां ज्येष्ठोऽक्षकोविदः ॥ 57 ॥
एवमुक्त्वा वरारोहा परिमृज्याननं शुभम् । केशान्विमुक्तान्संयम्य रुधिरेण समुक्षितान् ॥ 58 ।
पांसुकुण्ठितसर्वाङ्गी गजराजवधूरिव ।
प्रतस्थे नागनासोरूर्भर्तुराज्ञाय शासनम् ॥ 59 ॥
विमुक्ता मृगशावाक्षी निरन्तरपयोधरा ।
प्रभा नक्षत्रराजस्य कालमेघैरिवावृता ॥ 60 ॥
यस्यार्थे पाण्डवेयास्तु त्यजेयुरपि जीवितम् । तां ते दृष्ट्वा तथा कृष्णां क्षमिणो धर्मचारिणः ।
समयं नातिवर्तन्ते वेलामिव महोदधिः ॥ 61 ॥
सा प्रविश्य प्रवेपन्ती सुदेष्णाया निवेशनम् ।
रुदन्ती चारुसर्वाङ्गी तस्यास्तस्थावथाग्रतः ॥ 62 ॥
तामुवाच विराटस्य महिषी शाठ्यमास्थिता ।
किमिदं पद्मसंकाशं सुदन्तोष्ठाक्षिनासिकम् ॥ 63 ॥
रुदन्त्या अवमृष्टास्रं पूर्णेन्दुसमवर्चसम् । बिम्बोष्ठं कृष्णताराभ्यामत्यन्तरुचिरप्रभम् ।
नयनाभ्यामजिह्याभ्यां मुखं ते मुञ्चते जलम् ॥ 64 ॥
कस्त्वाऽवधीद्वरारोहे कस्माद्रोदिषि शोभने ।
को विप्रयुज्यते दारैः सपुत्रैः सहबान्धवैः ॥ 65 ॥
कस्याद्य राजा कुपितो वधमाज्ञापयिष्यति ।
ब्रूहि किं ते प्रियं कर्म कं त्यजे घातयामि वा ॥ 66 ॥
वैशंपायन उवाच ।
तां निःश्वस्याब्रवीत्कृष्णा जानन्ती नाम पृच्छसि ।
भ्रातुस्त्वं मामनुप्रेष्य किमेवं हि विकत्थसे ॥ 67 ॥
कीचको माऽवधीत्तत्र सुराहारीमितोगताम् ।
सभायां पश्यतो राज्ञो यथा वै निर्जने वने ॥ 68 ॥
सुदेष्णोवाच ।
घातयामि सुदन्तोष्ठि कीचकं यदि मन्यसे । भ्राता यद्येष मे व्यक्तं योऽतीतो धर्मचारिणीम् ।
यस्त्वां कामाभिभूतात्मा दुर्लभामवमन्यते ॥ 69 ॥
द्रौपद्युवाच ।
अद्यैव तं हनिष्यन्ति येषामागस्करो हि सः ।
मन्येऽहमद्य वा श्वो वा परलोकं गमिष्यति ॥ 70 ॥
भ्रातुः प्रयच्छ त्वरिता जीवच्छ्राद्धं त्वमद्य वै ।
सुहृष्टं कुरु वै चैनं नासून्मन्ये धरिष्यति ॥ 71 ॥
तेषां हि मम भर्तॄणां पञ्चानां धर्मचारिणाम् ।
एको दुर्धषणोऽत्यर्थं बले चाप्रतिमो भुवि ॥ 72 ॥
निर्मनुष्यमिमं लोकं कुर्यात्क्रुद्धो निशामिमाम् ।
न स संक्रुध्यते तावद्गन्धर्वः कामरूपधृत् ॥ 73 ॥
नूनं ज्ञास्यति यावद्वै ममैतत्पादघातनम् । तत्क्षणात्कीचकः पापः सपुत्रभ्रातृबान्धवः ।
विनशिष्यति दुष्टात्मा यथा दुष्कृतकर्मकृत् ॥ 74 ॥
अपि चैतत्पुरा प्रोक्तं निपुणैर्मनुजोत्तमैः । एकस्तु कुरुते पापं कालपाशवशं गतः ।
नीचेनात्मापराधेन कुलं तेन विनश्यति ॥ 75 ॥
वैशंपायन उवाच ।
सुदेष्णामेवमुक्त्वा तु सैरन्ध्री दुःखमोहिता ।
कीचकस्य वधार्थाय व्रतदीक्षामुपागमत् ॥ 76 ॥
अभ्यर्थिता च नारीभिर्मानिता च सुदेष्णया । न च स्नाति न चाश्नाति न पांसून्परिमार्जति ।
रुधिरक्लिन्नवदना बभूव मृदितेक्षणा ॥ 77 ॥
तां तथा शोकसन्तप्तां दृष्ट्वा प्ररुदितां स्त्रियः ।
कीचकस्य वधं सर्वा मनोभिश्च शशंसिरे ॥ 78 ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि विंशोऽध्यायः ॥ 20 ॥