अध्यायः 022

कीचकं जिघांसन्त्या द्रौपद्या रात्रौ महानसमेत्य स्वपतो भीमस्य प्रबोधनम् ॥ 1 ॥ तथा कीचकमारणाभावे स्वप्राणविमोक्षणप्रतिज्ञानम् ॥ 2 ॥ तथा युधिष्ठिरादीन्प्रति प्रत्येकं नामनिर्देशपूर्वकमनुशोचनम् ॥ 3 ॥

वैशंपायन उवाच ।
सा सूतपुत्राभिहता राजपुत्री सुदुःखिता ।
वधं कृष्णा परीप्सन्ती सूतपुत्रस्य भामिनी ॥ 1 ॥
जगामावासमेवाथ तदा सा द्रुपदात्मजा ।
कृत्वा शौचं यथान्यायं कृष्णा सा तनुमध्यमा ॥ 2 ॥
गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा ।
चिन्तयामास रुदती तस्य दुःखस्य निर्णयम् ॥ 3 ॥
किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम । इत्येवं चिन्तयित्वा सा भीमं तं मनसाऽगमत् ।
अन्यः कर्ता विना भीमान्न मेऽद्य मनसेप्सितम् ॥ 4 ॥
प्रादुर्भूते क्षणे रात्रौ विहाय शयनं स्वकम् । दुःखेन महता युक्ता मानसेन मनस्विनी ।
प्राद्रवन्नाथमिच्छन्ती तथा नाथवती सती ॥ 5 ॥
सा वै महानसं प्राप्य भीमसेनं सुचिस्मिता ।
उपासर्पत पाञ्चाली वासितेव महागजम् ॥ 6 ॥
सर्वश्वेतेव माहेयी वने वृद्धा त्रिहायणी । महर्पभं यथा सुप्तमर्थिनी वननिर्झरे ।
संप्रसुप्तं तथा सिंहिं मृगराजवधूरिव ॥ 7 ॥
अभिप्रसार्य बाहुभ्यां पतिं सुप्तं समाश्लिषत् ।
सुजातं गोमतीतीरे सालं वल्लीव पुष्पिता ॥ 8 ॥
परिस्पृस्य च पाणिभ्यां पतिं सुप्तमबोधयत् । श्रीरिवान्या महोत्साहं सुप्तं विष्णुमिवार्णवे ।
क्षौमावदाते शयने शयानं वृषभेक्षणम् ॥ 9 ॥
यथा शची देवराजं रुद्राणी शंकरं यथा ।
ब्रह्माणमिव सावित्री देवसेना गुहं यथा ॥ 10 ॥
दिशागजसमाकारं गजं गजवधूरिव ।
भीमं प्राबोधयत्कान्ता लक्ष्मीर्दामोदरं यथा ॥ 11 ॥
वीणेव मधुरालापा स्वरं गान्धारमाश्रिता ।
अभ्यभाषत पाञ्चाली कौरवं पाण्डुनन्दनम् ॥ 12 ॥
उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन मृतो यथा ।
न मृतः स हि पापीयान्भार्यामालम्ब्य जीवति ॥ 13 ॥
तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि ।
तत्कर्मं कृतवत्यद्य कथं निद्रां निषेवसे ॥ 14 ॥
वैशंपायन उवाच ।
सुखसुप्तश्च तं शब्दं निशम्य स वृकोदरः ।
संवेदितः कुरुश्रेष्ठः तोत्रैरिव महागजः ॥ 15 ॥
स वै विहाय शयनं यस्मिन्सुप्तः प्रबोधितः ।
उदतिष्ठदमेयात्मा पर्यङ्के सोत्तरच्छदे ॥ 16 ॥
उपवेश्य च दुर्धर्पः पाञ्चालकुलवर्धनीम् ।
अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम् ॥ 17 ॥
केनार्थेन च संप्राप्ता त्वरितेव ममान्तिकम् ।
न ते प्रकृतिमान्वर्णः कृशा त्वमभिलक्ष्यसे ॥ 18 ॥
प्रकाशं यदि वा गुह्यं सर्वमाख्यातुमर्हसि ।
आचक्ष्व त्वमशेषेण सर्वं विद्यामहं यथा ॥ 19 ॥
सुखं वा यदि वा दुःखं शुभं वा यदि वाऽशुभम् ।
यद्यप्यसुकरं कर्म कृतमित्यवधारय ॥ 20 ॥
अहमेव हि ते कृष्णे विश्वास्यः सर्वकर्मसु ।
अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः ॥ 21 ॥
शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम् ।
गच्छ वै शयनायैव यावदन्यो न बुध्यते ॥ 22 ॥
वैशंपायन उवाच ।
सा लञ्जमाना भीता च अधोमुखमुखी ततः ।
नोवाच किंचिद्वचनं बाष्पदूषितलोचना ॥ 23 ॥
अथाब्रवीद्भीमपराक्रमो बली वृकोदरः पाण्डवमुख्यसंमतः ।
प्रब्रूहि किं ते करवाणि सुन्दरि प्रियं प्रिये वारणमत्तगामिनि ॥ 24 ॥
द्रौपद्युवाच ।
अशोच्यता कुतस्तस्या यस्या भर्ता युधिष्ठिरः ।
जानन्सर्वाणि दुःखानि किं मां भीमानुपृच्छसि ॥ 25 ॥
यन्मां दासीप्रवादेन प्रातिकामी तदाऽनयत् ।
सभायां परिषन्मध्ये तन्मे मर्माणि कृन्तति ॥ 26 ॥
विकृष्टा हास्तिनपुरे सभायां राजसंसदि ।
दुःशासनेन केशान्ते परामृष्टा रजस्वला ॥ 27 ॥
क्षत्रियैस्तत्र कर्णाद्यैर्दृष्टा दुर्योधनेन च । श्वशुराभ्यां च भीष्मेण विदुरेण च धीमता ।
द्रोणेन च महाबाहो कृपेण च परंतप ॥ 28 ॥
साऽहं श्वशुरयोर्मध्ये भ्रातृमध्ये च पाण्डव ।
केशे गृहीत्वा च सभां नीता जीवति वै त्वयि ॥ 29 ॥
विप्रयुक्ता ततश्चाहं वने राज्याद्वनं गता । साऽहं वने दुर्वसतिं वसती त्वध्वकर्शिता ।
जटासुरपरिक्लेशात्प्राप्तापि सुमहद्भयम् ॥ 30 ॥
पार्थिवस्य सुता नाम कानु जीवेन मादृशी ।
अनुभूय भृशं दुःखमन्यत्र द्रौपदीं प्रभो ॥ 31 ॥
वनवासगता चाहं सैन्धवेन दुरात्मना ।
परामृष्टा द्वितीयं च सोद्रुमुत्सहते तु का ॥ 32 ॥
पद्भ्यां पर्यचरं चाहं देशान्विषमसंस्थितान् ।
दुर्गाञ्श्वापदसंकीर्णांस्त्वयि जीवति पाण्डवे ॥ 33 ॥
ततोऽहं द्वादशे वर्षे वन्यमूलफलाशना । इदं पुरमनुप्राप्ता सुदेष्णापरिचारिका ।
परस्त्रियमुपातिष्ठे सत्यधर्मपरायणा ॥ 34 ॥
गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् ।
नित्यं पिषे विराटस्य त्वयि जीवति पाण्डव ॥ 35 ॥
साऽहं बहूनिः दुःखानि गणयामि न ते कृते ॥ 36 ॥
मत्स्यराजसमक्षं तु तस्य धूर्तस्य पश्यतः ।
कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी ॥ 37 ॥
एवं बहुविधैर्दुःखैः क्लिश्यमाना च पाण्डव ।
न मां जानासि कौन्तेय किं फलं जीवितेन मे ॥ 38 ॥
द्रुपदस्य सुता चाहं धृष्टद्युम्नस्य चानुजा ।
अग्निकुण्डात्समुद्भूता नोर्व्यां जातु चराम्यहम् ॥ 39 ॥
कीचकं चेन्न हन्यास्त्वं ग्रीवां बद्ध्वा जले म्रिये ।
विषमालेड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलं ॥ 40 ॥
आत्मानं नाशयिष्यामि वृक्षमारुह्य वा पते ।
शस्त्रेणाङ्गं च भेत्स्यामि किं फलं जीवितेन मे ॥ 41 ॥
योऽयं राज्ञो विराटस्य कीचको नाम भारत ।
सेनानीः पुरुषव्याघ्र स्यालः परमदुर्मतिः ॥ 42 ॥
स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि ।
नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै ॥ 43 ॥
तेनैवमुच्यमानाया वधार्हेणारिसूदन ।
कालेनेव फलं पक्वं हृदयं मे विदीर्यते ॥ 44 ॥
शरणं भव कौन्तेय मा स्म गच्छे युधिष्ठिरम् ।
निरुद्योगं निरामर्षं निर्वीर्यमरिमर्दन ॥ 45 ॥
मा स्म सीमन्तिनी काचिञ्जनयेत्पुत्रमीदृशम् ॥ 46 ॥
विजानामि तवामर्षं बलं वीर्यं च पाण्डव ।
ततोऽहं परिदेवामि चाग्रतस्ते महाबल ॥ 47 ॥
यथा यूथपतिर्मत्तः कुञ्जरः षाष्टिहायनः ।
भूमौ निपतितं बिल्वं पद्भ्यमाक्रम्य पीडयेत् ॥ 48 ॥
तथैव च शिरस्तस्य निपात्य धरणीतले ।
वामेन पुरुषव्याघ्र मर्द मादेन पाण्डव ॥ 49 ॥
स चेदुद्यन्तमादित्यं प्रातरुत्थाय पश्यति ।
कीचकः शर्वरीं व्युष्टां नाहं जीवितुमुत्सहे ॥ 50 ॥
शापितोसि मम प्राणैः सुकृतेनार्जुनस्य च । युधिष्ठिरस्य पादाभ्यां यमयोर्जीवितेन च ।
कीचकस्य वधं नाद्य प्रतिजानासि भारत ॥ 51 ॥
भ्रात च विगर्हस्व ज्येष्ठं दुर्द्यूतदेविनम् ।
यस्मास्मि कर्मणा प्राप्ता दुःखमेतदनन्तकम् ॥ 52 ॥
येषां मुख्यतमो ज्येष्ठो भवेत्तु कुलपांसनः ।
भ्रातरं परमन्वीयुस्तेऽपि शालीनबुद्धयः ॥ 53 ॥
को हि राज्यं परित्यज्य सपुत्रपशुबान्धवम् ।
प्रव्रजेत महारण्यमजिनैः परिवारितः ॥ 54 ॥
यदि निष्कसहस्राणि यद्वाऽन्यत्सारवद्धनम् ।
सायं प्रातरदेविष्यदपि संवत्सरायुतम् ॥ 55 ॥
रुक्मं हिरण्यं वासांसि यानं युग्यमजाविकम् ।
अश्वाश्वतरसङ्घाश्च न जातु क्षयमाव्रजेत् ॥ 56 ॥
सोयं द्यूतप्रवादेन श्रियश्चैवावरोपितः ।
तूष्णीमास्ते यथा मूढः स्वानि कर्माणि चिन्तयन् ॥ 57 ॥
पुरा दशसहस्राणि दन्तिनां वाजिनामपि ।
यं यान्तमनुयान्ति स्म सोयं द्यूतेन जीवति ॥ 58 ॥
तथा शतसहस्राणि स्त्रीणाममिततेजसाम् ।
उपासते स्म राजानमिन्द्रप्रस्थे युधिष्ठिरम् ॥ 59 ॥
शतं दासीसहस्राणां यस्य नित्यं महानसे ।
पात्रहस्ता दिवारात्रमतिथीन्भोजयन्त्युत ॥ 60 ॥
एष निष्कसहस्राणि दत्त्वा प्रातर्दिनेदिने ।
द्यूतजेन ह्यनर्थेन महता समुपावृतः ॥ 61 ॥
एनं सुस्वरसंपन्ना बहवः सूतमागधाः ।
सुप्तं प्रातरुपातिष्ठन्सुमृष्टमणिकुण्डलाः ॥ 62 ॥
[सहस्रं वालखिल्यानां सहस्रमुदवासिनाम् ।
सहस्रमश्मकुट्टानां सहस्रं वायुभोजिनाम् ॥ 63 ॥
सहस्रं मुनिपत्नीनां सहस्रं ब्रह्मचारिणाम् ।
सहस्रं मौनशीलानां सहस्रं गृहमेधिनाम् ॥ 64 ॥
हंसाः परमहंसाश्च योगिनश्च द्विजातयः ।
कुटीरकाः परिव्राजो ये चान्ये वनचारिणः ॥ 65 ॥
संविभक्तात्मकाश्चैव बहवश्चोर्ध्वरेतसः । चतुर्वेदविदो विप्राः शिक्षामीमांसपारगाः ।
क्रमपाठाश्च ये विप्राः सामाध्यायनिकाश्च ये ॥ 66 ॥]
सहस्रमृषयो यस्य नित्यमासन्सभासदः ।
तपःश्रुतोपसंपन्नाः सर्वकामैरुपास्थिताः ॥ 67 ॥
अन्धान्वृद्धाननाथांस्तु सर्वराष्ट्रेषु दुःखितान् ।
बिभर्त्यन्नार्थिनो नित्यमानृशंस्याद्युधिष्ठिरः ॥ 68 ॥
स एष निलयं प्राप्तो मत्स्यस्य परिचारकः ।
सभायां विनतो राज्ञः कङ्को नाम युधिष्ठिरः ॥ 69 ॥
इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः ।
आसन्बलिकराः सर्वे सोन्येभ्यो भृतिमिच्छति ॥ 70 ॥
पार्थिवाः पृथिवीपाला यस्यासन्वशवर्तिनः ।
स वशे विवशो राज्ञां परेषामद्य वर्तते ॥ 71 ॥
संप्राप्य पृथिवीं कृत्स्नां रश्मिवानिव तेजसा ।
सोद्य राज्ञो विराटस्य सभास्तारो युधिष्ठिरः ॥ 72 ॥
यमुपासत राजानं सभायामृषिसत्तमाः ।
तमुपासीनमद्यान्यं पश्य पाण्डव पाण्डवम् ॥ 73 ॥
अनवद्यं महाप्राज्ञं जीवितार्थेन संवृतम् ।
दृष्ट्वा कस्य न दुःखं स्याद्धर्मराजं युधिष्ठिरम् ॥ 74 ॥
उपास्ते स्म सभायां यं कृत्स्नाऽपि च वसुन्धरा ।
तमुपासीनमद्यान्यं पश्य भारत भारतम् ॥ 75 ॥
एवं बहुविदैर्दुःखैः पीड्यमानामनाथवत् ।
शोकसागरमध्यस्थां किं मां भीम न पश्यसि ॥ 76 ॥
इदं तु मे दुःखतरं यत्त्वां वक्ष्यामि भारत ।
न मेऽभ्यसूया कर्तव्या दुःखादेतद्ब्रवीम्यहम् ॥ 77 ॥
शार्दूलैर्महिषैर्नागौरगारे योत्स्यसे सदा ।
कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलोऽभवत् ॥ 78 ॥
हसन्त्यन्तःपुरे नार्यो मम चेष्टां निरीक्ष्य च ॥ 79 ॥
तत उत्थाय कैकेयी सर्वास्ताः प्रत्यभाषत ।
प्रेक्ष्य मामनवद्याङ्गीं कश्मलाभिहतामिव ॥ 80 ॥
स्नेहात्संवासजादेव तदा वै चारुहासिनी ।
युध्यमानं महावीर्यमिमं समनुशोचति ॥ 81 ॥
कल्याणरूपा सैरन्ध्री वललश्चापि सुन्दरः ।
स्त्रीणां चित्तं हि दुर्ज्ञेयं युक्तरूपौ हि मे मतौ ॥ 82 ॥
सैरन्ध्री प्रियसंवासान्नित्यं करुणवादिनी ।
अस्मिन्राजकुले चैतौ तुल्यकालनिवासिनौ ॥ 83 ॥
इति ब्रुवाणा वाक्यानि सा मां नित्यमजीजपत् ।
क्रुध्यन्तीं मां च संप्रेक्ष्य पर्यशङ्कत मां त्वयि ॥ 84 ॥
तस्यां तथा ब्रुवन्त्यां तु भीमो भीमपराक्रमः ।
नोवाच किंचिद्वचनं संरम्भाद्रक्तलोचनः ॥ 85 ॥
ज्ञात्वा-तु रुषितं भीमं द्रौपदी पुनरब्रवीत् ।
शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे ॥ 86 ॥
यंस्तु देवान्मनुष्यांश्च सर्वानेकरथोऽजयत् । सोयं राज्ञो विराटस्य कन्यानां नर्तको युवा ।
आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ॥ 87 ॥
योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम् ।
सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ॥ 88 ॥
यस्माद्भयममित्राणां सदैव पुरुषर्षभात् ।
स लोकपरिभूतेन वेषेणास्ते धनंजयः ॥ 89 ॥
यस्यं ज्यातलनिर्घोषात्समकम्पन्त शत्रवः । षण्डरूपं वहन्तं तं गीतं नृत्तावलम्बनम् ।
कुर्वन्तमर्जुनं दृष्ट्वा न मे स्वास्थ्यं मनो व्रजेत् ॥ 90 ॥
स्त्रियो गीतस्वरात्तस्य मुदिताः पर्युपासते ॥ 91 ॥
किरीटं सूर्यसंकाशं यस्य मूर्धन्यशोभत ।
वेणीविकृतकेशान्तः सोऽयमद्य धनंजयः ॥ 92 ॥
यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि ।
आधारः सर्वविद्यानां यो धारयति कुण्डले ॥ 93 ॥
यं वै राजसहस्राणि तेजसाऽप्रतिमं भुवि ।
समरे नातिवर्तन्ते वेलामिव महोर्मयः ॥ 94 ॥
सोयं राज्ञो विराटस्य कन्यानां नर्तको युवा ।
आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ॥ 95 ॥
यस्य स्म रथनिर्घोषात्समकम्पत मेदिनी ।
सपर्वतवनाकाशा सहस्थावरजङ्गमा ॥ 96 ॥
यस्मिञ्जाते महेष्वासे कुन्त्याः प्रीतिरवर्धत ।
न स शोचति मामद्य भीमसेन तवानुजः ॥ 97 ॥
विभूषितमलंकारैः कुण्डलैः परिपातुकैः ।
कम्बुपाणिमथायान्तं दृष्ट्वा सीदति मे मनः ॥ 98 ॥
वेणीविकृतकेशान्तं भीमधन्वानमर्जुनम् ।
कन्यापरिवृतं दृष्ट्वा शोकं गच्छति मे मनः ॥ 99 ॥
यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम् ।
प्रच्छन्नमिव मातङ्गं परिपूर्णं करेणुभिः ॥ 100 ॥
मात्स्यं पार्थं च गायन्तं विराटं समुपस्थितम् ।
पश्यामि तूर्यमध्यस्थं दृष्ट्वा मुह्यति मे मनः ॥ 101 ॥
नूनमार्या न जानाति कृच्छ्रं प्राप्तं धनंजयम् ।
अजातशत्रुं कौरव्यं मग्नं द्युर्द्यूतदेविनम् ॥ 102 ॥
ऐन्द्रवारुणवायव्यब्रह्माग्नेयैः सवैष्णवैः । अग्नीन्संतर्पयन्पार्थः सर्वशत्रुनिबर्हणः ।
दिव्यैरस्त्रैरमेयात्मा सर्वांश्चैकरथोऽजयत् ॥ 103 ॥
कौबेरं वैष्णवं शैवमस्त्राण्यन्यानि भारत ।
दर्शयन्नस्त्रवीर्यं च वासुदेवसहायवान् ॥ 104 ॥
दिव्यं गान्धर्वमस्त्रं च वायव्यमथ वैष्णवम् ।
ब्राह्मं पाशुपतं चैव स्थूणाकर्णं च दर्शयन् ॥ 105 ॥
पौलोमान्कालकेयांश्च इन्द्रशत्रून्महाबलान् । निवातकवचैः सार्धं घोरानेकरथोऽजयत् ।
सोन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ॥ 106 ॥
यो वै महातपः कुर्वन्महाबलपराक्रमः ।
युद्धेन तोषयामास शंकरं शूलपाणिनम् ॥ 107 ॥
कन्यापुरगतं दृष्ट्वा गोष्ठेष्विव महावृषम् ।
स्त्रीवेषविकृतं पार्थं कुन्तीं गच्छति मे मनः ॥ 108 ॥
यः स्त्रीभिर्नित्यसंपन्नो रूपेणास्त्रेण मेधया ।
सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् ॥ 109 ॥
राजकन्याश्च वेश्याश्च विशां दुहितरश्च याः । सर्वाः सारयुता नार्यो दामग्रन्थिवशं गताः ।
प्रेष्यकर्मणि तं दृष्ट्वा शोचामि विलपामि च ॥ 120 ॥
विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनम् । अभ्यकीर्यन्त बृन्दानि दामग्रन्थिमुदीक्षितुम् ।
विनयन्तं जवेनाश्वान्धर्मराजस्य पश्यतः ॥ 111 ॥
किंनु मां मन्यसे पार्थ सुखितेति परन्तप ।
तथा दृष्ट्वा यवीयांसं सहदेवं युधांपतिम् ॥ 112 ॥
तं दृष्ट्वा गोषु गोसङ्ख्यं वत्सचर्मक्षितीशयम् ।
दुःखशोकपरीताङ्गी पाण्डुभूताऽस्मि पाण्डव ॥ 113 ॥
सहदेवस्य वृत्तानि चिन्तयन्ती पुनःपुनः । न पश्यामि महाभाग सहदेवस्य दुःष्कृतम् ।
यस्मादेवंविधं क्लेशं प्राप्नुयात्सत्यविक्रमः ॥ 114 ॥
दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम् ।
गोषु गोवृषसंकाशं मात्स्येनापि निवेशितम् ॥ 115 ॥
संरब्धतररक्ताक्षं गोपालानां पुरोगमम् ।
विराटमभिनन्दन्तं वित्ते मे भवति ज्वरः ॥ 116 ॥
सहदेवं हि मे नित्यं वीरमार्या प्रशंसति ।
महाभिजनसंपन्नो नीतिमान्कुलवानपि ॥ 117 ॥
हीनिषेवो ह्यनवमो धार्मिकश्च प्रियश्च मे ।
स तेऽरण्येषु वोढव्यः पाञ्चालि रजनीष्वपि ॥ 118 ॥
सुकुमारश्च शूरश्च राजानं चाप्यनुव्रतः ।
ज्येष्ठापचायिनं वीरं स्वयं पाञ्चालि भोजयेः ॥ 119 ॥
इत्युवाच हि मां कुन्ती रुदती पुत्रगृद्धिनी ।
प्रव्रजन्तं महारण्यं तं परिष्वज्य तिष्ठती ॥ 120 ॥
तं दृष्ट्वा गोषु गोपालवेषमास्थाय धिष्ठितम् ।
सहदेवं युधांश्रेष्ठं किंनु जीवामि पाण्डवः ॥ 121 ॥
एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः ॥ 122 ॥
पुनः प्रतिविशिष्टानि दुःखानि शृणु भारत ।
वर्धन्ते मयि कौन्तेय वक्ष्याम्यन्यानि तानि वै ॥ 123 ॥
युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत ।
शोषयन्ति शरीरं मे किंनु दुःखतरं ततः ॥ 124 ॥
एकभर्ता तु या नारी सा सुखेनैव वर्तते । पञ्च मे पतयः सन्ति मम दुःखमनन्तकम् ॥ 125 ॥

4-22-7 सर्वश्वेता बकी इति नीलकण्ठः ॥ 7 ॥ 4-22-10 तथा इति खo पाठः ॥ 10 ॥ 4-22-13 नाभृतस्य हि पापीयान्भार्यामालभ्य जीवतीति झo पाठः ॥ 13 ॥ 4-22-54 महारण्यमनुजैः परिवारितः इति खo पाठः ॥ 54 ॥( इमे चत्वारः श्लोकाः धo पुस्तक एव वर्तन्ते ॥)