अध्यायः 024

द्रौपदीभीमसंवादः ॥ 1 ॥ द्रौपद्या भीमंप्रति हटात्कीचकसंहारचोदना ॥ 2 ॥

वैशंपायन उवाच ।
आश्वासयंस्तां पाञ्चालीं भीमसेन उवाच ह ।
शृणु भद्रे वरारोहे क्रोधात्तत्र तु चिन्तितम् ॥ 1 ॥
त्वं वै सभागतां दृष्ट्वा मात्स्यानां कदनं महत् ।
कर्तुकामेन भद्रं ते वृक्षश्चावेक्षितो मया ॥ 2 ॥
तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत् ।
तज्ज्ञात्वाऽवाङ्भुखस्तूष्णीमास्थितोस्मि महानसं ॥ 3 ॥
शृणुष्वान्यत्प्रतिज्ञातं यद्वदामीह भामिनि । धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च ।
यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणाविमौ ॥ 4 ॥
तदद्य मां तु तपति यत्कृतं न मया पुरा ।
सभायां स्म विराटस्य करोमि कदनं महत् ॥ 5 ॥
तत्र मे कारणं भाति कौन्तेयो यत्प्रतीक्षते ।
तदहं तस्य विज्ञाय स्थितो धर्मस्य शासने ॥ 6 ॥
यच्च राज्यात्प्रच्यवनं कुरूणामवधश्च यः ।
सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च ॥ 7 ॥
दुःशासनस्य पापस्य यन्मया न हृतं शिरः ।
तन्मां दहति कल्याणि हृदि शल्यमिवार्पितम् ॥ 8 ॥
अपि चान्यद्वरारोहे स्मरिष्यसि वचो मम । पुण्ये तीरे सरस्वत्या यत्प्रतिष्ठाम संगताः ।
तत्राहमब्रवं कृष्णे सर्वक्लेशाननुस्मरन् ॥ 9 ॥
न चाहमनुगच्छेयं धर्मराजं युधिष्ठिरम् । धनञ्जयं च पाञ्चालि माद्रिपुत्रौ च भ्रातरौ ।
कृत्वैतां च मतिं कृष्णे युधिष्ठिरमगर्हयम् ॥ 10 ॥
परुषं वचनं श्रुत्वा मम धर्मात्मजस्तदा । हीमान्वाक्यमहीनार्थं ब्रुवन्राजा युधिष्ठिरः ।
सर्वानन्वनयद्भ्रातॄन्मुनेर्धौम्यस्य पश्यतः ॥ 11 ॥
मा रोदी राज्ञि लोकानां सर्वागमगुणान्विता ।
रक्षितव्यं सहास्माभिः सत्यमप्रतिमं भुवि ॥ 12 ॥
अनुनीतेषु चास्मासु अनुनीता त्वमप्यसि ।
मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते ॥ 13 ॥
इमं तु समुपालम्भं त्वत्तो राजा युधिष्ठिरः ।
शृणुयाद्यदि कल्याणि कृत्स्नं जह्यात्स जीवितं ॥ 14 ॥
धनञ्जयो वा सुश्रोणि यमौ चापि सुमध्यमे ।
लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम् ॥ 15 ॥
धर्मं शृणुष्व पाञ्चालि यत्ते वक्ष्यामि मानिनि ॥ 16 ॥
दुहिता जनकस्यासीद्वैदेही यदि ते श्रुता ।
पतिमन्वचरत्सीता महारण्यनिवासिनम् ॥ 17 ॥
वसन्ती च महारण्ये रामस्य महिषी प्रिया । रावणेन हृता सीता राक्षसीभिश्च तर्जिता ।
सा क्लिश्यमाना सुश्रोणी राममेवान्वपद्यत ॥ 18 ॥
लोपामुद्रा तथा भीरु भर्तारमृषिसत्तमम् ।
भगवन्तमगस्त्यं सा वनायैवान्वपद्यत ॥ 19 ॥
सुकन्या नाम शर्यातेर्भार्गवच्यवनं वने ।
वल्मीकभूतं साध्वी तमन्वपद्यत भामिनी ॥ 20 ॥
नालायनी चेन्द्रसेना रूपेणाप्रतिमा भुवि ।
पतिमन्वचरद्वृद्धं पुरा वर्षसहस्रिणम् ॥ 21 ॥
नलं राजानमेवाथ दमयन्ती वनान्तरे ।
अन्वगच्छत्पुरा कृष्णे तथा भर्तॄंस्त्वमन्वगाः ॥ 22 ॥
यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः ।
तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः ॥ 23 ॥
मा दीर्घं क्षम कालं त्वं त्रिंशद्रात्रमनिन्दिते ।
पूर्णे त्रयोदशे वर्षे राज्ञां राज्ञी भविष्यसि ॥ 24 ॥
सत्येन ते शपे चाहं भविता नान्यथेति च ॥ 25 ॥
सर्वासां परमस्त्रीणां प्रामाण्यं कर्तुमर्हसि ।
सर्वेषां च नरेन्द्राणां मूर्ध्नि स्थास्यसि भामिनि ॥ 26 ॥
भर्तृभक्त्या च वृत्तेन भोगानाप्स्यसि दुर्लभान् ।
यातायां तु प्रतिज्ञायां महान्तं भोगमाप्नुयाः ॥ 27 ॥
गुरुभक्तिकृतं ज्ञात्वा राज्ञां मूर्ध्नि स्थिता भवेः ॥ 28 ॥
द्रौपद्युवाच ।
आर्तप्रलापा कौन्तेय न राजानमुपालभे ।
अपारयन्त्या दुःखानि कृतं बाष्पप्रमोचनम् ॥ 29 ॥
इदं तु दुःखं कौन्तेय ममासद्यं निबोध तत् ॥ 30 ॥
योऽयं राज्ञो विराटस्य सूतपुत्रस्तु कीचकः ।
स्यालो नाम प्रवादेन भोजस्त्रैगर्तदेशजः ॥ 31 ॥
त्यक्तधर्मो नृशंसश्च सर्वार्थेषु च वल्लभः । नित्यमेवाह दुष्टात्मा भार्या मे भव शोभने ।
अविनीतः सुदुष्टात्मा मामनाथेति चिन्तयन् ॥ 32 ॥
किमुक्तेन व्यतीतेन भीमसेन महाबल ।
प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव ॥ 33 ॥
ममेह भीम कैकेयी रूपाद्धि भयशङ्किता ।
नित्यमुद्विजते राजा कथं नेयादिमामिति ॥ 34 ॥
तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः ।
कीचकोपि च दुष्टात्मा पुनः प्रार्थयते च मां ॥ 35 ॥
तमहं कुपिता भीम पुनः कोपं नियम्य च ।
अब्रवं कामसंमूढमात्मानं रक्ष कीचक ॥ 36 ॥
गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया ।
ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः ॥ 37 ॥
एवमुक्तस्तु दुष्टात्मा कीचकः प्रत्युवाच ह ।
नाहं बिभेमि भैरन्ध्रि गन्धर्वाणां शुचिस्मिते ॥ 38 ॥
शतं सहस्रमपि वा गन्धर्वाणामहं रणे ।
समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् ॥ 39 ॥
इत्युक्ता चाब्रवं सूतं कामातुरमहं पुनः ।
न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम् ॥ 40 ॥
धर्मे स्थिताऽस्मि सततं कुलशीलसमन्विता ।
नेच्छामि किंचिद्वध्यं त्वां तस्माज्जीवसि कीचक ॥ 41 ॥
एवमुक्तस्तु दुष्टात्मा प्रहस्य स्वनवत्ततः ।
न तिष्ठिति स सन्मार्गे न च धर्मं बुभूषति ॥ 42 ॥
पापात्मा पापकारी च कामराजवशानुगः ।
अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः ॥ 43 ॥
दर्शनेदर्शने हन्याद्यदि जह्यां च जीवितम् ।
धर्मे प्रयतमानानां महान्धर्मो नशिष्यति ॥ 44 ॥
समयं रक्षमाणानां दारा वो न भवन्ति च । भार्याजां रक्ष्यमाणायां प्रजा भवति रक्षिता ।
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥ 45 ॥
वंदतां वर्णधर्मांश्च ब्राह्मणानां च मे श्रुतम् ।
क्षत्रियस्य सदा धर्मो नान्यो दस्युनिबर्हणात् ॥ 46 ॥
पश्यतो धर्मराजस्य कीचको माऽन्वधावत ।
तवेव च समक्षं वै भीमसेन महाबल ॥ 47 ॥
त्वया चाहं परित्राता भीम तस्माञ्जटासुरात् ॥ 48 ॥
जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह । जहीममपि पापिष्ठं योयं मामवमन्यते ।
कीचको राजवाल्लभ्याच्छोककृन्मम भारत ॥ 49 ॥
कीचकं कामसन्तप्तं भिन्धि कुम्भमिवाश्मनि ।
यो निमित्तमनर्थानां बहूनां मम भारत ॥ 50 ॥
तं चेञ्जीवन्तमादित्यः प्रातरभ्युदयिष्यति ।
विषमालोड्य पास्यामि मा कीचकवशंगमम् ॥ 51 ॥
श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः ।
इत्युक्त्वा प्रारुदत्कृष्णा भीमस्योरसि संश्रिता ॥ 52 ॥
भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च ।
कीचकं मनसाऽगच्छत्सृक्किणी परिलेलिहन् ॥ 53 ॥
आश्वासयित्वा बहुशो भृशमार्तां सुमध्यमाम् ।
हेतुतत्वार्थसंयुक्तैर्वचोभिर्द्रुपदात्मजाम् ॥ 54 ॥
प्रमृज्य वदनं तस्याः पाणिनाऽश्रुसमाकुलम् ।
उवाच चैनां दुःखार्तां भीमः क्रोधसमन्वितः ॥ 55 ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि चतुर्विशोऽध्यायः ॥ 24 ॥

4-24-24 मा दीर्घं क्षम कालं त्वं मासमर्धं च संमितमिति झo पाठः ॥ 24 ॥ 4-24-26 प्राधान्यं कर्तुमर्हसि इति खo पाठः ॥ 26 ॥ 4-24-33 दुःखस्यान्तकरो भवेति धo पाठः ॥ 33 ॥