अध्यायः 028

पौरौर्विराटंप्रति सानुजकीचकनिधननिवेदनपूर्वकं नगराद्द्रौपदीनिष्कासनप्रार्थना ॥ 1 ॥ सुदेष्णया विराटनियोगाद्द्रौपदीं प्रति स्वपुरान्निर्गमनचोदना ॥ 2 ॥ तथा द्रौपद्या मासावधिस्ववासाभ्यनुज्ञानप्रार्थनायां तदङ्गीकरणम् ॥ 3 ॥

वैशंपायन उवाच ।
ते दृष्ट्वा निहतान्सूतान्भीमसेनेन भारत । पौराश्च सहिताः सर्वे राज्ञे गत्वा न्यवेदयन् ।
गन्धर्वेण हता राजन्सूतपुत्राः परश्शतम् ॥ 1 ॥
यथा वज्रेण दीर्णं वै पर्वतस्य महच्छिरः ।
विनिकार्णाः प्रदृश्यन्ते तथा सूता महीतले ॥ 2 ॥
सैरन्ध्री चापि मुक्ता सा पुनरायाति ते गृहम् ।
सर्वं संशयितं राजन्नगरं ते भविष्यति ॥ 3 ॥
तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः ।
पुंसामिष्टश्च विषयो मैथुनाय न संशयः ॥ 4 ॥
यथा सैरन्ध्रिदोषेण नेदं राजन्पुरं तव ।
विनाशमेति वै क्षिप्रं तथा साधु विधीयताम् ॥ 5 ॥
सर्वाङ्गसौष्ठवयुतां रूपलावण्यशालिनीम् । पश्यतामनिमेषेण चक्षुषा वनितां शुभाम् ।
मनसश्चक्षुषश्चैव प्रतिबन्धो न विद्यते ॥ 6 ॥
तस्मात्तां यः पुमान्दृष्ट्वा रूपेणाप्रतिमां भुवि ।
गच्छेत्कामवशं मूढो गन्धर्वैः स निहन्यते ॥ 7 ॥
निष्कासयैनां भवनात्पुराच्चैव विशेषतः ।
कालः प्रविश्य सैरन्ध्रीं पुरं नाशयते ध्रुवम् ॥ 8 ॥
वैशंपायन उवाच ।
तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः ।
अब्रवीत्क्रियतामेषां सूतानामपरक्रिया ॥ 9 ॥
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने ।
दह्यन्तां कीचकाः सर्वे सर्वगन्धैश्च सर्वशः ॥ 10 ॥
इत्युक्त्वा परमोद्वग्निः प्रविश्यान्तःपुरं शुभम् ।
सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः ॥ 11 ॥
सैरन्ध्रीमागतां ब्रूया ममैव वचनादिह । गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराधुना ।
बिभेति राजा सैरन्धि गन्धर्वेभ्यः पराभवात् ॥ 12 ॥
न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम् ।
स्त्रियास्त्वदोषस्तां वक्तुमतस्त्वां प्रब्रवीम्यहम् ॥ 13 ॥
वैशंपायन उवाच ।
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने ।
अदहन्कीचकान्सर्वान्संस्कारैश्चैव सर्वशः ॥ 14 ॥
अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च ।
मोक्षिता भीमसेनेन जगाम नगरं प्रति ॥ 15 ॥
त्रासितेव मृगी बाला शार्दूलेन मनस्विनी ।
सा तु गात्राणि वासश्च प्रक्षाल्य प्रविवेश ह ॥ 16 ॥
तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश ।
गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टिं न्यमीलयन् ॥ 17 ॥
प्रदुद्रुवुश्चाप्यपरे तथा जना हस्तैश्च चक्षूंषि पिधाय मोहिताः ।
मा पश्यत स्मेति च तां ब्रुवन्तस्तथा जनाश्चुक्रुशुरार्तरूपाः ॥ 18 ॥
तामद्य यः पश्यति रूपशालिनीं शयीत भग्नोऽत्र यथैव कीचकाः ।
इति ब्रुवन्तो भयविग्नचेतसो भयेन गन्धर्वगतेन मोहिताः ॥ 19 ॥
ततो महानसद्वारे भीमसेनमवस्थितम् ।
ददर्श राजन्पाञ्चाली यथा मत्तं महाद्विपम् ॥ 20 ॥
सोपहासं तु शनकैः संज्ञाभिरिदमब्रवीत् ।
नमो गन्धर्वराजाय येनास्मि परिमोक्षिता ॥ 21 ॥
कीचकेभ्यो विनिर्दोषामनाथां वसतीं गृहे ।
यो मां रक्षति सन्त्रस्तां गन्धर्वाय नमोस्तु ते ॥ 22 ॥
भीम उवाच ।
ये यस्या विचरन्तीह पुरुषा वशवर्तिनः ।
तेषां च वशगा नित्यं विचर त्वं यथेष्टतः ॥ 23 ॥
ये पुरा विचरन्तीह पुरुषा वशवर्तिनः ।
तस्यास्ते वचनं श्रुत्वा ह्यनृणा विहरन्त्वितः ॥ 24 ॥
वैशंपायन उवाच ।
तयोस्तद्वचनं श्रुत्वा जझिरे नेतरे जनाः ।
ततः पाञ्चालराजस्य सुता चापि जगाम ह ॥ 25 ॥
ततः सा नर्तनागारे धनंजयमपश्यत ।
राज्ञः कन्या विराटस्य नर्तयन्तं महाभुजम् ॥ 26 ॥
ततस्ता नर्तनागाराद्विनिष्क्रम्य सहार्जुनाः ।
कन्या ददृशुरायान्तीं कृष्णां क्लिष्टामनागसम् ॥ 27 ॥
कान्या ऊचुः ।
दिष्ट्या सैरन्ध्रि मुक्ताऽसि दिष्ट्याऽसि पुनरागता ।
दिष्ट्या च निहताः सूता ये त्वां क्लिश्यन्त्यनागसम् ॥ 28 ॥
बृहन्नलोवाच ।
कथं सैरन्ध्रि मुक्ताऽसि कथं पापाश्च ते हताः ।
इच्छामि ते कथां श्रोतुं कथयस्व यथातथम् ॥ 29 ॥
सैरन्ध्युवाच ।
बृहन्नले किंनु तव सैरन्ध्र्या कार्यमद्य वै ।
या त्वं रंस्यसि कल्याणि सदा कन्यापुरे सुखं ॥ 30 ॥
न हि दुःख समाप्नोषि सैरन्ध्री यदुपाश्रुते । सुखेन वर्तसे येह न तद्दुःखमवाप्यते ।
तेन मां दुःखितामेवं पृच्छसि प्रहसन्त्यपि ॥ 31 ॥
बृहन्नलोवाच ।
बृहन्नलाऽपि कल्याणि दुःखमाप्नोत्यनन्तकम् ।
तिर्यग्योनिगतेवेयं न चैनामवबुध्यसे ॥ 32 ॥
त्वया सहोषिता चास्मि त्वं च सर्वैः सहोषिता । त्वत्तः कृच्छ्रतरं वासं वसेयमहमङ्गने ।
क्लिश्यन्त्यां त्वयि सुश्रोणि कोनु दुःखं न चिन्तयेत् ॥ । 33 ॥
न तु केनचिदन्यन्तं कस्यचिद्धृदयं क्वचित् ।
वेदितुं शक्यते नूनं तेन मां नावबुध्यसे ॥ 34 ॥
वैशंपायन उवाच ।
ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत् ।
प्रविवेश सुदेष्णायाः समीपमनसूयिनी ॥ 35 ॥
तामब्रवीद्राजपत्नी विराटवचनादिदम् । सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम् ।
राजा बिभेति सैरन्ध्रि गन्धर्वेभ्यः पराभवात् ॥ 36 ॥
त्वं चापि तरुणी सुभ्रू रूपेणाप्रतिमा भुवि ।
चित्तानि च नृणां भद्रे रक्तानि स्पर्शजे सुखे ॥ 37 ॥
तस्मात्त्वत्तो भयं मह्यं राष्ट्रस्य नगरस्य च ।
गच्छाद्यैव यथेष्टं त्वं नगराद्यत्र रंस्यसे ॥ 38 ॥
त्वन्निमित्तं शुभे मह्यं सर्वो बन्धुजनो हतः ।
नृशंसा खलु ते बुद्धिर्भ्रातॄणां मे कृतो वधः ॥ 39 ॥
तस्माद्गन्धर्वराजेभ्यो भयमद्य प्रवर्तते ।
यथेष्टं गच्छ सैरन्ध्रि स्वस्ति चेह यथा भवेत् ॥ 40 ॥
वैशंपायन उवाच ।
सुदेष्णाया वचः श्रुत्वा सैरन्ध्री चेदमब्रवीत् ।
त्रयोदशाहमात्रं तु राजा क्षाम्यतु भामिनि ॥ 41 ॥
कृतकृत्या अविष्यन्ति गन्धर्वास्ते न संशयः ।
ततो मामुपनेष्यन्ति करिष्यन्ति च ते प्रियम् ॥ 42 ॥
ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः । राज्ञः कृतोपकाराश्च कृतज्ञाश्च सदा शुभे ।
साधवश्च बलोत्सिक्ताः कृतप्रतिकृतेप्सवः ॥ 43 ॥
अर्थिनी मा ब्रवीत्येषा यद्वातद्वेति चिन्तय ।
भरस्व तदहर्मात्रं तत्ते श्रेयो भविष्यति ॥ 44 ॥
वैशंपायन उवाच ।
तस्यास्तद्वचनं श्रुत्वा कैकेयी दुःखमोहिता ।
उवाच द्रौपदीमार्ता भ्रातृव्यसनकर्शिता ॥ 45 ॥
वस भद्रे यथेष्टं त्वं त्वामहं शरणं गता ।
त्रायस्व मम भर्तारं पुत्रांश्चैव विशेषतः ॥ 46 ॥
इत्युक्तवा राजशार्दूल राज्ञे सर्वं न्यवेदयत् । त्रिंशद्रात्रिमिमां भीरुः कृतकृत्या निवासये ॥ 47 ॥

इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि अष्टाविंशोऽध्यायः ॥ 28 ॥

4-28-1 गन्धर्वैर्निहता राजन्निति खo थo धo पाठo ॥ 1 ॥ 4-28-5 तथा नीतिर्विधीयतामिति धo पाठः ॥ 5 ॥