अध्यायः 030

दुर्योधनादिभिः पाण्डवान्वेषणाय समालोचनम् ॥ 1 ॥

वैशंपायन उवाच ।
ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा ।
चिरमन्तर्मना भूत्वा इदमाह सभासदः ॥ 1 ॥
अशक्यं खलु कार्यस्य गतिं ज्ञातुं हि तत्वतः ।
तस्मात्सर्वे परीक्षध्वं क्वनु स्युः पाण्डवा गताः ॥ 2 ॥
अल्पावशिष्टः कालस्तु गतो भूयिष्ठ एव च ।
तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे ॥ 3 ॥
अपि वर्षस्य शेषं ते ह्यतीयुरिह पाण्डवाः ।
निवृत्तसमयास्ते हि सत्यव्रतपरायणाः ॥ 4 ॥
क्षरन्त इव नागेन्द्राः सर्वे ह्याशीविषोपमाः ।
दुःखाद्भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम् ॥ 5 ॥
विज्ञातव्या मनुष्येन्द्रास्तर्कया सुप्रणीतया ।
निपुणैश्चारपुरुषैः प्राज्ञैर्दक्षैः सुसंवृतैः ॥ 6 ॥
अज्ञातसमये ज्ञाताः कृच्छ्ररूपसमाश्रिताः ।
प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम् ॥ 7 ॥
तस्मात्क्षिप्रं विचिन्वध्वं यथा चात्यन्तमव्ययम् ।
राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत् ॥ 8 ॥
दुर्योधनेनैवमुक्ते वचनेऽतीव दुःखिना ।
ततः कर्णोऽब्रवीद्वाक्यं सत्यधर्मार्थसंयुतम् ॥ 9 ॥
एते पुनर्न गच्छन्तु अन्ये गच्छन्तु भारत ।
शीघ्रवृत्ता नरा योग्या निपुणाश्छन्नचारिणः ॥ 10 ॥
चरन्तु देशान्विविधान्स्फीताञ्जनपदाकुलान् ।
तत्र गोष्ठीषु रम्यासु सिद्धा ब्राह्मणरूपिणः ॥ 11 ॥
परिवाहेषु तीर्थेषु विविधेष्वाकरेषु च ।
अन्वेष्टव्या मनुष्येन्द्र पाण्डवाश्छन्नचारिणः ॥ 12 ॥
नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च ।
आश्रमेषु च रम्येषु पर्वतेषु गुहासु च ॥ 13 ॥
विज्ञातव्या मनुष्येन्द्र तर्कया सुविनूतया ।
विविधैस्तत्परैः सम्यङ्विपुणैस्तज्ज्ञसंमतैः ॥ 14 ॥
अथाग्रजानन्तरजो भ्रातुः प्रियहिते रतः ।
ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत् ॥ 15 ॥
येषु नः प्रत्ययो राजंश्चारेषु मनुजाधिप ।
ते यान्तु दत्तदेया वै भूयस्तान्परिमार्गितुम् ॥ 16 ॥
यदाह कर्णो राजेन्द्र सर्वमेतदवेक्ष्यताम् ।
यथोद्दिष्टं चराः सर्वे मृगयन्तु यतस्ततः ॥ 17 ॥
घ्राणैः पश्यन्ति पशवो वेदैरेव द्विजोत्तमाः ।
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ 18 ॥
यथोक्ताश्चारपुरुषा मृगयन्तु पुनःपुनः ।
एते चान्ये च बहवो देशांश्च नगराणि च ॥ 19 ॥
न हि तेषां गतिर्वासः प्रवृत्तिर्वोपलभ्यते ।
अत्यन्तं वा निगूढास्ते पारं वोर्मिमतो गताः ॥ 20 ॥
व्यालैर्वाऽपि महारण्ये भक्षिताः शूरमानिनः ।
द्वीपं वा परमं प्राप्ता गिरिदुर्गवनेष्वपि ॥ 21 ॥
हीनदर्पा निराशास्ते भक्षिता वाऽपि राक्षसैः ।
अथवा विषमं प्राप्य विनष्टाः शाश्वतीः समाः ॥ 22 ॥
तस्मान्मानसमव्यग्रं कृत्वाऽऽत्मानं नियम्य च ।
कुरु कार्यं महोत्साहं मन्यसे यन्नराधिप ॥ 23 ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिंशोऽध्यायः ॥ 30 ॥