अध्यायः 038

उत्तरे समुचितसारथेरभावेन खिद्यमाने अर्जुनेन द्रौपदींप्रति उत्तराय बृहन्नलायाः सारथ्यकौशलनिवेदनचोदना ॥ 1 ॥ भ्रातॄचोदितया उत्तरया बृहन्नलांप्रति उत्तररथसारध्यकरणप्रार्थना ॥ 2 ॥ उत्तरेण सारथीभूतेनार्जुनेन सह कुरून्प्रति रणायाभियानम् ॥ 3 ॥

वैशंपायन उवाच ।
महाजनसमक्षं तु स्त्रीणां मध्ये विशेषतः ।
गवाध्यक्षेण संप्रोक्तो विराटतनयस्तदा ॥ 1 ॥
स्त्रीमध्य उक्तस्तेनासौ वाक्यं तेजःप्रवर्धनम् ।
अन्तःपुरे श्लाघमान इदं वचनमब्रवीत् ॥ 2 ॥
उत्तर उवाच ।
अद्याहमनुगच्छेयं दृढधन्वा गवां पदम् ।
यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः ॥ 3 ॥
तमेव नाधिगच्छामि यो मे यन्ता समो भवेत् ।
पश्यध्वं सारथिं शीघ्रं मम युक्तं प्रयास्यतः ॥ 4 ॥
अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः ।
यत्तदासीन्महायुद्धं तत्र मे सारथिर्हतः ॥ 5 ॥
यद्यहं त्वधिगच्छेयं यो मे यन्ता भवेद्युधि ।
त्वरावानद्य यास्यामि समुच्छ्रितमहाध्वजः ॥ 6 ॥
विगाह्य तत्परानीकं गजवाजिरथाकुलम् ।
शस्त्रप्रतापान्निर्वीर्यान्कुरूञ्जित्वाऽऽनये पशून् ॥ 7 ॥
दुर्योधनं विकर्णं च कर्णं वैकर्तनं कृपम् ।
द्रोणं च सह पुत्रेण महेष्वासान्समागतान् ॥ 8 ॥
विद्रावयित्वा संग्रामे दानवान्मघवानिव ।
अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् ॥ 9 ॥
शून्यमाज्ञाय कुरवः प्रयान्त्यादाय गोधनम् ।
किं न शक्यं च तैः कर्तुं यदहं तत्र नाभवम् ॥ 10 ॥
पश्ययुरद्य मे वीर्यं कुरवस्ते समागताः ।
किंनु पार्थोऽर्जुनः साक्षादिति मंस्यन्ति मां परे ॥ 11 ॥
वैशंपयान उवाच ।
तस्य तद्वचनं श्रुत्वा स्त्रीषु चात्मप्रशंसनम् ।
नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् ॥ 12 ॥
श्रुत्वा तदर्जुनो वाक्यमुत्तरेण प्रभाषितम् ।
अतीतसमये काले प्रियां भार्यामभाषत ॥ 13 ॥
द्रुपदस्य सुतां राज्ञः पाञ्चालीं रूपसंमताम् । सत्यार्जवगुणोपेतां भर्तुः प्रियहितैषिणीम् ।
उवाच रहसि प्रीतः कृष्णां सर्वार्थकोविदः ॥ 14 ॥
उत्तरां ब्रूहि पाञ्चालि गत्वा क्षिप्रं शुचिस्मिते ॥ 15 ॥
इयं किल पुरा युद्धे खाण्डवे सव्यसाचिनः । सारथिः पाण्डुपुत्रस्य पार्थस्य तु बृहन्नला ।
महाञ्जयो भवेद्युद्धे सा चेद्यन्ता बृहन्नला ॥ 16 ॥
वैशंपायन उवाच ।
सा चोदिता तदा ह्येन ह्यर्जुनेन शुचिस्मिता ।
पाञ्चाली च तदाऽऽगम्य उत्तराया निवेशनम् ॥ 17 ॥
ज्ञात्वा तु समयान्मुक्तं चन्द्रं राहुमुखादिव ।
युधिष्ठिरं धर्मपरं सत्यार्जवपथे स्थितम् ॥ 18 ॥
अमर्षयन्ती तद्दुःखं कृष्णा कमललोचना ।
उत्तरामाह वचनं सखीमध्ये विलासिनीम् ॥ 19 ॥
योऽयं युवा वारणयूथपोपमो बृहन्नलाऽस्मीति जनोऽभ्यभाषत ।
पुराऽपि पार्थस्य स सारथिस्तदा धनुर्धराणां प्रवरस्य मन्ये ॥ 20 ॥
एतेन वा सारथिना तदाऽर्जुनः सदेवगन्धर्वमहासुरोरगान् ।
सर्वाणि भूतान्यजयस्तस वीर्यवानतर्पयच्चापि हिरण्यरेतसम् ॥ 21 ॥
यदस्य संस्थामपि तस्य संयुगे जानामि वीर्यं परवीरमध्यगम् ।
संगृह्य रश्मीनपि चास्य वीर्यवानादाय चापं प्रययौ रथे स्थितः ॥ 22 ॥
न सर्वभूतानि न देवदानवा न चापि सर्वे कुरवः समागताः ।
धनं हरेयुस्तव जातु धन्विनो बृहन्नला तूत्तरसारथिर्यदि ॥ 23 ॥
धनुष्यनवमश्चासीत्तस्य शिष्यो महात्मनः ।
सुदृष्टपूर्वो हि मया चरन्त्या पाण्डवालये ॥ 24 ॥
स चानेन सहायेन खाण्डवं चादहत्पुरा ।
अर्जुनस्य तदाऽनेन संगृहीता हयोत्तमाः ॥ 25 ॥
तेन सारथिना पार्थः सर्वभूतानि सर्वशः ।
अजयत्खाण्डवप्रस्थे न हि यन्ताऽस्ति तादृशः ॥ 26 ॥
वैशंपायन उवाच ।
ततः सैरन्ध्रिसहिता उत्तरा भ्रातुरब्रवीत् ।
अभ्यर्थयैनां सारथ्ये वीर शीघ्रं बृहन्नलाम् ॥ 27 ॥
शिक्षितैषा हि सारथ्ये नर्तने गीतवादिते ।
सैरन्ध्य्राह महाप्राज्ञा स्तुवन्ती वै बृहन्नलाम् ॥ 28 ॥
उत्तर उवाच ।
सैरन्ध्रि जानासि मम व्रतं हि क्लीबेन पुंसा न हि संवदाम्यहम् ।
सोहं न शक्ष्यामि बृहन्नलां शुभे वक्तुं स्वयं यच्छ हयान्ममेति ॥ 29 ॥
सैरन्ध्र्युवाच ।
भयकाले तु संप्राप्ते न व्रतं नाव्रतं पुनः । यथा दुःखं प्रतरति कर्तुं युक्तं चरेद्बुधः ।
इति धर्मविदः प्राहुस्तस्माद्वाच्या बृहन्नला ॥ 30 ॥
येयं कुमारी सुश्रोणी भगिनी ते यवीयसी ।
अस्यास्तु वचनं वीर करिष्यति न संशयः ॥ 31 ॥
यदि ते सारथिः सा स्यात्कुरून्सर्वान्न संशयः ।
जित्वा गाश्च समादाय ध्रुवमागमनं भवेत् ॥ 32 ॥
वैशंपायन उवाच ।
एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत ।
गच्छ त्वमनवद्याङ्गि तामानय बृहन्नलाम् ॥ 33 ॥
सा प्राद्रवत्काञ्चनमाल्यधारिणी ज्येष्ठेन भ्रात्रा प्रहिता यशस्विनी ।
भ्रातुर्नियोगं तु निशम्य सुभ्रुः शुभानना हाटकवज्रभूषिता ॥ 34 ॥
सा वज्रमुक्तामणिहेमकुण्डला मृदुक्रमा भ्रातृनियोगचोदिता ।
प्रदक्षिणावर्ततनुः शिखण्डिनी पद्मानना पद्मदलायताक्षी ॥ 35 ॥
तन्वी समाङ्गी मृदुमन्द्रलोचना मात्स्यस्य राज्ञो दुहिता विलासिनी ।
सा नर्तनागारमरालपक्ष्मा शतह्रदा मेघमिवान्वपद्यत ॥ 36 ॥
सा नागनासोपमसंहितोरूरनिन्दिता वेदिविलग्नमध्या ।
आसाद्य तस्थौ वरमाल्यधारिणी पार्थं शुभा नागवधूरिव द्विपम् ॥ 37 ॥
तामागतामायतताम्रलोचनामवेक्ष्य पार्थः समयेऽभ्यभाषत ॥ 38 ॥
किमागता काञ्चनमाल्यधारिणी सुगात्रि किंचित्त्वरिताऽसि सुभ्रु ।
किं ते मुखं सुन्दरि न प्रसन्नमाचक्ष्व शीघ्रं मम चारुहासिनि ॥ 39 ॥
वैशंपायन उवाच ।
सा वज्रवैडूर्यविकारकुण्डला विनिद्रपद्मोत्पलपन्नगन्धिनी ।
प्रसन्नताराधिपसंनिभानना पार्थे कुमारी वचनं बभाषे ॥ 40 ॥
उत्तरोवाच ।
हरन्ति वित्तं कुरवाः पितुर्मे शतं सहस्राणि गवां बृहन्नले ।
सा भ्रातुरश्वान्मम संयमस्व पुरा परे दूरतरं हरन्ति गाः ॥ 41 ॥
सैरन्ध्रिराख्याति बृहन्नले त्वां सुशिक्षिता संग्रहणे रथाश्वयोः ।
अहं मरिष्यामि न मेऽत्र संशयो मया वृता तत्र न चेद्गमिष्यसि ॥ 42 ॥
वैशंपायन उवाच ।
तथा नियुक्तो नरदेवकन्यया नरोत्तमः प्रीतमना धनञ्जयः ।
उवाच पार्थः शुभमन्द्रया गिरा शुभाननां शुक्लदतीं शुचिस्मिताम् ॥ 43 ॥
गच्छामि यत्रेच्छसि चारुहासिनि हुताशनं प्रज्वलितं विशामि वा । इच्छामि तेऽहं वरगात्रि जीवितं करोमि किं ते प्रियमद्य सुन्दरि ।
न मत्कृते द्रक्ष्यसि तत्पुरं प्रिये वैवस्वतं प्रेतपतेर्महाभयम् ॥ 44 ॥
वैशंपायन उवाच ।
एतावदुक्त्वा कुरुवीरपुङ्गवो विलासिनीं शुक्लदतीं शुचिस्मिताम् ।
बृहन्नलारूपविभूषिताननो विराटपुत्रस्य समीपमाव्रजत् ॥ 45 ॥
तथा व्रजन्तं वरभूषणैर्वृतं महाप्रभं वारणयूथपोपमम् ।
गजेन्द्रबाहुं कमलायतेक्षणं कवाटवक्षस्थलमुन्नतांसम् ॥ 46 ॥
तमागतं पार्थममित्रकर्शनं महाबलं नागमिव प्रमाथिनम् ।
वैराटिरामन्त्र्य ततो बृहन्नलां गवां निनीषन्पदमुत्तरोऽब्रवीत् ॥ 47 ॥
तमाव्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम् ।
अन्वगच्छद्विशालाक्षी गजं गजवधूरिव ॥ 48 ॥
दूरादेव तु संप्रेक्ष्य राजपुत्रोऽभ्यभाषत ।
त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत् ॥ 49 ॥
पृथिवीं चाजयत्कृत्स्नां कुन्तीपुत्रो धनञ्जयः ।
सैरन्ध्री त्वां ममाचष्ट सा हि जानाति पाण्डवान् ॥ 50 ॥
देवेन्द्रसारथिर्वीरो मातलिः ख्यातविक्रमः ।
सुमहो जामदग्नेश्च विष्णोर्यन्ता च दारुकः ॥ 51 ॥
सुमन्त्रो वा दाशरथेः सूर्ययन्ता तथाऽरुणः ।
सर्वे सारथयः ख्याता न बृहन्नलया समाः ॥ 52 ॥
इत्युक्तोऽहं च सैरन्ध्र्या तेन त्वामाह्वयामि वै ।
आहुता त्वं मया सार्धं योद्धुं याहि बृहन्नले ॥ 53 ॥
दूराद्दूरतरं गावो भवन्ति कुरुभिर्हृताः ।
तथोक्ता प्रत्युवाचेदं राजपुत्रं बृहन्नला ॥ 54 ॥
का शक्तिर्मम सारथ्यं कर्तुं संग्राममूर्धनि । नृत्तं वा यदि वा गीतं वादित्रं वा पृथग्विधम् ।
तत्करिष्यामि भद्रं ते सारथ्यं तु कुतो मम ॥ 55 ॥
उत्तर उवाच ।
त्वं नर्तको वा यदि वाऽपि गायकः क्षिप्रं तनुत्रं परिधत्स्व भानुमत् ।
अभीक्ष्णमाहुस्तव कर्म पौरुषं स्त्रियः प्रशंसन्ति ममाद्य चान्तिके ॥ 56 ॥
वैशंपायन उवाच ।
इत्येवमुक्त्वा नृपसूनुसत्तमस्तदा स्मयित्वाऽर्जुनमभ्यनन्दयत् ।
अथोत्तरः पारशवं शताक्षिमत्सुवर्णचित्रं परिगृह्य भानुमत् ॥ 57 ॥
बृहन्नलायै प्रददौ स्वयं तदा विराटपुत्रः परवीरघातिने ।
तदाज्ञया मात्स्यसुतस्य वीर्यवानकर्तुकामेव समाददे तदा ॥ 58 ॥
बृहन्नलोवाच ।
यद्यस्ति च रणे शौर्यं शक्यः स्याद्द्विषतां वधः ।
अहं त्वामभिगच्छामि यत्र त्वं यासि तत्र भो ॥ 59 ॥
वैशंपायन उवाच ।
ततः स नर्मसंयुक्तमकरोत्पाण्डवो बहु ।
उत्तरायाः प्रमुखतः सर्वं जानन्नरिन्दमः ॥ 60 ॥
तमाददानं प्रमदा जहासिरे ह्यधोमुखं वीरवरोऽभ्यधारयत् ।
ततस्तिरश्चीनकृतं सपत्नहा ह्यधोमुखं कवचमथाभ्यकर्षत ॥ 61 ॥
सम्यक्प्रजानन्नपि सत्यविक्रमो ह्यज्ञातवत्सर्वकुरुप्रवीरः ।
ऊर्ध्वं क्षिपन्वीरतरोऽभ्यधारयत्पुनश्च यन्ता कवचं धनञ्जयः ॥ 62 ॥
एवंप्रकाराणि बहूनि कुर्वति तस्मिन्कुमार्यः प्रमदा जहासिरे ।
तथापि कुर्वन्तममित्रकर्शनं नैवोत्तरः पर्यभवद्धनञ्जयम् ॥ 63 ॥
तं राजपुत्रः समनाहयत्स्वयं जाम्बूनदान्तेन शुभेन वर्मणा ।
कृशानुतप्तप्रतिमेन भास्वता जाज्वल्यमानेन सहस्ररश्मिना ॥ 64 ॥
अथास्य शीघ्रं प्रसमीक्ष्य भोजयद्रथे हयान्काञ्चनजालसंवृतान् ।
सुवर्णजालान्तरयोक्तभूषणं सिंहं च सौवर्णमुपाश्रयद्रथे ॥ 65 ॥
धनूंषि च विचित्राणि बाणांश्च रुचिरान्बहून् ।
आयुधानि च वै तत्र रथोपस्थे च स न्यसत् ॥ 66 ॥
आरुह्य प्रययौ वीरः सबृहन्नलसारथिः ।
अथोत्तरा च कन्याश्च स ख्यश्चैवाब्रुवंस्तदा ॥ 67 ॥
बृहन्नले आनयेथा वासांसि रुचिराणि नः । पाञ्चालिकार्थं सूक्ष्माणि रत्नानि विविधानि च ।
विजित्य संग्रामगतान्भीष्मद्रोणमुखान्कुरून् ॥ 68 ॥
अथ ता ब्रुवतीः कन्याः सहिताः कुरुनन्दनः ।
प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिस्वनः ॥ 69 ॥
यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान् ।
अथाहरिष्ये वासांसि सूक्ष्माण्याभरणानि च ॥ 70 ॥
वैशंपायन उवाच ।
अथोत्तरो वर्म महाप्रभावं सुवर्णवैडूर्यपरिष्कृतं शुभम् ।
आमुच्य वीरः प्रययौ रथोत्तमं धनञ्जयं सारथिनं प्रगृह्य ॥ 71 ॥
तमुत्तरं प्रेक्ष्य रथोत्तमे स्थितं बृहन्नलां चैव महाजनस्तदा ।
स्त्रियश्च कन्याश्च द्विजाश्च सुव्रताः प्रदक्षिणं मङ्गलिनोऽभ्यपूजयन् ॥ 72 ॥
यदर्जुनस्यर्षभतुल्यगामिनः पुराऽभवत्खाण्डवदाहमङ्गलम् ।
कुरून्समासाद्य रणे बृहन्नले सहोत्तरेणास्तु तवाद्य मङ्गलम् ॥ 73 ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि ग्रोग्रहणपर्वणि अष्टत्रिंशोऽध्यायः ॥ 38 ॥

4-38-35 शिखण्डिनी मयूरपिच्छालंकारवती ॥ 35 ॥