अध्यायः 039

उत्तरेण कुरुसेनावलोकनमात्रेण रथादवस्कन्द्य भयात्पलायनम् ॥ 1 ॥ तमनुधाविनाऽर्जुनेन तस्य केशपाशे ग्रहणेन परिसान्त्वनपूर्वकं पुना रथारोपणम् ॥ 2 ॥ तथा तेन सह गाण्डीवाद्यानयनाय शमींप्रति गमनम् ॥ 3 ॥

वैशंपायन उवाच ।
स राजधान्य निर्याय वैराटिरकुतोभयः ।
प्रयाहीत्यब्रवीत्सूतं यत्र ते कुरवो गताः ॥ 1 ॥
समवेतान्कुरून्सर्वाञ्जिगीषूनवजित्य वै ।
गाश्चैताः क्षिप्रमादाय पुनरेष्याम्यहं पुरम् ॥ 2 ॥
ततस्तांश्चोदयामास सदश्वान्पाण्डुनन्दनः ॥ 3 ॥
ते हया नरसिंहेन चोदिता वातरंहसः ।
आलिखन्त इवाकाशमूहुः काञ्चनमालिनः ॥ 4 ॥
नातिदूरमथो गत्वा मात्स्यपुत्रधनञ्जयौ ।
अवैक्षेतामवित्रस्तौ कुरूणां बलिनां बलम् ॥ 5 ॥
श्मशानमभितो गत्वा शूरौ ददृशतुःकुरून् ॥ 6 ॥ तदनीकं महत्तेषां विस्तृतं सागरोपमम् ।
सर्पमाणमिवाकाशे वनं बहुलपादपम् ॥ 7 ॥ ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता ।
दृष्टिप्रणाशो भूतानां दिवस्पृक्कुरुसत्तम ॥ 8 ॥ तदनीकमथो वीक्ष्य गजाश्वरथसंकुलम् ।
कर्णदुर्योधनकृपैर्गुप्तं शान्तनवेन च ।
द्रोणेन सह पुत्रेण महेष्वासेन धीमता ॥ 9 ॥
हृष्टरोमा भयोद्विग्नो निमील्य स्वदृशौ तदा ।
कम्पमानशरीरश्च पार्थं वैराटिरब्रवीत् ॥ 10 ॥
नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे । बहुप्रवीरमत्युग्रं देवैरपि दुरासदम् ।
प्रतियोद्धुं न शक्नोमि कुरुसैन्यं भयानकम् ॥ 11 ॥
नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम् ।
देवैरपि सहेन्द्रेण न शक्यं किंपुनर्नरैः ॥ 12 ॥
रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् ।
दृष्ट्वैव हि परानीकं मनः प्रव्यथतीव मे ॥ 13 ॥
यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः । अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः ।
दुर्योधनस्तथा राजा वीरो दुर्मर्षणः परः ॥ 14 ॥
नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः ।
मत्ता इव महानागा युक्तध्वजपताकिनः ॥ 15 ॥
नीतिमन्तो महेष्वासाः सर्वार्थकृतनिश्चयाः ।
ताञ्जेतुं समरे शूरान्दुर्बुद्धिरहमागतः ॥ 16 ॥
दृष्ट्वैव हि कुरून्सर्वान्व्यूढानीकान्प्रहारिणः ।
हृषितानि च रोमाणि कश्मलेनाहतं मनः ॥ 17 ॥
वैशंपायन उवाच ।
दृष्ट्वा तु महतीं सेनां कुरूणां दृढधन्विनाम् ।
परिदेवयते मन्दः सकाशे सव्यसाचिनः ॥ 18 ॥
त्रिगर्तान्मे पिता यातः शून्ये वै प्रणिधाय माम् ।
सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः ॥ 19 ॥
अहमेको बहून्बालः कृतास्त्रानकृतश्रमः ।
प्रतियोद्धुं न शक्नोति निवर्तय बृहन्नले ॥ 20 ॥
वैशंपायन उवाच ।
तं तथा वादिनं तत्र बीभत्सुः प्रत्यभाषत ।
संप्रहस्य पुनस्तं वै सर्वलोकमहारथः ॥ 21 ॥
भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः ।
न च तावत्कृतं किंचित्परैः कर्म रणाजिरे ॥ 22 ॥
स्वयमेव च मामात्थ नय मां कौरवान्प्रति ।
सोहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः ॥ 23 ॥
मध्यमामिषगृध्रूनां कुरूणामाततायिनाम् । नेष्यामि त्वां महाबाहो मा त्वं हि विमना भव ।
समुद्रमिव गम्भीरं कुरुसैन्यमरिन्दम ॥ 24 ॥
स्त्रीसकाशे प्रतिज्ञाय पुरुषाणां हि शृण्वताम् ।
विकत्थमानो निर्यात्वा ब्रूषि किं नात्र युद्ध्यसे ॥ 25 ॥
तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च ।
रथमारुह्य निर्यात्वा किमर्थं नावबुध्यसे ॥ 26 ॥
न चेद्विजित्य गास्त्वं हि नगरं प्रतियास्यसि ।
प्रहसिष्यन्ति वीरास्त्वां नरा नार्यश्च संगताः ॥ 27 ॥
अहमप्यस्मि सैरन्ध्र्या स्तुतः सारथ्यकर्मणि ।
नाहं शक्नोम्यनिर्जित्य गाः प्रयातुं पुरं प्रति ॥ 28 ॥
स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन चोदितः ।
कथं न युद्ध्येयमहं कुरूनेतान्स्थिरो भव ॥ 29 ॥
उत्तर उवाच ।
कामं हरन्तु मात्स्यानां भूयांसः कुरवो धनम् ।
प्रहसन्तु च मां नार्यो नरा वाऽपि बृहन्नले ॥ 30 ॥
संग्रामेण न मे कार्यं गावो गच्छन्तु चापि मे ।
नगरं च प्रवेक्ष्यामि पश्यतस्ते बृहन्नले ॥ 31 ॥
वैशंपायन उवाच ।
इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली ।
त्यक्त्वा मानं सुसंत्रस्तो विसृज्य सशरं धनुः ॥ 32 ॥
अर्जुन उवाच ।
नैष शूरैः स्मृतो धर्मः क्षत्रियस्य पलायनम् ।
श्रेयो हि मरणं युद्धे न भीतस्य पलायनम् ॥ 33 ॥
वैशंपायन उवाच ।
एवमुक्त्वा तु कौरव्यः सोऽवप्लुत्य रथोत्तमात् । तमन्वधावद्धावन्तं राजपुत्रं धनञ्जयः ।
दीर्घां वेणीं विधून्वानः साधु रक्ते च वाससी ॥ 34 ॥
विक्रमन्तं पदन्यासैर्नमयन्तं च भूतलम् । विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा ।
सैनिकाः प्राहसन्केचिद्योषिद्रूपमवेक्ष्य तम् ॥ 35 ॥
तं च शीघ्रं प्रधावन्तं संप्रेक्ष्य कुरवोऽब्रुवन् ।
कोऽयं धावत्यसङ्गेन पूर्वं मुक्त्वा रथोत्तमम् ॥ 36 ॥
क एष वेषसंच्छन्नो भस्मनेव हुताशनः ।
किंचिदस्य यथा पुंसः किंचिदस्य यथा स्त्रियः ॥ 37 ॥
इत्येवं सैनिकाः प्राहुर्द्रोणस्तानिदमब्रवीत् ।
आचार्यः कुरुपाण्डूनां मतौ शुक्राङ्गिरोपमः ॥ 38 ॥
किं विचारेण वः कार्यमेतेनानुसृतेन वा । धावन्तमनुधावंश्च निर्भयो भयविप्लुतम् ।
वेणीकलापं निर्धूय प्रविभाति नरर्षभः ॥ 39 ॥
आकारमर्जुनस्येव क्लीबरूपं बिभर्ति च ।
रूपेण पार्थसदृशः स्त्रीवेषसमलंकृतः ॥ 40 ॥
तदेवैतच्छिरोग्रीवं तौ बाहू परिघोपमौ ।
तत्तदेवास्य विक्रान्तं नायमन्यो धनञ्जयात् ॥ 41 ॥
अमरेष्विव देवेन्द्रो मनुष्येषु धनञ्जयः ।
एकः कोस्मानुपायायादन्यो लोके धनञ्जयात् ॥ 42 ॥
द्रोणेन चैवमुक्तस्तु कर्णः प्रोवाच बुद्धिमान् ।
एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे ॥ 43 ॥
स एष किल निर्यातो बालभावान्न पौरुषात् ।
क्लीबं वै सारथिं कृत्वा निर्यातो नगराद्बहिः ॥ 44 ॥
छन्नं सत्रेण वै नूनं जानीध्वं यान्तमर्जुनम् । ते हि नः प्रतिसंयातुं संग्रामे न हि शक्नुयुः ।
कथमेकतरस्तेषां समस्तान्योधयेत्कुरून् ॥ 45 ॥
उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः ।
स नो मन्ये ध्वजं दृष्ट्वा भीत एष पलायति ॥ 46 ॥
कृप उवाच ।
नूनं तमेव धावन्तं जिघृक्षति धनञ्जयः ।
सारथिं ह्युत्तरं कृत्वा स्वयं योद्धुमिहेच्छति ॥ 47 ॥
वैशंपायन उवाच ।
इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक् ।
न च व्यवसितुं वीरा अर्जुनं शक्नुवन्ति ते ॥ 48 ॥
दुर्योधन उवाचेदं सैनिकान्रथसत्तमान् । अर्जुनो वासुदेवो वा रामः प्रद्युम्न एव वा ।
ते हि नः प्रतिसंयातुं संग्रामे न हि शक्नुयुः ॥ 49 ॥
अन्यो वै क्लीबरूपेण यद्यागच्छेद्गवां पदम् । शस्त्रैस्तीक्ष्णैरर्पयित्वा पातयिष्यामि भूतले ।
कथमेकतरस्तेषां समस्तान्योधयेत्कुरून् ॥ 50 ॥
वैशंपायन उवाच ।
छन्नं तथा तं वेषेण पाण्डवं प्रेक्ष्य सैनिकाः । अर्जुनेति च नेत्येव न व्यवस्यन्ति ते पुनः ।
इति स्म कुरवः सर्वे विमृशन्तः पुनः पुनः ॥ 51 ॥
दृढेवधी महासत्त्वः शक्रतुल्यपराक्रमः ।
अद्यागच्छति चेद्योद्धुं सर्वं संशयितं बलम् ॥ 52 ॥
न चाप्यन्यतरं तत्र व्यवस्यन्ति धनञ्जयात् ॥ 53 ॥
उत्तरं तु प्रधावन्तमनुद्रुत्य धनञ्जयः ।
गत्वा शतपदं तूर्णं केशपक्षे परामृशत् ॥ 54 ॥
मा मा गृहाण भद्रं ते दासोऽहं ते बृहन्नले । इति वादिनमेवाशु धावन्तं तरसाऽग्रहीत् ।
विराटपुत्रं बीभत्सुर्बलवानरिमर्दनः ॥ 55 ॥
सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत् ।
बहुलं कृपणं चैव वित्तं प्रावेदयद्बहु ॥ 56 ॥
सुवर्णमणिमुक्तानां यद्यदिच्छसि दद्मि ते ।
हस्तिनोश्वान्रथान्गावः स्त्रियश्च समलङ्कृताः ॥ 57 ॥
शातकुम्भस्य शुद्धस्य श्रेष्ठस्य रजतस्य च ।
ददामि शतनिष्कं ते मुञ्च मां त्वं बृहन्नले ॥ 58 ॥
षष्टिं स्वलंकृताः कन्या ग्राममेकं ददामि ते ।
मुञ्च मां त्वं भृशं दीनं विह्वलं भयकम्पितम् ॥ 59 ॥
मणीनष्टौ च वैडूर्यान्हेमबद्धान्महाप्रभान् ।
हेमदण्डप्रतिच्छन्नं रथं युक्तं तु वाजिभिः ॥ 60 ॥
मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं बृहन्नले ।
गमिष्यामि पुरं षण्ड द्रष्टुं मातरमद्य ताम् ॥ 61 ॥
एकोऽहमेव मे मातुः कुमारः किं ब्रुवे ततः ।
विधिरेवंविधे काले त्वद्वशं कुरुते हि माम् ॥ 62 ॥
मात्स्यस्य पुत्रो बालोऽहं तेन चास्मि सुपोषितः ।
मातृपार्श्वशयानोऽहमस्पृष्टातपवायुमान् ॥ 63 ॥
अदृष्टबालयुद्धोऽहं कुतस्ते कुरवः कुतः ।
मातृपार्श्वं गमिष्यामि मुञ्च मां त्वं बृहन्नले ॥ 64 ॥
प्रलयार्णवसंकाशं दृश्यते कौरवं बलम् ॥ 65 ॥
स्त्रीणां मध्येऽहमज्ञानाद्वीर्यशौर्याङ्कितां गिरम् । उक्तो यौवनगर्वेण को जेतुं शक्नुयात्कुरून् ।
अमुक्त्वा मां यदि नयेर्मरिष्यामि तवाग्रतः ॥ 66 ॥
वैशंपायन उवाच ।
एवमादीनि वाक्यानि विलपन्तमचेतसम् ।
प्रसभं पुरुषव्याघ्रो रथस्यान्तिकमानयत् ॥ 67 ॥
अथैनमब्रवीत्पार्थो भयार्तं नष्टचेतसम् ॥ 68 ॥
अहं योत्स्यामि कौरव्यैर्हयान्संयच्छ मेति माम् ।
आददानः किमर्थं त्वं पलायनपरोऽभवः ॥ 69 ॥
युध्यस्व कौरवैः सार्धं विजयस्ते भविष्यति । यस्य यन्तास्म्यहं युद्धे संयच्छामि हयोत्तमान् ।
राज्ञो वा राजपुत्रस्य तस्य युद्धे जयो ध्रुवम् ॥ 70 ॥
सर्वथोत्तर युध्यस्व यन्त्रा सह मया कुरून् ।
जित्वा महीं यशः प्राप्य भोक्ष्यसे सकलामिमाम् ॥ 71 ॥
हतो वा प्राप्ससे स्वर्गं न श्रेयस्ते पलायनम् ॥ 72 ॥
अद्य सर्वान्कुरूञ्जित्वा यथा जयमवाप्स्यसि ।
तथाऽहं प्रयतिष्येऽत्र सहायोऽत्र मतो ह्यहम् ॥ 73 ॥
यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन ।
एहि मे त्वं हयान्यच्छ युध्यमानस्य शत्रुभिः ॥ 74 ॥
प्रयाह्येतद्रथानीकं मद्बाहुपरिरक्षितः । अप्रधृष्यतमं घोरं गुप्तं घोरैर्महारथैः ।
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोसि परंतप ॥ 75 ॥
अहं तैः कुरुभिर्योत्स्ये प्रत्यानेष्यामि ते पशून् ।
प्रविशैतद्रथानीकमप्रधृष्यं दुरासदम् ॥ 76 ॥
यन्ता भव नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह ।
शूरान्समरचण्डांश्च नयिष्ये यमसादनम् ॥ 77 ॥
वैशंपायन उवाच ।
एवं ब्रुवाणो वैराटिं बीभत्सुरपराजितः ।
समाश्वास्य भयार्तं तमुत्तरं भरतर्षभः ॥ 78 ॥
इतस्ततो विवेष्टन्तमकामं भयपीडितम् ।
रथमारोपमायास पार्थः परपुरंजयः ॥ 79 ॥
तमारोप्य रथोपस्थे विलपन्तं धनञ्जयः । गाण्डीवं धनुरादातुमुपायात्तां शमीं प्रति ।
उत्तरं तं समाश्वास्य कृत्वा यन्तारमर्जुनः ॥ 80 ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥