अध्यायः 040

उत्तरेणार्जनचोदनया शमीमारुह्य धनुरादानम् ॥ 1 ॥

वैशंपायन उवाच ।
तं दृष्ट्वा क्लीबरूपेण रथस्थं रथिपुङ्गवम् ।
शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम् ॥
द्रोणभीष्मादयः शूराः कुरूणां रथिसत्तमाः ।
वित्रस्तमनसश्चासन्धनञ्जयकृताद्भयात् ॥
तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान् ।
गुरुः शस्त्रभृतांश्रेष्ठो भारद्वाजोऽभ्यभाषत ॥
स्वराश्च वाताः संयान्ति रूक्षाः परुषनिस्वनाः ।
भस्मवर्षप्रकाशेन तमसा संवृतं नभः ॥
रूक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः ।
निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च ॥
शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः ।
हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः ॥
यादृशान्यत्र दृश्यन्ते रूपाणि विविधानि च ।
यत्ता भवन्तस्तिष्ठन्तु युद्धं स्यात्समुपस्थितम् ॥
रक्षध्वमपि राजानं व्यूहध्वं वाहिनीमपि ।
वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम् ॥
एष वीरो महेष्वासः सर्वशस्त्रभृतांवरः ।
आगतः क्लीबवेषेण पार्थो नास्त्यत्र संशयः ॥
एतावदुक्त्वा वचनं भीष्ममालोक्य चाब्रवीत् ॥
नदीज लङ्केशवनारिकेतुर्नगाह्वयो नाम नगारिसूनुः ।
गत्या सुरेशः क्वचिदङ्गनेव गुरुर्बभाषे वचनं तदानीम् ॥
वैशंपायन उवाच ।
इत्युक्त्वा संज्ञया द्रोणस्तूष्णीमासीद्विशांपते ।
भारद्वाजवचः श्रुत्वा गाङ्गेयः संज्ञयाऽब्रवीत् ॥
अतीतं चक्रमस्माकं विषयान्तरमागताः । अतीतः समयश्चोक्त अस्माभिर्यः सभातले ।
न भयं शत्रुतः कार्यं शङ्कां त्यज नरर्षभ ॥
देवव्रतेनैवमुक्ते वचने हितकारिणा ।
दुर्योधनमथालोक्य संज्ञया द्रोण अब्रवीत् ॥
एष वीरो महेष्वासः सर्वशस्त्रभृतांवरः ।
आगतः क्लीबरूपेण पार्थो नास्त्यत्र संशयः ॥
एष पार्थो हि विक्रान्तः सव्यसाची परन्तपः ।
ये जेतारो महीपानाममुना कुरवो हताः ॥
यस्मिञ्जाते मही कृत्स्ना निर्भरोच्छ्वासिताऽभवत् ।
येन मे दक्षिणा दत्ता बद्ध्वा द्रुपदमोजसा ॥
विद्ध्वा वियद्गतं लक्ष्यं विनिर्जित्य च पार्थिवान् ।
निर्जिता येन पाञ्चाली पुरा येन स्वयंवरे ॥
खाण्डवे येन संतृप्तो वह्निर्जित्वा सुरासुरान् ।
परिणीता सुभद्रा च येन निर्जित्य यादवान् ॥
निर्जितो येन युद्धेन त्रिपुरारिः स्मरार्दनः ॥
गत्वा त्रिविष्टपं येन जितेन्द्रा दानवा युधि । निवातकवचा राजन्दानवानां त्रिकोटयः ।
निर्जिताः कालकेयाश्च हिरण्यपुरवासिनः ॥
येन त्वं मोचितो बद्धश्चित्रसेनेन तद्वने ॥
येन गत्वोत्तरं मेरोरानिनाय महद्धनम् ।
याजितो धर्मसूनुश्च नृपान्सर्वान्विजित्य च ॥
यस्मिञ्शौर्यं च वीर्यं च तेजो धैर्यं पराक्रमः । औदार्यं चैव गाम्भीर्यं श्रीर्ह्रीर्धर्मो दयाऽऽर्जवम् ।
एवमादिगुणोपेतः सोयं पार्थो न संशयः ॥
नाजित्वा विनिवर्तेत सर्वानपि मरुद्गणान् ॥
क्लेशितश्च वने शूरो वासवेन च शिक्षितः । अमर्षवशमापन्नो योत्स्यते नात्र संशयः ।
न ह्यस्य प्रतियोद्धारमन्यं पश्यामि कौरव ॥
महादेवोपि पार्थेन श्रूयते युद्धतोषितः ।
किरातवेषप्रच्छन्नो गिरौ हिमवति प्रभुः ॥
इत्येवंवादिनं द्रोणं कर्णः क्रुद्धोऽभ्यभाषत ॥
सदा भवान्फल्गुनस्य गुणानस्मासु कत्थसे ।
न चार्जुनः कलापूर्णो मम दुर्योधनस्य वा ॥
दुर्योधन उवाच ।
यद्येष पार्थो राधेय कृतं कार्यं भवेन्मम ।
ज्ञाताः पुनश्चरिष्यन्ति द्वादशान्यांश्च वत्सरान् ॥
अथवा कश्चिदेवान्यः क्लीबरूपेण देवराट् ।
शरैरेनं सुनिशितैः पातयिष्यामि भूतले ॥
वैशंपायन उवाच ।
तस्मिन्वदति तां वाचं धार्तराष्ट्रे परन्तपे ।
भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन् ॥
तां शमीमभिसंगम्य पार्थो वैराटिमब्रवीत् ।
सुखसंवर्धितं पित्रा समराणामकोविदम् ॥
एहि भूमिंजयारुह्य वैराटे महतीं शमीम् ।
समादिष्टो मया क्षिप्रं धनुर्गाण्डीवमानय ॥
नेमानीष्वासनानीह सोढुं शक्ष्यन्ति मे बलम् ।
नालं भारं गुरुं भेत्तुं कुञ्जरं वा प्रमर्दितुम् ॥
मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः ।
नेच्छामि तैरहं कर्तुं कर्म वैजयिकं त्विह ॥
अतिसूक्ष्माणि ह्रस्वानि सर्वाणि च मृदूनि च ।
आयुधानि महाबाहो तवैतानि महाबल ॥
तस्माद्भूमिंजयारुह्य शमीमेतां पलाशिनीम् ।
अस्यां हि पाण्डुपुत्राणां धनूंषि निहितात्युत ॥
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा ।
ध्वजा शराश्च शूराणां दिव्यानि कवचानि च ॥
अत्रैव तु महावीर्यं धनुः पार्थस्य गाण्डिवम् ।
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् ॥
व्यायामसहमत्यर्थं तृणराजसमं महत् ।
सर्वायुधमहामात्रं सर्वारिक्षयकारकम् ॥
सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम् ।
अलं भारं गुरुं सोढुं वारुणं च सुदर्शनम् ॥
तादृशान्येव सर्वाणि बलवन्ति दृढानि च । युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा ।
प्रथितानि विशिष्टानि दुर्दशानि भवन्त्युत ॥
उत्तर उवाच ।
शरीरमिह चासक्तं शम्यां शुष्कं पुरा किल ।
तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम् ॥
न मामेवंविधं कर्म कारयस्व बृहन्नले ।
कथं वा शक्यते कर्तुं बुद्ध्या त्वं मन्यसे कथं ॥
नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना ।
महता राजपुत्रेण मन्त्रयज्ञविदा सता ॥
स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम् ।
कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नले ॥
वैशंपायन उवाच ।
तमुवाच ततः शूरः पार्थं परपुंरजयः ।
दायादं सर्वमत्स्यानां कुले जातं विशारदम् ॥
जानामि त्वां महाप्राज्ञ शुभं जात्या कुलेन च ।
कथं नु पापकं कर्म ब्रूयां त्वाऽहं परन्तप ॥
व्यवहार्यश्च राजेन्द्र शुद्धश्चैव भविष्यसि ।
धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते ॥
दायादं मत्स्यराजस्य कुले जातं मनस्विनम् ।
कथं वा नन्दितं कर्म कारये त्वां नृपात्मज ॥
वैशंपायन उवाच ।
एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली ।
आरुरोह शमीवृक्षं वैराटिरवशस्तदा ॥
तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनञ्जयः ।
अवरोपय वृक्षाग्राद्धनूंष्येतानि माचिरम् ॥
सोपहृत्य महार्हाणि धनूंषि पृथुवक्षसाम् ।
परिवेष्टनपत्राणि विमुच्य समुपानयत् ॥
परिवेष्टनमेतेषां सर्वं मुञ्चस्व माचिरम् । तेषां संनहनीयानि परिमुच्य परन्तपः ।
अपश्यत्तत्र गाण्डीवं चतुर्भिरपरैः सह ॥
तेषां विमुच्यमानानां धनुषामर्कवर्चसाम् ।
विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव ॥
स तेषां रूपमालेक्य भोगिनामिव दृम्भताम् ।
हृष्टरोमा भयोद्विग्रः प्रवेपिततनुस्तदा ॥
अर्जुनेन समाश्वस्तः किंचिद्धृष्टो नृपात्मजः ।
तेषां संदर्शनाभ्यासं स्पर्शाभ्यासं पुनः पुनः ॥ 58 ॥
आमील्य पुनरुन्मील्य स्पृष्ट्वास्पृष्ट्वा चकार सः ।
सम्यग्घुण्टस्तदाऽऽश्वस्तः क्षणेन समपद्यत ॥ 59 ॥
संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च ।
वैराटिरर्जुनं राजन्निदं वचनमब्रवीत् ॥ 60 ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चत्वारिंशोऽध्यायः ॥ 40 ॥

4-40-11 नगारिसूनुः । एषोऽङ्गनावेषधरः किरीटी जित्वाऽव यं नेष्यति चाद्य गा व इति झo पाठः । हे नदीज गाङ्गेय भीष्म, लङ्केशस्य रावणस्य वनं तस्यारिर्नाशको हनूमान् स केतुर्ध्वजो यस्य सः लङ्केशवनारिकेतुः । नगो `वृक्षस्तदाह्लयः वृक्षनामा । अर्जुन इत्यर्थः । शैलवृक्षौ नगावगावित्यमरः । नगारिरिन्द्रस्तस्य सूनुः । किरीटी तन्नामा यं जित्वा वः युष्माकं गाः धेनूः नेष्यति तं दुर्योधनं अव पालय ॥ 11 ॥ 4-40-46 आलब्धुं स्प्रष्टुम् ॥ 46 ॥ ॥ चत्वारिंशोऽध्यायः ॥