अध्यायः 042

अर्जुनेनोत्तरंप्रति युधिष्ठिराद्यायुधानां पृथक्पृथङ्निर्देशेन तत्तत्स्वामिकत्वकथनम् ॥ 1 ॥

वैशंपायन उवाच ।
अत्तरेणैवमुक्तस्तु पार्थो वैराटिमब्रवीत् ।
मृद्व्या प्रत्याययन्वाचा भीतं शङ्कावशं गतम् ॥
अर्जुन उवाच ।
अत्त्वया प्रथमं पृष्टं शत्रुसेनाङ्गमर्दनम् ।
पार्थस्येदं धनुर्दिव्यं गाण्डीवमिति विश्रुतम् ॥
अभेद्यमभयं श्रीमद्दिव्यमच्छेद्यमव्रणम् ।
सर्वायुधमहामात्रं शातकुम्भमयं धनुः ॥
एतच्छतसहस्रेण संमितं राष्ट्रवर्धनम् ।
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः ॥
येन देवासुरान्पार्थः सर्वान्विषहते रणे ।
एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत् ॥
उमापतिश्चतुःषष्टिं शक्रोऽशीतिं च पञ्च च ।
सोमः पञ्चसहस्राणि तथा च वरुणः शतम् ॥
तस्माच्च वरुणादग्निः प्रेम्णा प्राहृत्य तच्छुभम् । अग्निना प्रातिभाव्येन दत्तं पार्थाय गाण्डिवम् ।
पञ्चषष्टिं च वर्षाणि कौन्तेयो धारयिष्यति ॥
एवंवीर्यं महावेतेतच्च धनुरुत्तमम् ।
नीलोत्पलसमं राज्ञः कौरव्यस्य महात्मनः ॥
बिन्दवश्चात्र सौवर्णाः पृष्ठे साधुनियोजिताः ।
विश्रुतं भीमसेनस्य जातरूपग्रहं दृढम् ॥
सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश ।
ऋषभा यत्र सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः ॥
येन भीमोऽजयत्कृत्स्नां दिशं प्राचीं परंतपः ।
पृष्ठे विभक्ताः शोभन्ते कुशाग्निप्रतिदीपिताः ॥
पूजितं सुरमर्त्येषु प्रथितं धनुरुत्तमम् ।
तालप्रमाणं भीमस्य रत्नरुक्मविभूषितम् ॥
दुरानमं महद्दीर्घं सुरूपं दुष्प्रधर्षणम् ।
बर्हिणश्चात्र सौवर्णाः शतचन्द्रकभूषणाः ॥
नकुलस्य धनुस्त्वेतन्माद्रीपुत्रस्य धीमतः । एतेन सदृशं चित्रं धनुरेतद्यवीयसः ।
हारिद्रवर्णं राज्ञस्तु कौरव्यस्य महात्मनः ॥
विपाठा भीमसेनस्य गिरीणामपि दारणाः । सुप्रभाः सुमहाकायास्तीक्ष्णाग्राः सुतरां दृढाः ।
भीमेन प्रहिता ह्येते वारणानां निवारणाः ॥
सुवर्णदण्डरुचिराः कालदण्डोपमाः शुभाः ।
नकुलस्य शरा ह्येते वज्राशनिसमप्रभाः ॥
यांश्च त्वं पृच्छसे दीप्तान्समधारान्समाहितान् ।
वराहकर्णास्तीक्ष्णाग्राः सहदेवस्य ते शराः ॥
यस्त्वयं सायको दीर्घो गव्ये कोशे च दंशितः ।
पार्थस्यायं महाघोरः सर्वभारसहो महान् ॥
यस्त्वयं निर्मलः खङ्गो द्वीपिचर्मणि दंशितः । राज्ञो युधिष्ठिरस्यायं कुन्तीपुत्रस्य धीमतः ।
वैयाघकोशो भीमस्य पञ्चशार्दूललक्षणः ।
वारणानां सुदृप्तानां शिक्षितः स्कन्धशातने ॥
नीलोत्पलसवर्णाभः खङ्गः पार्थस्य धीमतः ।
मृगेन्द्रचर्मपिहितस्तीक्ष्णधारः सुनिर्मलः ॥
दर्शनीयः सुतीक्ष्णाग्रः कुन्तीपुत्रस्य धीमतः ।
अर्जुनस्यैष निस्त्रिंशः परसैन्याग्रदूषणः ॥
यस्त्वयं पार्षते कोशे निक्षिप्तो रुचिरत्सरुः ॥
नकुलस्यैष निस्त्रिंशो वैश्वानरसमप्रभः ॥
यस्त्वयं पिङ्गलः खङ्गश्चित्रो मणिमयत्सरुः । सहदेवस्य खङ्गोऽयं भारसाहोऽतिदंशितःक ।
भीमस्यायं महादण्डः सर्वामित्रविनाशनः ॥
वैशंपायन उवाच ।
भेदतो ह्यर्जुनस्तूर्णं कथयामास तत्त्वतः ।
आयुधानि कलापांश्च निस्त्रिंशांश्चातुलप्रभान् ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विचत्वारिंशोऽध्यायः ॥ 42 ॥