अध्यायः 043

अर्जुनेनोत्तरंप्रति स्वस्यार्जुनत्वकथनपूर्वकं कङ्कादीनां युधिष्ठिरादित्वकथनम् ॥ 1 ॥ तत्प्रत्ययार्थं स्वनामदशककथनपूर्वकं तन्निर्वचनम् ॥ 2 ॥

वैशंपायन उवाच ।
एतस्मिन्नन्तरे पार्थं न मूढात्मा व्यजानत ।
विराटपुत्रः प्रभुखे पप्रच्छ पुनरेव तम् ॥
सुवर्णरुचिराण्येषामायुधानि महात्मनाम् ।
रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् ॥
क्वनु ते पाण्डवाः शूराः संग्रामेष्वपराजिताः । येषामिमानि दीप्तानि श्रिया दीप्यन्ति भान्ति च ।
कस्मिन्वसन्ति देशे च धर्मज्ञा बन्धुवत्सलाः ।
क्व धर्मराजः कौन्तेयो धर्मपुत्रो युधिष्ठिरः ॥
धर्मशीलश्च धर्मात्मा धर्मवान्धर्मवित्सुधीः ।
धर्माध्यक्षो धर्मपुत्रो धर्मज्ञो धर्ममूर्तिमान् ॥
धर्मनिष्ठो धर्मकर्ता धर्मगोप्ता सुधर्मकृत् ।
सत्यार्जवक्षमाधारो घृणी धर्मपरायणः ॥
भीमसेनार्जुनौ चापि सर्वे ते मातुला मम ।
नकुलः सहदेवो वा सर्वास्त्रकुशलौ रणे ॥
सर्व एव महात्मानः सर्वामित्रविनाशनाः ।
राज्यमक्षैः पराजित्य नः श्रूयन्ते वनं गताः ॥
द्रौपदी चापि पाञ्चाली स्त्रीरत्नमिति मे श्रुता ।
जिता चाक्षैस्तदा कृष्णा तानेवान्वगमद्वने ॥
उत्सृज्य राज्यं धर्म्यं ते नः श्रूयन्ते वनं गताः ॥
पाण्डवान्यदि जानीषे क्वनु ते धर्मचारिणः ।
क्वनु वा निवसन्तीति सत्यं ब्रूहि बृहन्नले ॥
किमर्थमागतान्यत्र शस्त्रास्त्राणि महात्मनाम् ।
कथं ज्ञातानि भवता तथा मे ब्रूहि शोभने ॥
वैशंपायन उवाच ।
ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः ।
उवाच राजपुत्रं तमुत्तरं शृणु मे वचः ॥
मा भैस्त्वं राजशार्दूल सर्वं ते वर्णयाम्यहम् ।
नात्र भेतव्यमद्यापि राजपुत्र यथातथा ॥
वयं ते पाण्डवा नाम वनवासस्य पारगाः । अतीते द्वादशे वर्षे च्छन्नवासमिहोषिताः ।
तस्मादशङ्कितमनाः शृणुष्वावहितोत्तर ॥
अहमस्म्यर्जुनो नाम कङ्को नाम युधिष्ठिरः । भीमसेनस्तु वललः पितुस्ते रसपाचकः ।
अश्वबन्धस्तु नकुलः सहदेवस्तु गोपतिः ॥
सैरन्ध्रीं द्रौपदीं विद्धि यदर्थे कीचको हतः ।
भीमसेनेन दुर्वृत्तः सहभ्रातृभिराहवे ॥
श्रुत्वैतद्वचनं जिष्णोर्विस्मयस्फारितेक्षणः ।
पश्यन्ननिमिषः पार्थं शनैर्वाचमुवाच ह ॥
उत्तर उवाच ।
दश पार्थस्य नामानि श्रूयन्ते मे कथासु च ।
प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते ॥
अर्जुन उवाच ।
अहं तर्हि तवाचक्षे दश नामानि तानि मे । वैराटे शृणु तानि त्वं यानि पूर्वं श्रुतानि ते ।
ईशानो विदधे देवस्त्रिदिवस्येश्वरो दिवि ॥
अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः । बीभत्सुर्विजयः पार्थः सव्यसाची धनञ्जयः ।
एतानि मम नामानि स्थापितानि सुरोत्तमैः ॥
उत्तर उवाच ।
गुणतो दश नामानि समवेतानि पाण्डवे ।
चरन्ति लोके ख्यातानि विदितानि ममावघ ॥
केनासि विजयो नाम केनासि श्वेतवाहनः ।
सव्यसाची च केनासि जिष्णुर्बीभत्सुरेव च ॥
अर्जुनः फल्गुनः पार्थः किरीटी केन सारथे ।
धनञ्जयश्च केनासि शीघ्रं वद बृहन्नले ॥
श्रुता मे तस्य वीरस्य केवला नामहेतवः । इतस्ततश्चलत्येतन्मनो मे चञ्चलं त्वयि ।
अर्जुनो वा भवान्नेति वद शीघ्रं बृहन्नले ॥
अर्जुन उवाच ।
सर्वाञ्जित्वा जनपदान्धनं चाच्छिद्य सर्वशः ।
मध्ये धनस्य तिष्ठन्तं तन्मामाहुर्धनञ्जयम् ॥
अभिप्रयामि संग्रामे यदाऽहं युद्धदुर्मदान् ।
अजित्वा न निविर्तेयं तेन वै विजयं विदुः ॥
श्वेताः काञ्चनसन्नाहा रथे युज्यन्ति मे हयाः ।
शत्रुभिर्युध्यमानस्य तेनाहं श्वेतवाहनः ॥
किरीटं सूर्यसंकाशं भ्राजते मे शिरोगतम् ।
रणमध्ये रथस्थस्य सूर्यपावकसन्निभम् ॥
अच्छेद्यं रुचिरं चित्रं जाम्बूनदपरिष्कृतम् ।
इन्द्रदत्तमनाहार्यं तेनाहुर्मां किरीटिनम् ॥
न कुर्यां कर्म बीभत्सं युध्यमानः कदाचन ।
तेन देवमनुष्येषु बीभत्सुरिति मां विदुः ॥
उभौ मे तुल्यकर्माणौ गाण्डीवस्य विकर्षणे । भुजौ मे भवतः सङ्ख्ये परसैन्यविनाशिनौ ।
तयोः सव्योऽधिकस्तस्मात्सव्यसाचीति मां विदुः ॥
पृथिव्यां सागरान्तायां वर्णो मे दुर्लभः समः ।
शुद्धत्वाद्रुपवत्त्वाच्च तेन मामार्जुनं विदुः ॥
उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यामहं दिवा ।
जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः ॥
यो ममाङ्गे व्रणं कुर्याद्धातुर्ज्येष्ठस्य पश्यतः । युधिष्ठिरस्य रुधिरं दर्शयेद्वा कदाचन ।
पराभवमहं तस्य कुले कुर्यां न संशयः ॥
योत्स्यामि तैरहं सर्वैर्न मे तेभ्यः पराभवः ।
तेन देवमनुष्येषु जिष्णुर्नामास्मि विश्रुतः ॥
माता मम पृथा नाम तेन मां पार्थमब्रुवन् ॥
देवदानवगन्धर्वपिशाचोरगराक्षसान् ।
अहं पुरा रणे जित्वा खाण्डवेऽग्निमतर्पयम् ॥
हुताशनं तर्पयित्वा सहितः शार्ङ्गधन्वना ।
[ त्रिविष्टपगतौ* दृष्ट्वा पितामहमहेश्वरौ ॥
मूर्च्छया पतितं भूमावागतौ देवसत्तमौ ।
दृष्ट्वा तौ वरदौ देवौ संज्ञां लब्ध्वोत्थितः पुनः ॥
मूर्ध्ना हि प्रणतं भूमौ तौ देवौ वरदौ वरौ । कृष्णेत्येकादशं नाम प्रीत्या मे चक्रतुस्तदा ।
तुष्टौ च मम वीर्येण कर्मणा चाभिराधितौ ॥
सर्वदेवैः परिवृतौ भूयो मां स्वयमूचतुः ।
वरं तात वृणीष्वेति यं प्रार्थयसि पाण्डव ॥
ततोऽहमस्त्राण्यलभं दिव्यानि च दृढानि च । ब्राह्मं पाशुपतं चैव स्थूणाकर्णं च दुर्जयम् ।
ऐन्द्रं वारुणमाग्नेयं वायव्यमथ वैष्णवम् ॥
ततोऽहमजयं भूयो रथेनैन्द्रेण दुर्जयान् । मातलिं सारथिं कृत्वा निवातकवचान्रणे ।
अवध्यकवचांन्देवैर्वरदृप्तान्महासुरान् ॥
तिस्रः कोटीर्दानवानां संयुगेष्वनिवर्तिनाम् ।
एको निर्जित्य संग्रामे भूयो देवानतोषयम् ॥
ततो मे भगवानिन्द्रः किरीटमददात्स्वयम् ।
देवाश्च शङ्खमददुः शत्रुसैन्यनिवारणम् ॥
अहं पारे समुद्रस्य हिरण्यपुरवासिनाम् ।
हत्वा षष्टिं सहस्राणि जयं संप्राप्तवान्रणे ॥
असंभ्रान्तो रथे तिष्ठन्सहस्रेषु शतेषु च ।
शत्रुमध्ये दुराधर्षो न मुह्यन्ति च मे दिशः ॥
अहं गन्धर्वराजेन ह्रियमाणं सुयोधनम् । भ्रातृभिः सहितं तात गन्धर्वैः समरे जितम् ।
चतुर्दश सहस्राणि हत्वा चैनममोचयम् ॥
एतानि मम नामानि योऽहन्यहनि कीर्तयेत् ।
तं न पश्यन्ति सत्त्वानि न तं निघ्नन्ति शत्रवः ॥
अद्य पश्य महाबाहो मम वीर्यं सुदुःसहम् ।
मा भैर्विगतसंत्रासः कुरूनेतान्समागतान् ॥
सुयोधनस्य मिषतः कर्णस्य च कृपस्य च । पितामहस्य भीष्मस्य द्रौणेर्द्रोणस्य च स्वयम् ।
सर्वानेव कुरूञ्जित्वा प्रत्यानेष्यामि ते पशूऩ्] ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥

4-43-31 बीभत्सुरिति भदि कल्याणे सुखे चेत्यस्य सनि रूपम् ॥ 4-43-32 सव्येन वामेनापि हस्तेन सचितुं ज्याकर्षणादिक्रियायां संबद्धुं शीलमस्येति सव्यसाची ॥ 4-43-33 अर्जुन इति ऋज गतिस्थानार्जनोपार्जनेष्वित्यत उनन्प्रत्यये भवति । दीप्तिमत्त्वात्समत्वात् शुद्धकर्मकरत्वाच्चार्जुन इत्यर्थः ॥ 4-43-34 उत्तराभ्यां फल्गुनीभ्यां नक्षत्राभ्यामिति झo पाठः । नक्षत्रान्यां ताराभ्यां तत्र स्थिते चन्द्र इत्यर्थः ॥ ॥ त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥