अध्यायः 047

पाण्डववचनशुश्रूषया धृतराष्ट्रादीनां सभाप्रवेशः ॥ 1 ॥ सञ्जयेन धृतराष्ट्राय पाण्डवान्प्रति तत्सन्देशकथनम् ॥ 2 ॥ श्रीकृष्णवाक्यकथनं चोदितेन सञ्जयेन स्वस्य कृष्णार्जुनान्तःपुरप्रवेशकथनपूर्वकं तत्कथनम् ॥ 3 ॥

वैशंपायन उवाच ।
एवं सनत्सुजातेन विदुरेण च धीमता ।
सार्धं कथयतो राज्ञः सा व्यतीयय सर्वरी ॥
तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते ।
सभामाविविशुर्हृष्टाःक सूतस्योपदिदृक्षया ॥
शुश्रूषमाणाः पार्थानां वाचो धर्मार्थसंहिताः ।
धृतराष्ट्रमुखाः सर्वे ययू राजन्सभां शुभाम् ॥
सुधावदातां विस्तीर्णां कनकाजिरभूषिताम् ।
चन्द्रप्रभां सुरुचिरां सिक्तां चिन्दनवारिणा ॥
रुचिरैरासनैः स्तीर्णां काञ्चनैर्दारवैरपि ।
अश्मसारमयैर्दान्तैःक स्वास्तीर्णैः सोत्तरच्छदैः ॥
भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः । अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः ।
विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः । सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ ।
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम् ॥
दुःशासनश्चित्रसेनः शकुनिश्चापि सौबलः ।
दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः ॥
कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम् ।
विविशुस्तां सभां राजन्सुराः शक्रसदो यथा ॥
आविशद्भिस्तदा राजञ्शूरैः परिघबाहुभिः ।
शुशुभे सा सभा रजन्सिंहैरिव गिरेर्गुहा ॥
ते प्रविश्य महेष्वासाः सभां सर्वे महौजसः ।
आसनानि विचित्राणि भेजिरे सूर्यवर्चसः ॥
आसनस्थेषु सर्वेषु तेषु राजसु भारत ।
द्वाःस्थो निवेदयामास सूतपुत्रमुपस्थितम् ॥
अयं सरथ आयाति योऽयासीत्पाण्डवान्प्रति ।
दूतो नस्तूर्णमायाति सैन्धवैः साधुवाहिभिः ॥
..पेयाय स तु क्षिप्रं रथात्प्रस्कन्द्य कुण्डली ।
प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः ॥
सञ्जय उवाच ।
प्राप्तोऽस्मि पाण्डवान्गत्वा तं विजानीत कौरवाः ।
यथावयः कुरून्सर्वान्प्रतिनन्दन्ति पाण्डवाः ॥
अभिवादयन्ति वृद्धांश्च वयस्यांश्च वयस्यवत् ।
पुनश्चाभ्यवदन्पार्थाः प्रतिपूज्य यथावयः ॥
यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः ।
अब्रवं पाण्डवान्गत्वा नात्र किञ्चन हापितम् ॥
` धृतराष्ट्र उवाच ।
पृच्छामि त्वां सञ्जय राजमध्ये यदब्रवीद्वाक्यमदीनसत्वः ।
जनार्दनस्तात युधां प्रणेता दुरात्मनां जीवितच्छिन्महात्मा ॥
सञ्जय उवाच ।
आगुल्फेभ्योऽभिसंवीतः प्रयतोऽहं कृताञ्जलिः ।
शुद्धान्तं प्राविशं राजन्नाख्यातो नरसिंहयोः ॥
न चाभिमन्युर्न यमौ तं देशमभिजग्मतुः ।
यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी ॥
उभौ मध्वासवक्षीबौ वरचन्दनरूषितौ ।
स्त्रग्विणौ वरवस्त्राङ्गौ वराभरणभूषितौ ॥
नैकरत्नविचित्रं च काञ्चनं च वरासनम् ।
नानास्तरणसंस्तीर्णं यत्रासाते नरर्षभौ ॥
सत्याङ्कमुपधानं तु कृत्वा शेते जनार्दनः । अर्जुनाङ्कगतौ पादौ केशवस्योपलक्षये ।
अर्जुनस्य च कृष्णायाः शुभायाश्चाङ्कगावुभौ ॥
काञ्चनं पादपीठं तु पार्थो वै प्रादिशन्मुदा ।
दासीभ्यामाहृतं मह्यं स्पृष्ट्वा भूमावुपाविशम् ॥
ऊर्ध्वरेखाङ्कितौ पादौ पार्थस्य शुभलक्षणौ ।
पादपीठादपहृतौ धारयेतां वरस्त्रियौ ॥
न नूनं कल्मषं किञ्चिन्मम कर्मसु विद्यते ।
स्त्रीरत्नाभ्यां समेतौ यन्मिथो मामभ्यभाषताम् ॥
विस्मयो मे महानासीदास्त्रं मे बहुसङ्गतम् ।
हृष्टानि चैव रोमाणि दृष्ट्वा तौ सहितावुभौ ॥
श्यामौ बृहन्तौ तरुणौ नागाविव समुच्छ्रितौ ।
एकशय्यागतौ दृष्ट्वा भयं मे महदाविशत् ॥
ततोऽभ्यचिन्तयं तत्र दृष्ट्वा तौ पुरुषर्षभौ । सङ्कल्पो धर्मराजस्य नानवाप्योऽस्ति कश्चन ।
निदेशगाविमौ यस्य नरनारायणावुभौ ॥
सत्कृतश्चान्नपानाभ्यामाच्छन्नो लब्धसत्क्रियः ।
अञ्जलिं मूर्ध्नि सन्धाय सन्देशं चाभ्यचोदयम् ॥
धनुर्धरोचितेनाथ पाणिनैकं सलक्षणम् ।
पादमानाययत्पार्थः केशवस्य यशस्विनः ॥
इन्द्रकेतुरिवोत्थाय दिव्याभरणभूषितः ।
इन्द्रवीर्योपमः कृष्णः संविष्टो माऽभ्यभाषत ॥
स वाचं वदतां श्रेष्ठ आददे वचनक्षमाम् ।
दीपनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम् ॥
बहिश्चरस्य प्राणस्य प्रियस्य प्रियकारिणः ।
मतिमान्मतिमास्थाय केशवः सन्दधे वचः ॥
वचनं वचनज्ञस्य शिक्षाक्षरसमन्वितम् ।
मनःप्रह्लादनं श्रेष्ठं पश्चाद्धृदयतापनम् ॥
श्रीभगवानुवाच ।
सञ्जयैतद्वचो ब्रूयाः प्राप्य क्षत्रियसंसदम् ।
श्रृण्वतः कुरुवृद्धस्य आचार्यस्य च धीमतः ॥
अर्थांस्त्यजत पार्थेषु सुखमाप्नुत कामजम् ।
प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये ॥
यजध्वं विविधैर्यज्ञैर्दक्षिणाश्च प्रयच्छत ।
पुत्रेर्दारैश्च मोदध्वमागतं वो महद्भयम् ॥
ऋणं प्रवृद्धमिव मे हृदयान्नापसर्पति ।
गोविन्देति यदाक्रन्दत्कृष्णा मां दूरवासिनम् ॥
तेजोमयं दुराधर्पं बिभ्रता गाण्डिवं धनुः ।
मद्द्वितीयेन पार्थेन वैरं वः प्रत्युपस्थितम् ॥
कृष्णस्यैतद्वचः श्रुत्वा महन्मे भयमाविशत् ।
तव पुत्रस्य लोभं च वर्धमानं प्रपश्यतः ॥
सोमेन्द्रसदृशौ वीरौ तौ मन्दो नावबुध्यते ।
भीष्मद्रोणाश्रयाच्चैव कर्णस्य च विकत्थनात् ' ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि सप्तचत्वारिंशोऽध्यायः ॥