अध्यायः 049

भीष्मेण दुर्योधनंप्रति कृष्णार्जुनयोः नरनारायणतादात्म्यकथनपूर्वकं तद्विरोधे कुरूणां विनाशकथनम् ॥ 1 ॥ तथा मर्मोद्धाटनपूर्वकं कर्णगर्हणम् ॥ 2 ॥ धृतराष्ट्रेण भीष्मद्रोणवचनानादरणे सर्वकुरूणां स्वजीवितनैराश्याधिगमः ॥ 3 ॥

वैशंपायन उवाच ।
समवेतेषु सर्वेषु तेषु राजसु भारत ।
दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ॥
बृहस्पतिश्चोशना च ब्रह्माणं पर्युपस्थितौ ।
मरुतश्च सहेन्द्रेण वसवश्चाग्रिना सह ॥
आदित्याश्चैव साध्याश्च ये च सप्तर्पयो दिवि ।
विश्वावसुश्च गन्धर्वः शुभाश्चाप्सरसां गणाः ॥
नमस्कृत्योपजग्मुस्ते लोकवृद्धं पितामहम् ।
परिवार्य च विश्वेशं पर्यासत दिवौकसः ॥
तेषां मनश्च तेजश्चाप्याददानाविवौजसा ।
पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी ॥
बृहस्पतिस्तु पप्रच्छ ब्रह्माणं काविमाविति ।
भवन्तं नोपतिष्ठेते तौ नः शंस पितामह ॥
ब्रह्मोवाच ।
यावेतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ ।
ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ ॥
नरनारायणावेतौ लोकाल्लोकं समास्थितौ ।
ऊर्जितौ स्वेन तपसा महासत्वपराक्रमौ ॥
एतौ हि कर्मणा लोकं नन्दयामासतुर्ध्रुवम् । द्विधाभूतौ महाप्राज्ञौ विद्धि ब्रह्मन्परन्तपौ ।
असुराणां विनाशाय देवगन्धर्वपूजितौ ॥
वैशंपायन उवाच ।
जगाम शक्रस्तच्छ्रत्वा यत्र तौ तेपतुस्तपः ।
सार्धं देवगणैः सर्वैर्बृहस्पतिपुरोगमैः ॥
तदा देवासुरे युद्धे भये जाते दिवौकसाम् ।
अयाचत महात्मानौ नरनारायणौ वरम् ॥
तावब्रूतां वृणीष्वेति तदा भरतसत्तम ।
अथैतावब्रवीच्छकः साह्यं नः क्रियतामिति ॥
ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि ।
ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान् ॥
नर इन्द्रस्य संग्रामे हत्वा शत्रून्परन्तपः ।
पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च ॥
एष भ्रान्ते रथे तिष्ठन्भल्लेनापाहरच्छिरः ।
जम्भस्य ग्रसमानस्य तदा ह्यर्जुन आहवे ॥
एष पारे समुद्रस्य हिरण्यपुरमारुजत् ।
हत्वा षष्टिं सहस्राणि निवातकवचान्रणे ॥
एष देवान्सहेन्द्रेण जित्वा परपुरञ्जयः ।
अतर्पयन्महाबाहुरर्जुनो जातवेदसम् ॥
नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह ।
एवमेतौ महावीर्यौ तौ पश्यत समागतौ ॥
वासुदेवार्जुनौ वीरौ समवेतौ महारथौ ।
नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः ॥
अजेयौ मानुषे लोके सेन्द्रैरपि सुरासुरैः । एष नारायणः कृष्णः फाल्गुनश्च नरः स्मृतः ।
नारायणो नरश्चैव सत्त्वमेकं द्विधा कृतम् ॥
एतौ हि कर्मणा लोकानश्रुवातेऽक्षयान्ध्रुवान् ।
तत्रतत्रैव जायेते युद्धकाले पुनःपुनः ॥
तस्मात्कर्मैव कर्तव्यमिति होवाच नारदः ।
एतद्धि सर्वमाचष्ट वृष्णिचक्रस्य वेदवित् ॥
शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम् ।
पर्याददानं चास्त्राणि भीमधन्वानमर्जुनम् ॥
सनातनौ महात्मानौ कृष्णावेकरथे स्थितौ ।
दुर्योधन तदा तात स्मर्तासि वचनं मम ॥
नोचेदयमभावः स्यात्कुरूणां प्रत्युपस्थितः ।
अर्थाच्च तात धर्माच्च तव बुद्धिरुपप्लुता ॥
न चेद्ग्रहीष्यसे वाक्यं श्रोतामि सुबहून्हतान् ।
तवैव हि मतं सर्वे कुरवः पर्युपासते ॥
त्रयाणामेव च मतं तत्त्वमेकोऽनुमन्यसे ।
रामेण चैव शप्तस्य कर्णस्य भरतर्षभ ॥
दुर्जातेः सुतपुत्रस्य शकुनेः सौबलस्य च ।
तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य च ॥
कर्ण उवाच ।
नैवमायुष्मता वाच्यं यन्मामात्थ पितामह ।
क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेयिवान् ॥
किञ्चान्यन्मयि दुर्वृत्तं येन मां परिगर्हसे ।
न हि मे वृजिनं किञ्चिद्धार्तराष्ट्रा विदुः क्वचित् ॥
नाचरं वृजिनं किञ्चिद्धार्तराष्ट्रस्य नित्यशः ।
अहं हि पाण्डवान्सर्वान्हनिष्यामि रणे स्थितान् ॥
प्राग्विरुद्धैः शमं सद्भिः कथं वा क्रियते पुनः । राज्ञो हि धृतराष्ट्रस्य सर्वं कार्यं प्रियं मया ।
तथा दुर्योधनस्यापि स हि राज्ये समाहितः ॥
वैशंपायन उवाच ।
कर्णस्य तु वचः श्रुत्वा भीष्मः शान्तनवः पुनः ।
धृतराष्ट्रं महाराजमाभाष्येदं वचोऽब्रवीत् ॥
यदयं कत्थते नित्यं हन्ताहं पाण्डवानिति ।
नायं कलापि संपूर्णा पाण्डवानां महात्मनाम् ॥
अनयो योयमागन्ता पुत्राणां ते दुरात्मनाम् ।
तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः ॥
एतमाश्रित्य पुत्रस्ते मन्दबुद्धिः सुयोधनः ।
अवामन्यत तान्वीरान्देवपुत्रानरिन्दमान् ॥
किञ्चाप्येतेन तत्कर्म कृतपूर्वं सुदुष्करम् ।
तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा ॥
दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम् ।
धनञ्जयेन विक्रम्य किमनेन तदा कृतम् ॥
` सर्वे ह्यस्त्रिविदः शूराः सर्वे प्राप्ता महद्यशः । अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम् ॥'
सहितान्हि कुरून्सर्वानभियातो धनञ्जयः ।
प्रमथ्य चाच्छिनद्वासः किमयं प्रोषितस्तदा ॥
गन्धर्वैर्घोषयात्रायां ह्रियते यत्सुतस्तव ।
क्व तदा सूतपुत्रोऽभूद्य इदानीं वृषायते ॥
ननु तत्रापि भीमेन पार्थेन च महात्मना ।
यमाभ्यामेव संगम्य गन्धर्वास्ते पराजिताः ॥
एतान्यस्य मृषोक्तानि बहूनि भरतर्षभ ।
विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः ॥
वैशंपायन उवाच ।
भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामताः ।
धृतराष्ट्रमुवाचेदं राजमध्येऽभिपूजयन् ॥
यदाह भरतश्रेष्ठो भीष्मस्तत्क्रियतां नृप ।
न काममवलिप्तानां वचनं कर्तुमर्हसि ॥
पुरा युद्धात्साधु मन्ये पाण्डवैः सह सङ्गतम् ।
यद्वाक्यमर्जुनेनोक्तं सञ्जयेन निवेदितम् ॥
सर्वं तदभिजानामि करिष्यति च पाण्डवः ।
न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति धनुर्धरः ॥
वैशंपायन उवाच ।
अनादृत्य तु तद्वाक्यमर्थवद्द्रोणभीष्मयोः ।
ततः स सञ्जयं राजा पर्यपृच्छत पाण्डवान् ॥
तदैव कुरवः सर्वे निराशा जीवितेऽभवन् ।
भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि एकोनपञ्चाशोऽध्यायः ॥

5-49-16 आरुजत् पीडितवान् ॥ 5-49-41 वृषायते कर्णो भवति ॥