अध्यायः 050

धृतराष्ट्रेण पाण्डवानां किमुपजीवनेन रणोद्योग इति पृष्टस्य सञ्जयस्य पाण्डवप्रभावानुस्मरणेन मूर्छा ॥ 1 ॥ लब्धसंज्ञेन सञ्जयेन पाण्डवानां कृष्णानुगृहीतस्वसामर्थ्येन राज्ञां साहाय्येन च समरोद्यम इति कथनम् ॥ 2 ॥

धृतराष्ट्र उवाच ।
किमसौ पाण्डवो राजा धर्मपुत्रोऽभ्यभाषत ।
श्रुत्वेह बहुलाः सेनाः प्रीत्यर्थं नः समागताः ॥
किमसौ चेष्टते सूत योत्स्यमानो युधिष्ठिरः ।
के वास्य भ्रातृपुत्राणां पश्यन्त्याज्ञेप्सवो सुखम् ॥
के स्विदेनं वारयन्ति युद्धाच्छाम्येति वा पुनः ।
निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम् ॥
सञ्जय उवाच ।
राज्ञो मुखमुदीक्षन्ते पाञ्चालाः पाण्डवैः सह ।
युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च ॥
पृथग्भूताः पाण्डवानां पाञ्चालानां रथव्रजाः ।
आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम् ॥
नभः सूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम् ।
पाञ्चालाः प्रतिनन्दन्ति तेजोराशिमिवोदितम् ॥
आगोपालाविपालाश्च नन्दमाना युधिष्ठिरम् ।
पाञ्चालाः केकया मत्स्याः प्रतिनन्दति पाण्डवम् ॥
ब्राह्मण्यो राजपुत्र्यश्च विशां दुहितरश्च याः ।
क्रीडन्त्योभिसमायान्ति पार्थं सन्नद्धमीक्षितुम् ॥
धृतराष्ट्र उवाच ।
सञ्जयाचक्ष्व येनास्मान्पाडवा अभ्ययुञ्जत ।
धृष्टद्युम्नस्य सैन्येन सोमकानां बलेन च ॥
वैशंपायन उवाच ।
गवल्गणिस्तु तत्पुष्टः सभायां कुरुसंसदि ।
निःश्वस्य सुभृशं दीर्घं मुहुः सञ्चिन्तयन्निव ॥
तत्रानिमित्ततो वैवात्सुतं कश्मलमाविशत् ।
तदाचचक्षे विदुरः सभायां राजसंसदि ॥
सञ्जयोऽयं महाराज मूर्छितः पतितो भुवि ।
वाचं न सृजते कांचिद्धीनप्रज्ञोऽल्पचेतनः ॥
धृतराष्ट्र उवाच ।
अपश्यत्सञ्जयो नूनं कुन्तीपुत्रान्महारथान् ।
तैरस्य पुरुषव्याघ्रैर्भृशमुद्वेजितं मनः ॥
वैशंपायन उवाच ।
सञ्जयश्चेतनां लब्ध्वा प्रत्याश्वस्येदभब्रवीत् ।
धृतराष्ट्रं महाराज सभायां कुरुसंसदि ॥
सञ्जय उवाच ।
दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान्महारथान् ।
मत्स्यराजगृहावासनिरोधेनावकर्शितान् ॥
श्रृणु र्यैर्हि महाराज पाण्डवा अभ्ययुञ्जत ।
धृष्टद्युम्नेन वीरेण युद्धे वस्तेऽभ्ययुञ्जत ॥
यो नैव रोपान्न भयान्न लोभान्नार्थकारणात् ।
न हेतुवादाद्धर्मात्मा सत्यं जाह्यात्कदाचन ॥
यः प्रमाणं महाराज धर्मे धर्मभृतां वरः ।
अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत ॥
यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश्चन । यो वै सर्वान्महीपालान्वशे चक्रे धनुर्धरः ।
यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत् ॥
तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत ।
यस्य वीर्येण सहसा चत्वारो भुवि पाण्डवाः ॥
निःसृत्य जतुगेहाद्वै हिडिम्बात्पुरुषादकात् ।
यश्चैपामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ॥
याज्ञसेनीमथो यत्र सिन्धुराजोपकृष्टवान् ।
तत्रैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ॥
यश्च तान्सङ्गतान्सर्वान्पाण्डवान्वारणावते ।
दह्यतो मोचयामास तेन वस्तेऽभ्ययुञ्जत ॥
कृष्णायां चरता प्रीतिं येन क्रोधवशा हताः ।
प्रविश्य विषयं घोरं पर्वतं गन्धमादनम् ॥
यस्य नागायुतैर्वीर्यं भुजयोः सारमर्पितम् ।
तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत ॥
कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः ।
अजयद्यः पुरा वीरो युध्यमानं पुरन्दरम् ॥
यः स साक्षान्महादेवं गिरिशं शृलपाणिनम् ।
तोपयामास युद्धेन देवदेवमुपामपिम् ॥
यश्च सर्वान्वशे चक्रे लोकपालान्धनुर्धरः ।
तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत ॥
यः प्रतीचीं दिशं चक्रे वशे म्लेच्छगणायुताम् ।
स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः ॥
तेन वो दर्शनीयेन वीरेणातिधनुर्भृता ।
माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत ॥
यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत् ।
तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत ॥
यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः ।
अश्वत्थामा धृष्टकेतू रुक्मी प्रद्युम्न एव च ॥
तेन वः सहदेवेन युद्धं राजन्महात्ययमअ ।
यवीयसा नृवीरेण माद्रीनन्दिकरेण च ॥
तपश्चचार या घोरं काशिकन्या पुरा सती ।
भीष्मस्य वधमिच्छन्ती प्रेत्यापि भरतर्षभ ॥
पाञ्चालस्य सुता जज्ञे दैवाच्च स पुनः पुमान् ।
स्त्रीपुंसीः पुरुषव्याघ्र यः स वेद गुणागुणान् ॥
.. कलिङ्गान्समापेदे पाञ्चाल्यो युद्धदुर्मदः ।
शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत ॥
यं यक्षः पुरुषं चक्रे भीष्मस्य निधनेच्छया ।
महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत ॥
महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः ।
आमुक्तवचाः शूरास्तैश्च वस्तेऽभ्ययुञ्जत ॥
यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान्सत्यविक्रमः ।
तेन वो वृष्णिवीरेण युयुधानेन सङ्गरः ॥
य आसीच्छरणं काले पाण्डवानां महात्मनाम् ।
रणे तेन विराटेन भविता वः समागमः ॥
यः स काशिपती राजा वाराणस्यां महारथः ।
स तेषामभवद्योद्धा तेन वस्तेऽभ्ययुञ्जत ॥
शिशुभिर्दुर्जयैः सङ्ख्ये द्रौपदेयैर्महात्मभिः ।
आशीविषसमस्पर्शैः पाण्डवा अभ्ययञ्जत ॥
यः कृष्णासदृशो वीर्ये युधिष्ठिरसमो दमे ।
तेनाभिमन्युना सङ्ख्ये पाण्डवा अभ्ययुञ्जत ॥
यश्चैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः ।
दुःसहः समरे क्रुद्धः शैशुपालिर्महारथः ॥
तेन वश्चेदिराजेन पाण्डवा अभ्ययुञ्जत ।
अक्षौहिण्या परिवृतः पाण्डवान्योभिसंश्रितः ॥
यः संश्रयः पाण्डवानां देवानामिव वासवः ।
तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत ॥
यथा चेदिपतेर्भ्राता शरभो भरतर्षभ ।
करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत ॥
तारासन्धिः सहदेवो जयत्सेनश्च तावुभौ ।
युद्धे प्रतिरथे वीरौ पाण्डवार्थे व्यवस्थितौ ॥
द्रुपदश्च महातेजा बलेन महता वृतः ।
त्यक्तात्मा पाण्डवार्थाय सोत्स्यमानो व्यवस्थितः ॥
एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः ।
शतशो यानुपाश्रिता धर्मराजो व्यवस्थितः ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि पञ्चशोऽध्यायः ॥

5-50-47 करकर्षेण करकर्षसंज्ञेन भ्रात्रा ॥