अध्यायः 057

पृष्टेन सञ्जयेन धृतराष्ट्रं प्रति पाण्डवसहायानां राज्ञां नामनिर्देशपूर्वकं तैः कुरुसेनागतानां स्वस्वदध्यतया विभजनकथनम् ॥ 1 ॥ दुर्योधनेन सञ्जयवचनश्रवणेन क्रोशन्तं धृतराष्ट्रमाक्षिप्य स्वपक्षीयाणां प्रतापप्रशंसनम् ॥ 2 ॥ पुनस्सञ्जयेन धृष्टद्युम्नदन्त्रोवचनपूर्वकं युद्धनिषेधनम् ॥ 3 ॥

धृतराष्ट्र उवाच ।
कांस्तत्र सञ्जयापश्यः प्रीत्यर्थेन समागतान् ।
ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम् ॥
सञ्जय उवाच ।
मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम् ।
चेकितानं च तत्रैव युयुधानं च सात्यकिम् ॥
पृथगक्षौहिणीभ्यां तु पाण्डवानभिसंश्रितौ ।
महारथौ समाख्यातावुभौ पुरुषमानिनौ ॥
अक्षौहिण्याऽथ पाञ्चाल्यो दशभिस्तनयैर्वृतः । सत्यजित्प्रमुखैर्वीरैर्धृष्टद्युम्नपुरोगमैः ।
द्रुपदो वर्धयन्मानं शिखण्डिपरिपालितः ।
उपायात्सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः ॥
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च ।
सूर्यदत्तादिभिर्वीरैर्मदिराक्षपुरोगमैः ॥
सहितः पृथिवीपालो भ्रातृभिस्तनयैस्तथा ।
अक्षौहिण्यैव सैन्यानां वृतः पार्थं समाश्रितः ॥
जारासन्धिर्मागधश्च धृष्टकेतुश्च चेदिराट् ।
पृथक्पृथगनुप्राप्तौ पृथगक्षौहिणीवृतौ ॥
केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः ।
अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः ॥
एतानेतावतस्तत्र तानपश्यं समागतान् ।
ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम् ॥
यो वेद `मानुषं व्यूहं दैवं गान्धर्वमासुरम् ।
स तत्र सेनाप्रमुखे धृषटद्युम्नो महारथः ॥
भीष्मः शान्तनवो राजन्भागः क्लृप्तः शिखण्डिनः तं विराटोऽनुसंयाता सार्धं मत्स्यैः प्रहारिभिः ॥
ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली ।
तौ तु तत्राब्रुवन्केचिद्विषमौ नो मताविति ॥
दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च ।
प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः ॥
अर्जुनस्य तु भागेन कर्णे वैकर्तनो मतः ।
अश्वत्थामा विकर्णश्च सैन्धवश्च जयद्रथः ॥
अशक्याश्चैव ये केचित्पृथिव्यां शूरमानिनः ।
सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः ॥
महेष्वांसा राजपुत्रा भ्रातरः पञ्च केकयाः ।
केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे ॥
तेषामेव कृतो भागो मालवाः साल्वकास्तथा ।
त्रिगर्तानां च वै मुख्यौ यौ तौ संशप्तकाविति ॥
दुर्योधनसुताः सर्वे तथा दुःशासनस्य च ।
सौभद्रेण कृतो भागो राजा चैव बृहद्बलः ॥
द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः ।
धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत ॥
चेकितानः सोमदत्तं द्वैरथे योद्धुमिच्छति ।
भोजं तु कृतवर्माणं युयुधानो युयुत्सति ॥
सहदेवस्तु माद्रेयः शूरः संक्रन्दनो युधि ।
स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम् ॥
उलूकं चैव कैतव्यं ये च सारस्वता गणाः ।
नकुलः कल्पयामास भागं माद्रवतीसुतः ॥
ये चान्ये पार्थिवा राजन्प्रत्युद्यास्यन्ति सङ्गरे ।
समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन् ॥
एवमेषामनीकानि प्रविभक्तानि भागशः ।
यत्ते कार्यं सपुत्रस्य क्रियतां तदकालिकम् ॥
धृतराष्ट्र उवाच ।
न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूतदेविनः ।
येषां युद्धं बलवता भीमेन रणमूर्धनि ॥
राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा ।
गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम् ॥
विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्मभिः ।
तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैर्युधि ॥
सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः ।
सूर्यपावकयोस्तुल्यास्तेजसा समितिंजयाः ॥
येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः ।
योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ ॥
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ।
सात्यकिर्द्रुपदश्चैव धृष्टकेतुश्च सानुजः ॥
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः ।
शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः ॥
काशयश्चेदयश्चैव मत्स्याः सर्वे च सृञ्जयाः ।
विराटपुत्रो बभ्रुश्च पाञ्चालाश्च प्रभद्रकाः ॥
येषांमिन्द्रोऽप्यकामानां न हरेत्पृथिवीमिमाम् ।
वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि ॥
तान्सर्वगुणसंपन्नानमनुष्यप्रतापिनः ।
क्रोशतो मम दुष्पुत्रो योद्धुमिच्छति सञ्जय ॥
दुर्योधन उवाच ।
उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ ।
अथ कस्मात्पाण्डवानामेकतो मन्यसे जयम् ॥
पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम् ।
जयद्रथं सोमदत्तमश्वत्थामानमेव च ॥
सुतेजसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः ।
अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः ॥
सर्वे च पृथिवीपाला मदर्थे तात पाण्डवान् ।
आर्याः शस्त्रभृतः शूराः समर्थाः प्रतिबाधितुं ॥
न मामकान्पाण्डवास्ते समर्थाः प्रतिवीक्षितुम् ।
पराक्रान्तो ह्यहं पाण्डून्सपुत्रान्योद्धुमाहवे ॥
मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत ।
ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना ॥
महता रथवंशेन शरजालैश्च मामकैः ।
अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह ॥
धृतराष्ट्र उवाच ।
उन्मत्त इव मे पुत्रो विलपत्येष सञ्जय ।
न हि शक्तो रमे जेतुं धर्मराजं युधिष्ठिरम् ॥
जानाति हि यथा भीष्मः पाण्डवानां यशस्विनाम् ।
बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम् ॥
यतो नारोचयदयं विग्रहं तैर्महात्मभिः ।
किं तु सञ्जय मे ब्रूहि पुनस्तेषां विचेष्टितम् ॥
कस्तांस्तरस्विनो भूयः सन्दीपयति पाण्डवान् ।
अर्चिष्मतो महेष्वासान्हविषा पावकानिव ॥
सञ्जय उवाच ।
धृष्टद्युम्नः सदैवैतान्सन्दीपयति भारत ।
युद्ध्यध्वमिति माभैष्ट युद्धाद्भरतसत्तमाः ॥
ये केचित्पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः ।
युद्धे समागमिष्यन्ति तुमुले शस्त्रसङ्कुले ॥
तान्सर्वानाहवे क्रुद्धान्सानुबन्धान्समागतान् ।
अहमेकः समादास्ये तिमिर्यत्स्यानिवोदकात् ॥
भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम् ।
एतांश्चापि निरोत्स्यामि वेलेव मकरालयम् ॥
तथा ब्रुवन्तं धर्मात्मा प्राह राजा युधिष्ठिरः ।
तव धैर्यं च वीर्यं च पाञ्चालः पाण्डवैः सह ॥
सर्वे समधिरूढाः स्म सङ्ग्रामान्नः समुद्धर ।
जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम् ॥
समर्थमेकं पर्याप्तं कौरवाणां विनिग्रहे ।
पुरस्तादुपयातानां कौरवाणां युयुत्सताम् ॥
भवत्ता यद्विधातव्यं तन्नः श्रेयः परंतप ।
सङ्ग्रामादपयातानां भग्नानां शरणैषिणाम् ॥
पौरुषं दर्शयञ्शूरो यस्तिष्ठेदग्रतः पुमान् ।
क्रीणीयात्तं सहस्रेण इति नीतिमतां मतम् ॥
स त्वं शूरश्च वीरश्च विक्रान्तश्च नरर्षभ ।
भयार्तानां परित्राता संयुगेषु न संशयः ॥
एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे । धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसम् ।
सर्वाञ्जनपदान्सूत योधा दुर्योधनस्य ये ॥
सबाह्लिकान्कुरून्ब्रूयाः प्रातिपेयाञ्शरद्वतः ।
सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम् ॥
दुःशासनं विकर्णं च तथा दुर्योधनं नृपम् भीष्मं च ब्रूहि गत्वा त्वमाशु गच्छ च माचिरम् ॥
युधिष्ठिरः साधुनैवाभ्युपेयो मा वोऽवधीदर्जुनो देवगुप्तः ।
राज्यं दद्ध्वं धर्मराजस्य तूर्णं याचध्वं वै पाण्डवं लोकवीरम् ॥
नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन ।
यथाविधः सव्यसाची पाण्डवः सत्यविक्रमः ॥
देवैर्हि संभृतो दिव्यो रथो गाण्डीवधन्वनः ।
न सजेयोमनुष्येण मा स्म कृद्ध्वं मनो युधि ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि सप्तपञ्चाशत्तमोऽध्यायः ॥

5-57-25 अकालिकं कालबिलम्बं विना ॥ 5-57-27 प्रोक्षिताः पशुवद्वधार्थं संस्कृताः ॥ 5-57-41 ऐणेयान् हरिणशावान् । तन्तुनापाशेन ॥ 5-57-58 शरद्वतः आयुष्मतः विरुद्वलक्षणया गतायुष इत्यर्थः ॥ 5-57-60 दद्धं ददत ॥ 5-57-62 कृद्ध्वं कुरुध्वम् ॥