अध्यायः 060

धृतराष्ट्रेण दुर्योधनं प्रति स्वपरपक्षयोः बलाबलविमर्शनेन पाण्डवेषु पुत्रप्रेम्णा धर्मादिदेवानां साहाय्यकरमाभिधानपूर्वकं स्वस्य शमाभिरोचनवचनम् ॥ 1 ॥

वैशंपायन उवाच ।
सञ्जयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्जनेश्वरः ।
ततः सङ्ख्यातुमारेभे तद्वचो गुणदोषतः ॥
प्रसङ्ख्याय च सौक्ष्म्येण गुणदोषान्विचक्षणः ।
यथावन्मतितत्त्वेन जयकामः सुतान्प्रति ॥
बलाबलं विनिश्चित्य याथातथ्येन बुद्धिमान् ।
`यदा तु मेने भूयिष्ठं तद्वचो गुणदोषतः ॥
पुनरेव कुरूणां च पाण्डवानां च बुद्धिमान् ।' शक्तिं शङ्ख्यातुमारेभे तदा वै मनुजाधिपः ॥
देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान् ।
कुरूञ्शक्त्याऽल्पतरया दुर्योधनमथाब्रवीत् ॥
दुर्योधनेयं चिन्ता मे शश्वन्न व्युपशाम्यति ।
सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः ॥
आत्मजेषु परं स्नेहं सर्वभातिनि कुर्वते ।
प्रियामि चैषां कुर्वन्ति यथाशक्ति हितानि च ॥
एवमेवोपकर्तॄणां प्रायशो लक्षयामहे ।
इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत्प्रियम् ॥
अग्निः साचिव्यर्ता स्यात्खाण्डवे तत्कृतं स्मरन् ।
अर्जुनस्यापि भीमेऽस्मिन्कुरुपाण्डुसमागमे ॥
जातिगृद्ध्याऽभिपन्नाश्च पाण़्डवानामनेकशः ।
धर्मादयः समेष्यन्ति समाहूता दिवौकसः ॥
भीष्मद्रोणकृपादीनां भयादशनिसन्निभम् ।
रिरक्षिषन्तः संरभ्यं गमिष्यन्तीति मे मतिः ॥
ते देवैः सहिताः पार्था न शक्याः प्रतिवीक्षितुम् ।
मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः ॥
दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम् ।
वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी ॥
वानरश्च ध्वजे दिव्यो निःसङ्गे धूमवद्गतिः ।
रथश्च चतुरन्तायां यस्य नास्ति समः क्षितौ ॥
महामेघनिभश्चापि निर्घोषः श्रूयते जनैः ।
महाशनिसमः शब्दःत शात्रवाणां भयंकरः ॥
यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति ।
देवानामपि जेतारं यं विदुः पार्थिवा रणे ॥
शतानि पञ्च चैवेषून्यो गृह्णन्नैव दृश्यते ।
निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन् ॥
यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च ।
मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः ॥
युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः ।
अशक्यं रथशार्दूलं पराजेतुमरिंदमम् ॥
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः ।
सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम् ॥
तमर्जुनं महेष्वासं महेन्द्रोपेन्द्रविक्रमम् ।
निघ्नन्तमिव पश्याभि विमर्देऽस्मिन्महाहवे ॥
इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत ।
अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया ॥
क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः ।
अस्य चेत्कलहन्यान्तः शमादन्यो न विद्यते ॥
शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः ।
कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि षष्टितमोऽध्यायः ॥

5-60-5 शक्त्या परिच्छिद्येति शेष्ठः ॥ 5-60-9 भीमे भयंकरे ॥ 5-60-10 जातिगृद्ध्या जन्मग्रहणाद्धेतोः युधिष्ठिरादीनां पितरो धर्मादयोपि तेषां सहायाः सन्ति ॥