अध्यायः 062

कर्णेन धृतराष्ट्रमनादृत्य पाण्डवहननप्रतिज्ञानम् ॥ 1 ॥ तथा भीष्माधिक्षिप्तेन तेन युद्धे भीष्मशमनावधि शस्त्रन्यासं प्रतिज्ञाय स्वभवनगमनम् ॥ 2 ॥ भीष्मेण प्रत्यहं अयुतयोधवधप्रतिज्ञा ॥ 3 ॥

वैशंपायन उवाच ।
तथा तु पृच्छन्तमतीव पार्थं वैचित्रवीर्यं तमचिन्तयित्वा ।
उवाच कर्णो धृतराष्ट्रपुत्रं प्रहर्षयन्संसदि कौरवाणाम् ॥
मिथ्या प्रतिज्ञाय मया यदस्त्रं रामात्कृतं ब्रह्ममयं पुरस्तात् ।
विज्ञाय तेनास्मि तदैवमुक्त- स्ते नान्तकाले प्रतिभास्यतीति ॥
महापराधे ह्यपि यन्न तेन महर्षिणाऽहं गुरुणा च शप्तः ।
शक्तः प्रदग्धुं ह्यपि तिग्मतेजाः ससागरामप्यवनिं महर्षिः ॥
प्रसादितं ह्यस्य मया मनोऽभू- च्छुश्रूषया स्वेन च पौरुषेण
तदस्ति चास्त्रं मम सावशेषं तस्मात्समर्थोऽस्मि ममैष भारः ॥
निमेषमात्रात्तमृषेः प्रसाद- मवाप्य पाञ्चालकरूशमत्स्यान् ।
निहत्य पार्थान्सह पुत्रपौत्रै- र्लोकानहं शस्त्रजितान्प्रपत्स्ये ॥
पितामहस्तिष्ठतु ते समीपे द्रोणश्च सर्वे च नरेन्द्रमुख्याः ।
ऋषिप्रसादेन बलेन गत्वा पार्थान्हनिष्यामि ममैष भारः ॥
एवं ब्रुवन्तं तमुवाच भीष्मः किं कत्थसे कालपरीतबुद्धे ।
न कर्ण जानासि यथा प्रधाने हते हताः स्युर्धृतराष्ट्रपुत्राः ॥
यत्खाण्डवं दाहयता कृतं हि कृष्णद्वितीयेन धनञ्जयेन ।
श्रुत्वैव तत्कर्म नियन्तुमात्मा युक्तस्त्वया वै सहबान्धवेन ॥
यां चापि शक्तिं त्रिदशाधिपस्ते ददौ महात्मा भगवान्महेन्द्रः ।
भस्मीकृतां तां समरे विशीर्णां चक्राहतां द्रक्ष्यसि केशवेन ॥
यस्ते शरः सर्पमुखो विभाति सदाऽग्र्यमाल्यैर्महितः प्रयत्नात् ।
स पाण्डुपुत्राभिहतः शरौघैः सह त्वया यास्यति कर्ण नाशम् ॥
बाणस्य भौमस्य च कर्ण हन्ता किरीटिनं रक्षति वासुदेवः ।
यस्त्वादृशानां च वरीयसां च हन्ता रिपूणां तुमुले प्रगाढे ॥
कर्ण उवाच ।
असंशयं वृष्णिपतिर्यथोक्त- स्तथा च भूयांश्च ततो महात्मा ।
अहं यदुक्तः परुषं तु किंचि- त्पितामहस्तस्य फलं शृणोतु ॥
न्यस्यामि शस्त्राणि न जातु सङ्ख्ये पितामहो द्रक्ष्यति मां सभायाम् ।
त्वयि प्रशान्ते तु मम प्रभावं द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः ॥
वैशंपायन उवाच ।
इत्येवमुक्त्वा स महाधनुष्मान् हित्वा सभां स्वं भवनं जगाम ।
भीष्मस्तु दुर्योधनमेव राजन् मध्ये कुरूणां प्रहसन्नुवाच ॥
सत्यप्रतिज्ञः किल सूतपुत्र- स्तथा कस भारं विषहेत कस्मात् ।
व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा लोकक्षयं पश्यत भीमसेनात् ॥
आवन्त्यकालिङ्गजयद्रथेषु चेदिध्वजे तिष्ठति बाह्लिके च ।
अहं हनिष्यामि सदा परेषां सहस्रशश्चायुतशश्च योधान् ॥
यदैव रामे भगवत्यनिन्द्ये ब्रह्मब्रुवाणः कृतवांस्तदस्त्रम् ।
तदैव धर्मश्च तषश्च नष्टं वैकर्तनस्याधमपूरुषस्य ॥
वैशंपायन उवाच ।
तथोक्तवाक्ये नृपतीन्द्र भीष्मे निक्षिप्य शस्त्राणि गते च कर्णे ।
वैचित्रवीर्यस्य सुतोऽल्पबुद्धि- र्दुर्योधनः शान्तनवं बभाषे ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि द्विषष्टितमोऽध्यायः ॥

5-62-1 तथेति पार्थं पृच्छन्तं वैचित्रवीर्यं अचिन्तयित्वेति संबन्धः ॥ 5-62-4 सावशेषं मम आयुरस्ति । अतोऽन्तकालस्यानुपस्थितत्वात्तदस्त्रं ममास्तीति अहं समर्थोऽस्मि अर्जुनं जेतुमित्यर्थः ॥ 5-62-5 प्रपत्स्ये प्रापयिष्ये ॥ 5-62-7 प्रधाने त्वयि हते सति सर्वे हताः स्युरत आत्मानं गोपायेत्युपहासः ॥ 5-62-17 ब्रह्मब्रुवाणः ब्राह्मणोऽहमिति वदन् ॥