अध्यायः 003
सात्यकिना बलरामवचनप्रतिक्षेपपूर्वकं दुर्योधननिग्रहनिर्धारणम् ॥ 1 ॥
सात्यकिरुवाच ।
यादृशः पुरुषस्यात्मा तादृशं संप्रभाषते ।
यथारूपोऽन्तरात्मा ते तथारूपं प्रभाषते ॥
सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास्तथा ।
उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान्प्रति ॥
एकस्मिन्नेव जायेते कुले क्लीबमहाबलौ ।
फलाफलवती शाखे यथैकस्मिन्वनस्पतौ ॥
नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज ।
ये तु शृण्वन्ति ते वाक्यं तानसूयामि माधव ॥
कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन् ।
लभते परिषन्मध्ये व्याहर्तुमकुतोभयः ॥
समाहूय महात्मानं जितवन्तोऽक्षकोविदाः ।
अनक्षज्ञं यथाऽश्रद्धं तेषु धर्मजयः कुतः ।
यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह ।
अभिगम्य जयेयुस्ते तत्तेषां धर्मतो भवेत् ॥
समाहूय तु राजानं क्षत्रधर्मरतं सदा ।
निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम् ॥
कथं प्रणिपतेच्चायमिह कृत्वा पणं परम् ।
वनवासाद्विमुक्तरतु प्राप्तः पैतामहं पदम् ॥
यद्ययं परवित्तानि कामयेत युधिष्ठिरः ।
एवमप्ययमत्यन्तं परान्नार्हति याचितुम् ॥
कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवः ।
निवृत्तवनवासांस्तान्य आहुर्विदिता इति ॥
अनुनीता हि भीष्मेण द्रोणेन विदुरेण च ।
न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु ॥
अहं तु ताञ्छितैर्बाणैरनुनीय रणे बलात् ।
पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः ॥
अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः ।
गमिष्यन्ति सहामात्या यमस्य सदनं प्रति ॥
न हि ते युयुधानस्य संरब्धस्य युयुत्सतः ।
वेगं समर्थाः संसोद्धुं वज्रस्येव महीधराः ॥
को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधि ।
मां चापि विषहेत्क्रुद्धं कश्च भीमं दुरासदम् ॥
यमौ च दृढधन्वानौ यमकल्पौ महाद्युती ।
विराटद्रुपदौ वीरौ यमकालोपमद्युती ॥
को जिजीविषुरासादेद्धृष्टद्युम्नं च पार्षतम् ।
पञ्चैतान्पाण्डवेयांस्तु द्रौपद्याः कीर्तिवर्धनान् ॥
समप्रमाणान्पाण्डूनां समवीर्यान्मदोत्कटान् ।
सौभद्रं च महेष्वासममरैरपि दुःसहम् ॥
गदप्रद्युम्नसाम्बांश्च कालसूर्यानलोपमान् ।
ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह ॥
कर्णं चैव निहत्याजावभिषेक्ष्याम पाण्डवम् ।
नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाऽऽततायिनः ॥
अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम् ।
हृद्भतस्तस्य यः कामस्तं कुरुध्वमतन्द्रिताः ॥
धार्तराष्ट्रो ह्ययुद्धेन न राज्यं दातुमिच्छति ।
अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः ।
निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले ॥ ॥
इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि तृतीयोऽध्यायः ॥
5-3-3 फलाफलावती । सुपो लुक् आर्षः पूर्वसवर्णो वा ॥ 3 ॥