अध्यायः 076
श्रीकृष्णेन भीमंप्रति स्वस्य तन्महिमाभिज्ञत्वमभिधाय
तत्प्रशंसनपूर्वकं स्वोक्तेः तेजस्सन्दीपनार्थत्वकथनम् ॥ 1 ॥
भावं जिज्ञासमानोऽहं प्रणयादिदमब्रवम् ।
न चाक्षेपान्न पाण्डित्यान्न क्रोधान्न विवक्षया ॥
वेदाहं तव माहात्म्यसुत ते वेद यद्बलम् ।
उत ते वेद कर्माणि न त्वां परिभवाम्यहम् ॥
यथा चात्मनि कल्याणं संभावयसि पाण्डव ।
सहस्रगुणमप्येतत्त्वयि संभावयाम्यहम् ॥
यादृशे च कुले जन्म सर्वराजाभिपूजिते ।
बन्धुभिश्च सुहृद्भिश्च भीम त्वमसि तादृशः ॥
जिज्ञासन्तो हि धर्मस्य सन्दिग्धस्य वृकोदर ।
पर्यायं नाध्यवस्यन्ति देवमानुषयोर्जनाः ॥
स एव हेतुर्भूत्वा हि पुरुषस्यार्थसिद्धिषु ।
विनाशेऽपि स एवास्य सन्दिग्धं कर्म पौरुषम् ॥
अन्यथा परिदृष्टानि कविभिर्दोवदर्शिभिः ।
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ॥
सुमन्त्रितं सुनीतं च न्यायतश्चोपपादितम् ।
कृतं मानुष्यकं कर्म दैनेनापि विरुद्ध्यते ॥
दैवमप्यकृतं कर्म पौरुषेण विहन्यते ।
शीतमुष्णं तथा वर्षं क्षुत्पिपासे च भारत ॥
यदन्यद्दिष्टभावस्य पुरुषस्य स्वयं कृतम् ।
तस्मादनुपरोधश्च विद्यते तत्र लक्षणम् ॥
लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः ।
एवंबुद्धिः प्रवर्तेत फलं स्यादुभयान्वये ॥
य एवं कृतबुद्धिः स कर्मस्वेव प्रवर्तते ।
नासिद्धो व्यथते तस्य न सिद्धौ हर्षमश्रुते ॥
तत्रेयमनुमात्रा मे भीमसेन विवक्षिता ।
नैकान्तसिद्धिर्वक्तव्या शत्रुभिः सह संयुगे ॥
नातिप्रहीणरश्मिः स्यात्तथा भावविपर्यये ।
विषादमर्च्छेद् ग्लानिं वाप्येतमर्थं ब्रवीमिते ॥
श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव ।
यतिष्ये प्रशमं कर्तुं युष्मदर्थमहापयन् ॥
शमं चेत्ते करिष्यन्ति ततोऽनन्तं यशो मम ।
भवतां कच कृतः कामस्तेषां च श्रेय उत्तमम् ॥
ते चेदभिनिवेक्ष्यन्ते नाभ्युपैष्यन्ति मे वचः ।
कुरवो युद्धमेवात्र घोरं कर्म भविष्यति ॥
अस्मिन्युद्धे भीमसेन त्वयि भारः समाहितः ।
धूरर्जुनेन धार्या स्याद्वेढव्य इतरो जनः ॥
अहं हि यन्ता बीभत्सोर्भविता संयुगे सति ।
धनञ्जयस्यैष कामो न हि युद्धं न कामये ॥
तस्मादाशङ्कमानोऽहं वृकोदर मतिं तव ।
गदतः क्लीबया वाचा तेजस्ते समदीदिपम् ॥ ॥
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि षट्सप्ततितमोऽध्यायः ॥
5-76-1 भावमिति । विवक्षया त्वया स्वरूपं वक्तव्यमितीच्छया ।
प्रागेव तस्य ज्ञातत्वात् ॥ 1 ॥ 5-76-5 देवमानुषयोर्धर्मस्य पर्यायमिति
संबन्धः ॥ 5-76-7 परिदृष्टानि कर्तव्यत्वेन निश्चितानि कार्याणि ॥ 5-76-10
दिष्टः फलभोगाय आज्ञप्तः भावः सत्ता यस्य तत् दिष्टभावं प्रारब्धकर्म ।
पञ्चम्यर्थे षष्ठी । प्रारब्धादन्यदित्यर्थः । पुरुषस्य पुरुषेण संचितं
यत्स्वयंकृतं कर्म तस्मादनुपरोधो जन्मान्तरे निरोधो नास्ति । तत्र ज्ञानेन
प्रायश्चित्तेन वा संचितपापानां नाशे लक्षणं ज्ञापकं श्रुतिस्मृतिजातं विद्यते ॥ 5-76-11 कर्मणोऽन्यत्र पौरुषंविना अन्यत एकस्माद्दैवादेव वृत्तिर्जीविका
नास्ति । एवं बुद्धिः ईदृक्ज्ञानवान्सन् प्रवर्तेत पुरुषकारं कुर्यात् । तथा सति
उभयान्वये दैवपौरुषयोः संबन्धे फलं भवति नान्यतरत इत्यर्थः ॥ 5-76-13
अनुमात्राऽवधारणं निश्चय इत्यर्थः ॥ 5-76-14 प्रहीणरश्मिः निष्प्रभः । भावः
प्रारब्धं कर्म । अर्च्छेत् प्राप्नुयात् ॥ 5-76-17 ते कुरव इति संबन्धः ॥ 5-76- 5-76- 5-76-