अध्यायः 078

श्रीकृष्णेन अर्जुनंप्रति दण्डार्हे सुयोधने शमकरणस्य दुश्शकत्वाभिधानपूर्वकं युधिष्ठिरगौरवेण स्वस्य तदर्थं प्रयतनकथनम् ॥ 1 ॥

श्रीभगवानुवाच ।
एवमेतन्महाबाहो यथा वदसि पाण्डव । पाण्डवानां कुरूणां च प्रतिपत्स्ये निरामयम् ।
सर्वं त्विदं ममायत्तं बीभत्सो कर्मणोर्द्वयोः ॥
क्षेत्रं हि रसवच्छुद्धं कर्मणैवोपपादितम् ।
ऋते वर्षान्न कौन्तेय जातु निर्वर्तयेत्फलम् ॥
तत्र वै पौरुषं ब्रूयुरासेकं यत्र कारितम् ।
तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम् ॥
तदिदं निश्चित्तं बुद्ध्या पूर्वैरपि महात्मभिः ।
दैवे च मानुषे चैव संयुक्तं लोककारणम् ॥
अहं हि तत्करिष्यामि परं पुरुषकारतः ।
देवं तु न मया शक्यं कर्म कर्तुं कथंचन ॥
स हि धर्मं च लोकं च त्यक्त्वा चरति दुर्मतिः ।
न हि सन्तप्यते तेन तथारूपेण कर्मणा ॥
तथापि बुद्धिं पापिष्ठां वर्धयन्त्यस्य मन्त्रिणः ।
शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा ॥
स हि त्यागेन राज्यस्य न शमं समुपैष्यति ।
अन्तरेण वधं पार्थ सानुबन्धः सुयोधनः ॥
न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट् ।
याच्यमानश्च राज्यं स न प्रजास्यति दुर्मतिः ॥
न तु मन्ये स तद्वाच्यो यद्युधिष्ठिरशातनम् ।
उक्तं प्रयोजनं यत्तु धर्मराजेन भारत ॥
तथा पापस्तु तत्सर्वं न करिष्यति कौरवः ।
तस्मिंश्चाक्रियमाणेऽसौ लोके वध्यो भविष्यति ॥
मम चापि स वध्यो हि जगतश्चापि भारत ।
तेन कौमारके यूयं सर्वे विप्रकृताः सदा ॥
विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना ।
न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे ॥
असकृच्चाप्यहं तेन त्वत्कृते पार्थ भेदितः ।
न मया तद्गृहीतं च पापं तस्य चिकीर्षेतम् ॥
जानासि हि महाबाहो त्वमप्यस्य परं मतम् ।
प्रियं चिकीर्षमाणं च धर्मराजस्य मामपि ॥
संजानंस्तस्य चात्मानं मम चैव परं मतम् ।
अजानन्निव मां कस्मादर्जुनाद्याभिशङ्कसे ॥
यच्चापि परमं दिव्यं तच्चाप्यनुगतं त्वया ।
विधानं विहितं पार्थ कथं शर्म भवेत्परैः ॥
यत्तु वाचा मया शक्यं कर्मणा वाऽपि पाण्डव ।
करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः ॥
कथं गोहरणे ह्युक्तो नैतच्छर्म तथा हितम् ।
याच्यमानो हि भीष्मेण संवत्सरगतेऽध्वनि ॥
तदैव ते पराभूता यदा सङ्कल्पितास्त्वया ।
लवशः क्षणशश्चापि न च तुष्टः सुयोधनः ॥
सर्वथा तु मया कार्यं धर्मराजस्य शासनम् ।
विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि अष्टसप्ततितमोऽध्यायः ॥

5-78-1 द्वयोः कर्मणोः शमयुद्धयोर्मध्ये इदं अनामयम् ॥ 5-78-4 संयुक्तं आहितम् । लोककारणं लोकहितसाधनम् ॥ 5-78-17 दिव्यं विधानं भूभारापहारार्थं स्वर्गाद्देवानामवतरणम् ॥ 5-78-18 आशंसे संभावयामि ॥ 5-78-19 भीष्मेण एतच्छर्म याच्यमानोपि सः हितं कथं नोक्तः अपितु उक्तः । संवत्सरगते गतसंवत्सरे ॥ 5-78-20 संकल्पिताः वध्यत्वेन निश्चिताः ॥ 5-78-21 विभाव्यं विचारणीयम् ॥