अध्यायः 080

सहदेवेन श्रीकृष्णंप्रति कुरूणां शमाभिसन्धावपि युद्धपक्षस्यैव स्थापनकथनम् ॥ 1 ॥ सात्यकिना सहदेवपक्षानुमोदने योधानां सर्षात्सिंहनादः ॥ 2 ॥

सहदेव उवाच ।
यदेतत्कथितं राज्ञा धर्म एष सनातनः ।
यथा च युद्धमेव स्यात्तथा कार्यमरिन्दम ॥
यदि प्रसममिच्छेयुः कुरवः पाण्डवैः सह ।
तथापि युद्धं दाशार्ह योजयेथाः सहैव तैः ॥
कथं नु दृष्ट्वा पाञ्चालीं तथा कृष्ण सभागताम् ।
अवधेन प्रशाम्येत मम मन्युः सुयोधने ॥
यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः ।
धर्ममुत्सृज्य तेनाहं योद्धुमिच्छामि संयुगे ॥
ब्रूहि मद्वचनं कृष्ण सुयोधनमपण्डितम् ।
कृच्छ्रे वने वा वस्तव्यं पुरे वा नागसाह्वये ॥
सात्यकिरुवाच ।
सत्यमाह महाबाहो सहदेवो महामतिः ।
दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत् ॥
न जानासि यथा दृष्ट्वा चीराजिनधरान्वने ।
तवापि मन्युरुद्धूतो दुःखितान्प्रेक्ष्य पाण्डवान् ॥
तस्मान्माद्रीसुतः शूरो यदाह रणकर्कशः ।
वचनं सर्वयोधानां तन्मतं पुरुषोत्तम ॥
वैशंपायन उवाच ।
एवं वदि वाक्यं तु युयुधाने महामतौ ।
सुभीमः सिंहनादोऽभूद्योधानां तत्र सर्वशः ॥
सर्वे हि सर्वशो वीरास्तद्वचः प्रत्यपूजयन् ।
साधुसाध्विति शैनेयं हर्षयन्तो युयुत्सवः ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि अशीतितमोऽध्यायः ॥

5-80-4 यदि यद्यपि भीमादयो धार्मिकाः स्युः तथापि अहं धर्ममुत्सृज्य तेन सह योद्धृमिच्छामि ॥