अध्यायः 090

श्रीकृष्णस्य कुन्तीसमीपगमनम् ॥ 1 ॥ कृष्णेन प्रत्येकं नामनिर्देशपूर्वकं युधिष्ठिरादिकुशलमापृच्छ्य स्वानुभूतदुःखानुस्मरेन शोचन्त्याः कुन्त्याः समाश्वासनम् ॥ 2 ॥ तथा कुन्तीसामन्त्र्य दुर्योधनगृहगमनम् ॥ 3 ॥

वैशंपायन उवाच ।
अथोपगम्य विदुरमपराह्णे जनार्दनः ।
पितृष्वसारं स पृथामभ्यगच्छदरिन्दमः ॥
सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम् ।
कण्ठे गृहीत्वा प्राक्रोशत्स्मरन्ती तनयान्पृथा ॥
तेषां सत्ववतां मध्ये गोविन्दं सहचारिणम् ।
चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत्मृथा ॥
साऽब्रवीत्कृष्णमासीनं कृतातिथ्यं युधां पतिम् ।
बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता ॥
एते बाल्यान्प्रभृत्येव गुरुशुश्रूषणे रताः । परस्परस्य सुहृदः संमताः समचेतसः ।
निकृत्या भ्रंशिता राज्याञ्जनार्हा निर्जनं गताः ॥
विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः ।
त्यक्त्वा प्रियमुखे पार्था रुदतीमपहाय माम् ॥
अहार्षुश्च वनं यान्तः समूलं हृदयं मम ।
अतदर्हा महात्मानः कथं केशव पाण्डवाः ॥
ऊषुर्महावने तात सिंहव्याघ्रगजाकुले ।
बाला विहीनाः पित्रा ते मया सततलालिताः ॥
अपश्यन्तश्च पितरौ कथमुषूर्महावने ।
शङ्खदुन्दुभिनिर्घोषैर्भृदङ्गैर्वेणुनिस्वनैः ॥
पाण्डवाः समबोध्यन्त बाल्यात्प्रभृति केशव ।
ये स्म वारणशब्देन हयानां हेषितेन च ॥
रथेनेमिनिनादैश्च व्यबोध्यन्त तदा गृहे ।
शङ्खभेरीनिनादेन वेणुवीणानुनादिना ॥
पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः ।
वस्त्रै रत्नैरलङ्कारैः पूजयन्तो द्विजन्मनः ॥
गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम् ।
अर्चितैरर्चनार्हैश्च स्तुवद्भिरभिनन्दिताः ॥
प्रासादाग्नेष्वबोध्यन्त राङ्खवाजिनशायिनः ।
क्रूरं च निनदं श्रुत्वा श्वापदानां महावने ॥
न स्मोपयान्ति निद्रां ते नतदर्हा जनार्दन ।
भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः ॥
स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन ॥
वन्दिमागधसूतैश्च स्तुवद्भिर्बोधिताः कथम् ॥
महावनेष्वबोध्यन्त श्वापदानां रुतेन च ।
ह्रीमात्सत्यधृतिर्दान्तो भूतानामनुकम्पिता ॥
कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते ।
अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च ॥
भरतस्य दिलीपस्य शिबेरौशीनरस्य च ।
राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम् ॥
शीलवृत्तोपसंपन्नोः धर्मज्ञः सत्यसङ्गरः ।
राजा सर्वगुणोपेतस्त्रौलोक्यस्यापि यो भवेत् ॥
अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः । श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः ।
प्रियदर्शो दीर्घभुजः कथं कृष्ण युधिष्ठिरः ॥
यः स नागायुतप्राणो वातरंहा महाबलः ।
सामर्षः पाण्डवो नित्यं प्रियो भ्रातुः प्रियंकरः ॥
कीचकस्य तु सज्ञातेर्यो हन्ता मधुसूदन ।
शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च ॥
पराक्रमे शक्रसमो मातरिश्वसमो बले ।
महेश्वरसमः क्रोधे भीमः प्रहरतां वरः ॥
क्रोधं बलममर्षं च यो निधाय परंतपः ।
जितात्मा पाण्डवोऽमर्षी भ्रातुस्तिष्ठति शासने ॥
तेजोराशिं महात्मानं वरिष्ठमभितौजसम् ।
भीमं प्रदर्शनेनापि भीमसेनं जनार्दन ॥
तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः ।
आस्ते परिघबाहुः स मध्यमः पाण्डवो बली ॥
अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा ।
द्विबाहुः स्पर्धते नित्यमतीतेनापि केशव ॥
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः ।
इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः ॥
तेजसाऽऽदित्यसदृशो महर्षिसदृशो दमे ।
क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः ॥
आधिराज्यं महद्दीप्तं प्रथितं मधुसूदन ।
आहृतं येन वीर्येण कुरूणां सर्वराजसु ॥
यस्य बाहुबलं सर्वे पाण्डवाः पर्युपासते ।
स सर्वरथिनां श्रेष्ठः पाण्डवः सत्यविक्रमः ॥
यं गत्वाऽभिमुखः सङ्ख्ये न जीवन्तश्चिदाव्रजेत् ।
यो जेता सर्वभूतानामजेयो जिष्णुरच्युत ॥
योऽपाश्रयः पाण्डवानां देवानामिव वासवः ।
स ते भ्राता सखा चैव कथमद्य धनञ्जयः ॥
दयावान्सर्वभूतेषु ह्रीनिषेवो महास्रवित् ।
मृदुश्च सुकुमारश्च धार्मिकश्च प्रियश्च मे ॥
सहदेवो महेष्वासः शूरः समितिशोभनः ।
भ्रातृणां कृष्ण शुश्रूषुर्धर्मार्थकुशलो युवा ॥
सदैव सहदेवस्य भ्रातरो मधुसूदन ।
वृत्तं कल्याणवृत्तस्य पूजयन्ति महात्मनः ॥
ज्येष्ठोपचायिनं वीरं सहदेवं युधां पतिम् ।
शुश्रूषुं मम वार्ष्णेय माद्रीपुत्रं प्रचक्ष्व मे ॥
सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः ।
भ्रातॄणां चैव सर्वेषां प्रियः प्राणो बहिश्चरः ॥
चित्रयोधी च नकुलो महेष्वासो महाबलः ।
कच्चित्स कुशली कृष्ण वत्सो मम सुखैधितः ॥
सुखोचितमदुःखार्हं सुकुमारं महारथम् ।
अपि जातु महाबाहो पश्येयं नकुलं पुनः ॥
पक्ष्मसंपातजे काले नकुलेन विनाकृता ।
न लभामि धृतिं वीर साऽद्य जीवामि पश्य माम् ॥
सर्वैः पुत्रैः प्रियतरा द्रौपदी मे जनार्दन ।
कुलीना रूपसंपन्ना सर्वैः समुदिता गुणैः ॥
पुत्रलोकात्पतिलोकं वृण्वाना सत्यवादिनी ।
प्रियान्पुत्रान्परित्यज्य पाण्डवाननुरुध्यते ॥
महाभिजनसंपन्ना सर्वकामैः सुपूजिता ।
ईश्वरी सर्वकल्याणी द्रौपदी कथमच्युत ॥
पतिभिः पञ्चभिः शूरैरग्निकल्पैः प्रहारिभिः ।
उपपन्ना महेष्वासैर्द्रौपदी दुःखभागिनी ॥
चतुर्दशमिदं वर्षं यन्नापश्यमरिन्दम ।
पुत्रादिभिः परिद्यूनां द्रौपदीं सत्यवादिनीम् ॥
न नूनं कर्मभिः पुण्यैरश्रुते पुरुषः सुखम् ।
द्रौपदी चेत्तथावृत्ता नाश्रुते सुखमव्ययम् ॥
न प्रियो मम कृष्णाया बीभत्सुर्न युधिष्ठिरः ।
भीमसेनो यमौ वापि यदपश्यं सभागताम् ॥
न मे दुःखतरं किंचिद्भूतपूर्वं ततोऽधिकम् ।
स्त्रीधर्मिणीं द्रौपदीं यच्छ्वशुराणां समीपगाम् ॥
आनायितामनार्येण क्रोधलोभानुवर्तिना ।
सर्वे प्रैक्षन्त कुरव एकवस्त्रां सभागताम् ॥
तत्रैव धृतराष्ट्रश्च महाराजश्च बाह्लिकः ।
कृपश्च कसोमदत्तश्च निर्विष्णाः कुरवस्तथा ॥
तस्यां संसदि सर्वेषां क्षत्तारं पूजयाम्यहम् ।
वृत्तेन हि भवत्यार्यो न धनेन न विद्यया ॥
तस्य कृष्ण महाबुद्धेर्गम्भीरस्य महात्मनः ।
क्षत्तुःक शीलमलङ्कारो लोकान्विष्टभ्य तिष्ठति ॥
वैशंपायन उवाच ।
सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दमागतम् ।
नानाविधानि दुःखानि सर्वाण्येवान्वकीर्तयम् ॥
पूर्वैराचरितं यत्तत्कुराजभिररिन्दम ।
अक्षद्यूतं मृगवधः कच्चिदेषां सुखावहम् ॥
तन्मां दहति यत्कृष्णा सभायां कुरुसन्निधौ ।
धार्तराष्ट्रैः परिक्लिष्टा यथा न कुशलं तथा ॥
निर्वासनं च नगरात्प्रव्रज्या च परन्तप ।
नानाविधानां दुःखानामावासोऽस्मि जनार्दन ॥
अज्ञातचर्या बालानामवरोधश्च माधव ।
न मे क्लेशतमं तत्स्यात्पुत्रैः सह परन्तप ॥
दुर्योधनेन निकृता वर्षमद्य चतुर्दशम् ।
दुःखादपि सुखं नः स्याद्यदि पुण्यफलक्षयः ॥
न मे विशेपो जात्वासीद्धार्तराष्ट्रेषु पाण्डवैः । तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम् ।
अस्माद्विमुक्तं सङ्ग्रामात्पश्येयं पाण्डवैः सह ॥
नैव शक्याः पराजेतुं सर्वं ह्येषां तथाविधम् ।
पितरं त्वेव गर्हेयं नात्मानं न सुयोधनम् ॥
येनाहं कुन्तिभोजाय धनं वृत्तैरिवार्पिता ।
बालां मामार्यकस्तुभ्यं क्रीडन्तीं कन्दुहस्तिकां ॥
अदात्तु कुन्तिभोजाय सखा सख्ये महात्मने । साऽहं पित्रा च निकृता श्वशुरैश्च परन्तप ।
अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम ॥
यन्मां वागब्रवीन्नक्तं सूतके सव्यसाचिनः । पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत् ।
हत्वा कुरून्महाजन्ये राज्यं प्राप्य धनञ्जयः ।
भ्रातृभिः सह कौन्तेयस्त्रीन्मेधानाहरिष्यति ॥
नाहं तामभ्यसूयामि नमो धर्माय वेधसे ।
कृष्णाय महते नित्यं धर्मो धारयति प्रजाः ॥
धर्मश्चेदस्ति वार्ष्णेय यथा वागभ्यभाषत ।
त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि ॥
न मां माधव वैधव्यं नार्थनाशो न वैरिता ।
तथा शोकाय दहति यथा पुत्रैर्विना भवः ॥
याऽहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम् । धनञ्जयं न पश्यामि का शान्तिर्हृदयस्य मे ।
इतश्चतुर्दशं वर्षं यन्नापश्यं युधिष्ठिरम् ॥
धनञ्जयं च गोविन्द यमौ तं च वृकोदरम् ।
जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः ॥
अर्थतस्ते मम मृतास्तेषां चाहं जनार्दना ।
ब्रूया माधव राजानं धर्मात्मानं युधिष्ठिरम् ॥
भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः ।
पराश्रया वासुदेव या जीवति घिगस्तु ताम् ॥
वृत्तेः कार्पण्यलब्धाया अप्रतिष्ठैव ज्यायसी ।
अथो धनञ्जयं ब्रूया नित्योद्युक्तं वृकोदरम् ॥
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ।
अस्मिंश्चेदागते काले मिथ्या चातिक्रमिष्यति ॥
लोकसंभाविताः संतः सुनृशंसं करिष्यथ ।
नृशंसेन च वो युक्तांस्त्यजेयं शाश्वतीः समाः ॥
काले हि समनुप्राप्ते त्यक्तव्यमपि जीवनम् ।
माद्रीपुत्रौ च व्यक्तव्यौ क्षत्रधर्मरतौ सदा ॥
विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि ।
विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः ॥
मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम ।
गत्वा ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् ॥
अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर ।
विदितौ हि तवात्यन्तं क्रुद्धौ तौ तु यथान्तकौ ॥
भीमार्जुनौ नयेतां हि देवानपि परां गतिम् ।
तयोश्चैतदवज्ञानं यत्सा कृष्णा सभां गता ॥
दुःशासतश्च कर्णश्च परुषाण्यभ्यभाषताम् ।
दुर्योधनो भीमसेनमभ्यगच्छन्मनस्विनम् ॥
पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत्फलम् ।
न हि वैरं समासाद्य प्रशाम्यति वृकोदरः ॥
सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति ।
यावदन्तं न नयति शात्रवाञ्चत्रुकर्शनः ॥
न दुःखं राज्यहरणं न च द्यूते पराजयः ।
प्रव्राजनं तु पुत्राणां न मे तद्दुःखकारणम् ॥
यत्तु सा बृहती श्यामा एकवस्त्रा सभां गता ।
अशृणोत्परुषा वाचः किं नु दुःखतरं ततः ॥
स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा ।
नाभ्यगच्छत्तदा नाथं कृष्णा नाथवती सती ॥
यस्या मम सपुत्रायास्त्वं नाथो मधुसूदन ।
रामश्च बलिनां श्रेष्ठः प्रद्युम्नश्च महारथः ॥
साऽहमेवंविधं दुःखं सहेयं पुरुषोत्तम ।
भीमे जीवति दुर्धर्षे विजये चापलायिनि ॥
वैशंपायन उवाच ।
तत आश्वासयामास पुत्राधिभिरभिप्लुताम् ।
पितृष्वसारं शोचन्तीं शौरिः पार्थसखः पृथाम् ॥
वासुदेव उवाच ।
का नु सीमन्तिनी त्वादृग्लोकेष्वस्ति पितृष्वसः ।
शूरस्य राज्ञो दुहिता आजमीढकुलं गता ॥
महाकुलीना भवती ह्रदाद्ध्रदमिवागता ।
ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता ॥
वीरसूर्वीरपत्नी त्वं सर्वैः समुदिता गुणैः ।
मुखदुःखे महाप्राज्ञे त्वादृशी सोढुमर्हति ॥
निद्रातन्द्रे क्रोधहर्षौ क्षुत्पिपासे हिमातपौ ।
एतानि पार्था निर्जित्य नित्यं वीरसुखे रताः ॥
त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः ।
न तु स्वल्पेन तुष्येयुर्महोत्साहा महाबलाः ॥
अन्तं धीरा निषेवन्ते मध्यं ग्राम्यसुखप्रियाः ।
उत्तमांश्च परिक्लेशान्भोगांश्चातीव मानुषान् ॥
अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे ।
अन्तप्राप्तिं सुखं प्राहुर्दुःखमन्तरमन्तयोः ॥
अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया ।
आत्मानं ते कुशलिनं निवेद्याहुरनामयम् ॥
अरोगान्सर्वसिद्धार्थान्क्षिप्रं द्रक्ष्यसि पाण्डवान् ।
ईश्वरान्सर्वलोकस्य हतामित्राञ्श्रिया वृतान् ॥
एवमाश्वासिता कुन्ती प्रत्युवाच जनार्दनम् ।
पुत्राधिभिरभिध्वस्ता निगृह्याबुद्धिजं तमः ॥
कुन्त्युवाच ।
यद्यत्तेषां महाबाहो पथ्यं स्यान्मधुसूदन ।
यथायथा त्वं मन्येथाः कुर्याः कृष्ण तथातथा ॥
अविलोपेन धर्मस्य अनिकृत्या परन्तप ।
प्रभावज्ञाऽस्मि ते कृष्ण सत्यस्याभिजनस्य च ॥
व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस्तथा ।
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं तपो महत् ॥
त्वं त्राता त्वं महद्ब्रह्म त्वयि सर्वं प्रतिष्ठितम् ।
यथैवात्थ तथैवैतत्त्वयि सत्यं भविष्यति ॥
` कुरूणां पाण्डवानां च लोकानां चापराजित । सर्वस्यैतस्य वार्ष्णेय गतिस्त्वमसि माधव ।
प्रभावो बुद्धिवीर्यं च तादृशं तव केशव ॥'
वैशंपायन उवाच ।
तामामन्त्र्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम् ।
प्रातिष्ठत महाबाहुर्दुर्योधनगृहान्प्रति ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि नवतितमोऽध्यायः ॥

5-90-6 प्रियं राज्यादि । सुखं भोगोत्थ आह्लादः ॥ 5-90-21 प्रियो दर्शो दर्शनं यस्य ॥ 5-90-48 तथावृत्ता पुण्यशीला ॥ 5-90-59 अवरोधः राज्यप्रदानरूपो वृत्तिनिरोधः ॥ 5-90-60 यदि सुखं पुण्यक्षयरूपं अर्थाद्दुःखं पापक्षयरूपं तर्हि दुःखात्पापक्षयहेतोस्तत्सुखं नः अस्माकं स्यात् । तथा च न वयं दुःखाद्भयं प्राप्नुम इत्यर्थः ॥ 5-90-61 अस्मात् भाविनः कुरुपाण्डवसंग्रामात् ॥ 5-90-62 सर्वं वृत्तम् । एषां पाण्डवानां तथाविधं अविषमम् ॥ 5-90-63 वृत्तैर्वदान्यत्वेन ख्यातैर्धनं यथा अक्लेशेनार्प्यते तद्वत् येनाहमर्पिता । वृत्तोऽतीते दृढे ख्याते इति विश्वः । आर्यकः पितामहः । तुभ्यं तव ॥ 5-90-66 महाजन्ये महायुद्धे । मेधान् अश्वमेधान् ॥ 5-90-75 अतिक्रमिष्यति अयुद्धेनेत्यर्थः ॥ 5-90-102 अनिकृत्या अच्छलेन ॥