अध्यायः 092

रात्रौ विदुरेण श्रीकृष्णंप्रति भीष्मादिसमाश्रयणेन गर्वितस्य दुर्योधनस्य दौश्शील्याभिलपनपूर्वकं तस्मिन् सामवचनस्य नैष्फल्यकथनम् ॥ 1 ॥ तथा दुष्टभूयिष्ठसभाप्रवेशस्य स्वानभिमतत्वकथनम् ॥ 2 ॥

वैशंपायन उवाच ।
तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत् ।
नेदं सम्यग्व्यवसितं केशवागमनं तव ॥
अर्थधर्मातिगो मन्दः संरम्भी च जनार्दन ।
मानघ्नो मानकामश्च वृद्धानां शासनातिगः ॥
धर्मशास्त्रातिगो मूढो दुरात्मा प्रग्रहं गतः ।
अनेयः श्रेयसां मन्दो धार्तराष्ट्रो जनार्दन ॥
कामात्मा प्राज्ञमानी च मित्रध्रुक्सर्वशङ्किता ।
अकर्ता चाकृतज्ञश्च त्यक्तधर्मा प्रियानृतः ॥
मूढश्वाकृतबुद्धिश्च इन्द्रियाणामनीश्वरः ।
कामानुसारी कृत्येषु सर्वेष्वकृतनिश्चयः ॥
एतैश्चान्यैश्च बहुभिर्दोषैरेव समन्वितः ।
त्वयोच्यमानः श्रेयोऽपि संरम्भान्न ग्रहीष्यति ॥
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे ।
भूयसीं वर्तते वृत्तिं न शमे कुरुते मनः ॥
निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन ।
भीष्मद्रोणमुखान्पार्था न शक्ताः प्रतिवीक्षितुम् ॥
सेनासमुदयं कृत्वा पार्थिवं मधुसूदन ।
कृतार्थं मन्यते बाल आत्मानमविचक्षणाः ॥
एकः कर्णः पराञ्जेतुं समर्थ इति निश्चितम् ।
धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति ॥
संविच्च धार्तराष्ट्राणां सर्वेषामेव केशव ।
शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः ॥
न पाण्डवानामस्माभिः प्रतिदेयं यथोचितम् ।
इति व्यवसितास्तेषु वचनं स्यान्निरर्थकम् ॥
यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन ।
न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः ॥
अविजानत्सु मूढेषु निर्मर्यादेषु माधव ।
तत्त्वं वाक्यं ब्रुवन्निन्द्यश्चण्डालेषु द्विजो यथा ॥
सोऽयं बलस्थो मूढश्चन करिष्यति ते वचः ।
तस्मिन्निरर्थकं वाक्यमुक्तं संपत्स्यते तव ॥
तेषां समुपविष्टानां सर्वेषां पापचेतसाम् ।
तव मध्यावतरणं मम कृष्ण न रोचते ॥
दुर्बुद्धीनामशिष्टानां बहूनां दुष्टचेतसाम् ।
प्रतीपं वचनं मध्ये तव कृष्ण न रोचते ॥
अनुपासितवृद्धत्वाच्छ्रियो दर्पाच्च मोहितः ।
वयोदर्पादमर्षाच्च न ते श्रेयो ग्रहीष्यति ॥
बलं बलवदप्यस्य यदि वक्ष्यसि माधव ।
त्वय्यस्य महती शङ्का न करिष्यति ते वचः ॥
नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः ।
इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन ॥
तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु ।
समर्थमपि ते वाक्यमसमर्थं भविष्यति ॥
मध्ये तिष्ठन्हस्त्यनीकस्य मन्दो रथाश्वयुक्तस्य बलस्य मूढः ।
दुर्योधनो मन्यते बीतभीतिः कृत्स्ना मयेयं पृथिवी जितेति ॥
आशंसते वै धृतराष्ट्रस्य पुत्रो महाराज्यमसपत्नं पृथिव्याम् ।
तस्मिञ्शमः केवलो नोपलभ्यो बद्धं सन्तं मन्यते लब्धमर्थम् ॥
पर्यस्तेयं पृथिवी कालपक्वा दुर्योधनार्थे पाण्डवान्योद्धुकामाः ।
समागताः सर्वयोधाः पृथिव्यां राजानश्च क्षितिपालैः समेताः ॥
सर्वे चैते कृतवैराः पुरस्ता- त्त्वया राजानो हृतसाराश्च कृष्ण ।
तवोद्वेगात्संश्रिता धार्तराष्ट्रा- न्सुसंहताः सह कर्णेन वीराः ॥
त्यक्तात्मानः सह दुर्योधनेन हृष्टा योद्धुं पाण्डवान्सर्वयोधाः ।
` मृत्युर्जयो वेति कृतैकभावाः कामात्मानो मन्युवशाविनीताः ॥' तेषां मध्ये प्रविशेथा यदि त्वं न तन्मतं मम दाशार्हवीर ॥
तेषां समुपविष्टानां बहूनां दुष्टचेतसाम् ।
कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन ॥
सर्वथा त्वं महाबाहो देवैरपि दुरुत्सहः ।
प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन् ॥
या मे प्रीतिः पाण्डवेषु भूयःक सा त्वयि माधव ।
प्रेम्णा च बहुमानाच्च सौहृदाच्च ब्रवीम्यहम् ॥
या मे प्रीतिः पुष्कराक्ष त्वद्दर्शनसमुद्भवा ।
सा किमाख्यायते तुभ्यमन्तरात्माऽसि देहिनां ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि द्विनवतितमोऽध्यायः ॥

5-92-3 प्रग्रहं निर्बन्धं अत्यन्ताभिनिवेशमित्यर्थः । अनेयः अप्रापणीयः । श्रेयसां श्रेयांसि ॥ 5-92-4 सर्वशङ्किता सर्वत्र विश्वासहीनः ॥ 5-92-7 वृत्तिं जीविकाम् । एते युद्धेन मह्यं राज्यं दास्यन्तीत्याशयेत्यर्थः ॥ 5-92-9 पार्थिवं पृथ्वीसंबन्धिनम् ॥ 5-92-12 प्रतिदेयं परावृत्यदेयं । व्यवसिताः निश्चिताः ॥ 5-92-18 ते त्वत्तः ॥ 5-92-23 वद्धं स्थिरां ॥