अध्यायः 104

नारदेन आर्यकंप्रति पौत्रार्थं मातलिकन्यापरिग्रहचोदनम् ॥ 1 ॥ आर्यकेण नारदंप्रति सुमुखजनकं भक्षितवता वैनतेयेन मासान्तरे सुमुखभक्षणप्रतिज्ञानिवेदनम् ॥ 2 ॥ मातलिना तार्क्ष्यात्सुमुखरिरक्षया सुमुखनारदाभ्यां सह शक्रसमीपगमनम् ॥ 3 ॥ नारदेन मातालेकार्यं विज्ञापितेन विष्णुना सुमुखाय अमृतवितरणाज्ञापनेपि इन्द्रेण अमृताप्रदानेनैव दीर्घायुर्दानम् ॥ 4 ॥ मातलिना सुमुखाय स्वकन्यां प्रदाय विवाहनिर्वर्तनम् ॥ 5 ॥

कण्व उवाच ।
मातलेर्वचनं श्रुत्वा नारदो मुनिसत्तमः ।
अब्रवीद्देवराजं तमार्यकं कुरुनन्दन ॥
सूतोऽयं मातलिर्नाम शक्रस्य दयितः सुहृत् ।
शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान्बली ॥
शक्रस्यायं सखा चैव मन्त्री सारथिरेव च ।
अल्पान्तरप्रभावश्च वासवेन रणे रणे ॥
अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम् ।
देवासुरेषु युद्धेषु मनसैव नियच्छति ॥
अनेन विजितानश्वैर्दोर्भ्यां जयति वासवः ।
अनेन बलभित्पूर्वं प्रहृते प्रहरत्युत ॥
अस्य कन्या वरारोहा रूपेणासदृशी भुवि ।
सत्यशीलगुणोपेता गुणकेशीति विश्रुता ॥
तस्यास्य यत्नाच्चरतस्त्रैलोक्यममरद्युते ।
सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः ॥
यदि ते रोचते सम्यग्भुजगोत्तम मा चिरम् ।
क्रियतामार्यक क्षिप्रं बुद्धिः कन्यापरिग्रहे ॥
यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः ।
कुले तव तथैवास्तु गुणकेशी सुमध्यमा ॥
पौत्रस्यार्थे भवांस्तस्माद्गुणकेशीं प्रतीच्छतु ।
सदृशीं प्रतिरूपस्य वासवस्य शचीमिव ॥
पितृहीनमपि ह्येनं गुणतो वरयामहे ।
बहुमानाच्च भवतस्तथैवैरावतस्य च ॥
सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः । अभिगम्य स्वयं कन्यामयं दातुं समुद्यतः ।
मातलिस्तस्य संमानं कर्तुमर्हो भवानपि ॥
कण्व उवाच ।
स तु दीनः प्रहृष्टश्च प्राह नारदमार्यकः ।
व्रियमाणे तथा पौत्रे पुत्रे च निधनं गते ॥
आर्यक उवाच ।
मन्ये नैतद्बहुमतं महर्षे वचनं तव । सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत् ।
कारणस्य तु दौर्बल्याच्चिन्तयामि महामुने ॥
अस्य देहकरस्तात मम पुत्रो महाद्युते ।
भक्षितो वैनतेयेन दुःखार्तास्तेन वै वयम् ॥
पुनरेव च तेनोक्तं वैनतेयेन गच्छता ।
मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो ॥
ध्रुवं तथा तद्भविता जानीमस्तस्य निश्चयम् ।
तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै ॥
कण्व उवाच ।
मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया ।
जामातृभावेन वृतः सुमुखस्तव पुत्रजः ॥
सोऽयं मया च सहितो नारदेन च पन्नगः ।
त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम् ॥
शेषेणैवास्य कार्येण प्रज्ञास्वाम्यहमायुषः ।
सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम ॥
सुमुखश्च मया सार्धं देवेशमिगच्छतु ।
कार्यसंसाधनार्थाय स्वस्ति तेऽस्तु भुजङ्गम ॥
`कण्व उवाच ।
आर्यकेणाभ्यनुज्ञाता गम्यतामिति भारत ।' ततस्ते सुमुखं गृह्य सर्व एव महौजसः ।
ददृशुः शक्रमासीनं देवराजं महाद्युतिम् ॥
सङ्गत्या तत्र भगवान्विष्णुरासीच्चतुर्भुजः ।
ततस्तत्सर्वमाचख्यौ नारदो मातलिं प्रति ॥
वैशंपायन उवाच ।
ततः पुरन्दरं विष्णुरुवाच भुवनेश्वरम् ।
अमृतं दीयतामस्मै क्रियताममरैः समः ॥
मातलिर्नारदश्चैव सुमुखश्चैव वासव ।
लभन्तां भवतः कामात्काममेतं यथेप्सितम् ॥
पुरन्दरोऽथ संचिन्त्य वैनतेयपराक्रमम् ।
विष्णुमेवाब्रवीदेनं भवानेव ददात्विति ॥
विष्णुरुवाच ।
ईशस्त्वं सर्वलोकानां चराणामचराश्च ये ।
त्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो ॥
प्रादाच्छक्रस्ततस्तस्मै पन्नगायायुरुत्तमम् ।
न त्वेनममृतप्राशं चकार बलवृत्रहा ॥
लब्ध्वा वरं तु सुमुखः सुमुखः संबभूव ह ।
कृतदारो यथाकामं जगाम च गृहान्प्रति ॥
नारदस्त्वार्यकश्चैव कृतकार्यौ मुदा युतौ ।
अभिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चतुरधिकशततमोऽध्यायः ॥

5-104-20 अस्यायुषः शेषेण कार्येण प्रज्ञास्यामि विज्ञापयिष्यामि ॥