अध्यायः 007

दुर्योधनार्जुनयोः कृष्णदर्शनाय यदृच्छया युगपत् द्वारकागमनम् ॥ 1 ॥ अर्जुनेन सारथ्येन वरयित्वा तेन सह युधिष्ठिरसमीपगमनम् ॥ 2 ॥ दुर्योधनेन नारायणाह्वयकृष्णकुमारानादाय कृतवर्मणासह स्वपुरगमनम् ॥ 3 ॥

वैशंपायन उवाच ।
पुरोहितं ते प्रस्थाप्य नगरं नागसाह्वयम् ।
दूतान्प्रस्थापयामासुः पार्थिवेभ्यस्ततस्ततः ॥
प्रस्थाप्य दूतानन्यत्र द्वारकां पुरुषर्षभः ।
स्वयं जगाम कौरव्यः कुन्तीपुत्रो धनञ्जयः ॥
गते द्वारवतीं कृष्ण बलदेवे च माधवे ।
सह वृष्ण्यन्धकैः सर्वैर्भोजैश्च शतशस्तदा ॥
सर्वमागमयामास पाण्डवानां विचेष्टितम् ।
धृतराष्ट्रात्मजो राजा गूढैः प्रणिहितैश्चरैः ॥
स श्रुत्वा माधवं यान्तं सदश्वैरनिलोपमैः ।
बलेन नातिमहता द्वारकामभ्ययात्पुरीम् ॥
तमेव दिवसं चापि कौन्तेयः पाण्डुनन्दनः ।
आनन्रतनगरीं रम्यां जगामाशु धनञ्जयः ॥
तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ ।
सुप्तं ददृशतुः कृष्णं शयानं चाभिजग्मतुः ॥
दुर्योधनस्तु प्रथमं वासुदेवमुपाश्रयत् ।
उच्छीर्षतश्च कृष्णस्य निषसाद वरासने ॥
ततः किरीटी तस्यानु प्रविवेश महामनाः ।
पश्चार्धे तु स कृष्णस्य प्रह्वोऽतिष्ठत्कृताञ्जलिः ॥
प्रतिबुद्धः स वार्ष्णेयो ददर्शाग्रे किरीटिनाम् ।
सिंहासनगतं पश्चात्परिवृत्य च दृष्टवान् ॥
स तयोः स्वागतं कृत्वा यथावत्प्रतिपूज्य तौ ।
तदागमनजं हेतुं पप्रच्छ मधुसूदनः ॥
ततो दुर्योधनः कृष्णामुवाच प्रहसन्निव ।
विग्रहेऽस्मिन्भवान्साह्यं मम दातुमिहार्हति ॥
समं हि भवतः सख्यं मम चैवार्जुनेऽपि च ।
तथा संबन्धकं तुल्यमस्माकं त्वयि माधव ॥
अहं चाभिगतं सन्तो भजन्ते पूर्वसारिणः ॥ त्वं च श्रेष्ठतमो लोके सतामद्य जनार्दन ।
सततं संमतश्चैव सद्वृत्तमनुपालय ॥
कृष्ण उवाच ।
भवानभिगतः पूर्वमत्र मे नास्ति संशयः ।
दृष्टस्तु प्रथमं राजन्मया पार्थो धनञ्जयः ॥
तव पूर्वाभिगमनात्पूर्वं चाप्यस्य दर्शनात् ।
साहाय्यमुभयोरेव करिष्यामि सुयोधन ॥
प्रवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः ।
तस्मात्प्रवारणं पूर्वमर्हः पार्थो धनञ्जयः ॥
मत्संहननतुल्यानां गोपानामर्बुदं महत् ।
नारायणा इति ख्याताः सर्वे संग्रामयोधिनः ॥
ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः ।
अयुध्यमानः संग्रामे न्यस्तशस्त्रोऽहमेकतः ॥
आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम् ।
तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः ॥
` एतद्विदित्वा कौन्तेय विचार्य च पुनः पुनः । तान्वा वरय साहाय्ये मां साचिव्येऽथवा पुनः '
वैशंपायन उवाच ।
एवमुक्तस्तु कृष्णेन कुन्तीपुत्रे धनञ्जयः ।
अयुध्यमानं संग्रामे वरयामास केशवम् ॥
नारायणममिघ्नं कामाज्जातमजं नृषु ।
सर्वक्षत्रस्य पुरतो देवदानवयोरपि ॥
दुर्योधनस्तु तत्सैन्यं सर्वमावरयत्तदा ।
सहस्राणां महस्रं तु योधानां प्राप्य भारत ॥
कृष्णं चापहृतं ज्ञात्वा संप्राप परमां मुदम् ।
दुर्योधनस्तु तत्सैन्यं सर्वमादाय पार्थिवः ॥
ततोऽभ्ययाद्भीमबलो रौहिणेयं महाबलम् । सर्वं चागमने हेतुं स तस्मै संन्यवेदयत् ।
प्रत्युवाच ततः शौरिर्धार्तराष्ट्रमिदं वचः ॥
बलदेव उवाच ।
विदितं ते नरव्याघ्र सर्वं भवितुमर्हति ।
यन्मयोक्तं विराटस्य पुरा वैवाहिके तदा ॥
निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन ।
मया संबन्धकं तुल्यमिति राजन्पुनःपुनः ॥
न च तद्वाक्यमुक्तं वै केशवं प्रत्यपद्यत ।
न चाहमुत्सहे कृष्णं विना स्थातुमपि क्षणम् ॥
नाहं सहायः पार्थस्य नापि दुर्योधनस्य वै ।
इति मे निश्चिता बुद्धिर्वासुदेवमवेक्ष्य ह ॥
जातोऽसि भारते वंशे सर्वपार्थिवपूजिते ।
गच्छ युध्यस्व धर्मेण क्षात्रेण पुरुषर्षभ ॥
वैशंपायन उवाच ।
इत्येवमुक्तस्तु तदा परिष्वज्य हलायुधम् ।
कृष्णं चापि महाबाहुमामन्त्र्य भरतर्षभ ॥
सोऽभ्ययात्कृतवर्माणं धृतराष्ट्रसुतो नृपः ।
कृतवर्मा ददौ तस्य सेनामक्षौहिणीं तदा ॥
स तेन सर्वसैन्येन भीमेन कुरुनन्दनः ।
वृतः परिययौ हृष्टः सुहृदः संप्रहर्षयन् ॥
ततः पीताम्बरधरो जगत्स्रष्टा जनार्दनः ।
गते दुर्योधने कृष्णः किरीटिनमथाब्रवीत् ॥
अयुध्यमानः कां बृद्धिमास्थायाहं वृतस्त्वया ।
अर्जुन उवाच ।
भवान्समर्थस्तान्सर्वान्निहन्तुं नात्र संशयः ।
निहन्तुमहमष्येकः समर्थः पुरुषर्षभः ॥
भवांस्तु कीर्तिमाँल्लोके तद्यशस्त्वां गमिष्यति ।
यशसां चाहमप्यर्थी तस्मादसि मया वृतः ॥
सारथ्यं तु त्वया कार्यमिति मे मानसं सदा ।
चिररात्रेप्सितं कामं तद्भवान्कर्तुमर्हति ॥
वासुदेव उवाच ।
उपपन्नमिदं पार्थ यत्स्पर्धसि मया सह ।
सारथ्यं ते करिष्यामि कामः संपद्यतां तव ॥
वैशंपायन उवाच ।
एवं प्रमुदितः पार्थः कुष्णेन सहितस्तदा ।
वृतो दाशार्हप्रवरैः पुनरायाद्युधिष्ठिरम् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि सप्तमोऽध्यायः ॥

5-7-10 प्रवारणं ईप्सितसादानम् । पूर्वमर्हः त्वत्तः कनिष्ठत्वादित्यर्थः ॥ 10 ॥