अध्यायः 116

हर्यश्वपृष्टेन गालवेन तं प्रति शुल्कनिवेदनम् ॥ 1 ॥ हर्यश्वेन गालवंप्रति स्वस्याश्वशतद्वयवत्तया वरदाने सति एकापत्योत्पादनेन पुनः कन्याविसर्जनोक्तिः ॥ 2 ॥ माधव्या गालवंप्रति स्वस्य प्रसूत्यन्ते प्रसूत्यन्ते पुनः पुनः कन्यात्वसंपादकविप्रवरप्राप्तिकथनम् ॥ 3 ॥ हर्यश्वेन शुक्लदानेन तस्यां वसुमनोनामकपुत्रोत्पादनम् ॥ 4 ॥ हर्यश्वेन कालान्तरे समागताय गालवाय पुनर्माधवीप्रत्यर्पणम् ॥ 5 ॥ गालवेन कामतः पुनः कन्यात्वमुपगतया तया सह दिवोदाससमीपगमनम् ॥ 6 ॥

नारद उवाच ।
हर्यश्वस्त्वब्रवीद्राजा विचिन्त्य बहुधा ततः ।
दीर्घमुष्णं च निश्वस्य प्रजाहेतोर्नृपोत्तमः ॥
उन्नतेषून्नता षट्सु सूक्ष्मा सूक्ष्मेषु पञ्चसु ।
गम्भीरा त्रिषु चाङ्गेषु इयं रक्ता च पञ्चसु ॥
`श्रोण्यौ ललाटमूरू च घ्राणं चेति षडुन्नतम् । सूक्ष्माण्यङ्गुलिपर्वाणि केशरोमनस्वत्वचः ।
स्वरः सत्वं च नाभिश्च त्रिगम्भीरं प्रचक्षते ।
पाणिपादतले रक्ते नेत्रान्तौ च नखानि च ॥
पञ्चदीर्घं चतुर्ह्रस्वं पञ्चसूक्ष्मं षडुन्नतम् ।
सप्तरक्तं त्रिविस्तीर्णं त्रिगम्भीरं प्रशकस्यते ॥
पञ्चैव दीर्घा हनुलोचनानि बाहूरुनासाश्च सुखप्रदानि ।
ह्रस्वानि चत्वारि च लिङ्गपृष्ठे ग्रीवा च जङ्घे च हितप्रदानि ॥
सूक्ष्माणि चत्वारि च लिङ्गपृष्ठे ग्रीवा च जङ्घे च हितप्रदानि ॥
सूक्ष्माणि पञ्च दशनाङ्गुलिपर्वकेशा स्त्वक्वैव वै कररुहाश्च न दुःखितानाम् ।
वक्षोऽथ कक्षो नखनासिकास्यु- रंसत्रिकं चेति षडुन्नतानि ॥
नेत्रान्तपादकरताल्वधरोष्ठजिह्वा रक्ता नखाश्च खलु सर्वसुखावहानि ॥'
बहुदेवासुरालोका बहुगन्धर्वदर्शना ।
बहुलक्षणसंपन्ना बहुकल्याणधारिणी ॥
समर्थेयं जनयितुं चक्रवर्तिनमात्मजम् ।
ब्रूहि शुल्कं द्विजश्रेष्ठ समीक्ष्य विभवं मम ॥
गालव उवाच ।
एकतःश्यामकर्णानां शतान्यष्टौ प्रयच्छ मे ।
हयानां चन्द्रशुभ्राणां देशजानां वपुष्मताम् ॥
ततस्तव भवित्रीयं पुत्राणां जननी शुभा ।
अरणीव हुताशानां योनिरायतलोचना ॥
नारद उवाच ।
एतच्छ्रुत्वा वचो राजा हर्यश्वः काममोहितः ।
उवाच गालवं दीनो राजर्षिर्ऋषिसत्तमम् ॥
द्वे मे शते संनिहिते हयानां यद्विधास्तव ।
एष्टव्याः शतशस्त्वन्ये चरन्ति मम वाजिनः ॥
सोऽहमेकमपत्यं वै जनयिष्यामि गालव ।
अस्यामेतं भवान्कामं संपादयतु मे वरम् ॥
एतच्छ्रुत्वा तु सा कन्या गालवं वाक्यमब्रवीत् ।
मम दत्तो वरः कश्चित्केनचिद्ब्रह्मवादिना ॥
प्रसूत्यन्ते प्रसूत्यन्ते कन्यैव त्वं भविष्यसि ।
स त्वं ददस्व मां राज्ञे प्रतिगृह्य हयोत्तमान् ॥
नृपेभ्यो हि चतुर्भ्यस्ते पूर्णान्यष्टौ शतानि वै ।
भविष्यन्ति तथा पुत्रा मम चत्वार एव च ॥
क्रियतामुपसंहारो गुर्वर्थं द्विजसत्तम ।
एषा तावन्मम प्रज्ञा यथा वा मन्यसे द्विज ॥
एवमुक्तस्तु स मुनिः कन्यया गालवस्तदा ।
हर्यश्वं पृथिवीपालमिदं वचनमब्रवीत् ॥
इयं कन्या नरश्रेष्ठ हर्यश्व प्रतिगृह्यताम् ।
चतुर्भागेन शुल्कस्य जनयस्वैकमात्मजम् ॥
नारद उवाच ।
प्रतिगृह्य स तां कन्यां गालवं प्रतिनन्द्य च ।
समये देशकाले च लब्धवान्सुतमीप्सितम् ॥
ततो वसुमना नाम वसुभ्यो वसुमत्तरः ।
वसुप्रख्यो नरपतिः स बभूव वसुप्रदः ॥
अथ काले पुनर्धीमान्गालवः प्रत्युपस्थितः ।
उपसङ्गम्य चोवाच हर्यश्वं प्रीतमानसम् ॥
जातो नृप सुतस्तेऽयं बालो भास्करसंनिभः ।
कालो गन्तुं नरश्रेष्ठ शुल्कार्थमपरं नृपम् ॥
नारद उवाच ।
हर्यश्वः सत्यवचने स्थितः स्थित्वा च पौरुषे ।
दुर्लभत्वाद्धयानां च प्रददौ माधवीं पुनः ॥
माधवी च पुनर्दीप्तां परित्यज्यनृपश्रियम् ।
कुमारी कामतो भूत्वा गालवं पृष्ठतोऽन्वगात् ॥
त्वय्येव तावत्तिष्ठन्तु हया इत्युक्तवान्द्विजः ।
प्रययौ कन्यया सार्धं दिवोदासं प्रजेश्वरम् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि षोडशाधिकशततमोऽध्यायः ॥

5-116-9 बहुभिर्देवैरसुरैश्च आलोकयितुं योग्या बहुदेवासुरालोका । गन्धर्वाणां दर्शनं शास्त्रं गीतादिविद्या यस्यां सा तथा ॥