अध्यायः 124

धृतराष्ट्रेण श्रीकृष्णंप्रति दुर्योधनानुनयप्रार्थन ॥ 1 ॥ श्रीकृष्णेन दुर्योधनानुनयः ॥ 2 ॥

धृतराष्ट्र उवाच ।
भगवन्नेवमेवैतद्यथा वदसि नारद ।
इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम् ॥
वैशंपायन उवाच ।
एवमुक्त्वा ततः कृष्णमभ्यभाषत कौरवः ।
स्वर्ग्यं लोक्यं च मामात्थ धर्म्यं न्याय्यं च केशव ॥
न त्वहं स्ववशस्तात क्रियमाणं न मे प्रियम् । `न मंस्यन्ते दुरात्मानः पुत्रा मम जनार्दन ॥'
अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम ।
अनुनेतुं महाबाहो यतस्व पुरुषोत्तम ॥
न श्रृणोति महाबाहो वचनं साधु भाषितम् । गान्धार्याश्च हृषीकेश विदुरस्य च धीमतः ।
अन्येषां चैव सुहृदां भीष्मादीनां हितैषिणाम् ॥
स त्वं पापमतिं क्रूरं पापचित्तमचेतनम् ।
अनुशाधि दुरात्मानं स्वयं दुर्योधनं नृपम् ॥
सुहृत्कार्यं तु सुमहत्कृतं ते स्याञ्जनार्दन ॥
वैशंपायन उवाच ।
ततोऽभ्यावृत्य वार्ष्णेयो दुर्योधनममर्षणम् ।
अब्रवीन्मधुरां वाचं सर्वधर्मार्थतत्त्ववित् ॥
दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम ।
शर्मार्थं ते विशेषेण सानुबन्धस्य भारत ॥
महाप्रज्ञकुले जातः साध्वेतत्कर्तुमर्हसि ।
श्रुतवृत्तोपसंपन्नः सर्वैः समुदितो गुणैः ॥
दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः ।
त एतदीदृशं कुर्युर्यथा त्वं तात मन्यसे ॥
धर्मार्थयुक्ता लोकेऽस्मिन्प्रवृत्तिर्लक्ष्यते सताम् । असतां विपरीता तु लक्ष्यते भरतर्षभ ।
विपरीता त्वियं वृत्तिरसकृल्लक्ष्यते त्वयि ॥
अधर्मश्चानुबन्धोऽत्र घोरः प्राणहरो महान् ।
अनिष्टश्चानिमित्तश्च न च शक्यश्च भारत ॥
तमनर्थं परिहरन्नात्मश्रेयः करिष्यसि ।
भ्रातॄणामथ भृत्यानां मित्राणां च परन्तप ॥
अधर्म्यादयशस्याच्च कर्मणस्त्वं प्रमोक्ष्यसे ॥
प्राज्ञैः शूरैर्महोत्साहैरात्मवद्भिर्बहुश्रुतैः । सन्धत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ ।
तद्धितं च प्रियं चैव धृतराष्ट्रस्य धीमतः ॥
पितामहस्य द्रोणस्य विदुरस्य महामतेः ।
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः ॥
अश्वत्थाम्नो विकर्णस्य सञ्जयस्य विविंशतेः ।
ज्ञातीनां चैव भूयिष्ठं मित्राणां च परन्तप ॥
शमे शर्म भवेत्तात सर्वस्य जगतस्तथा । ह्रीमानसि कुले जातः श्रुतवानानृशंस्यवान् ।
तिष्ठ तात पितुः शास्त्रे मातुश्च भरतर्षभ ॥
एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत ।
उक्तमापद्गतः पूर्वं पितुः स्मरसि शासनम् ॥
रोचते ते पितुस्तात पाण्डवैः सह सङ्गमः ।
सामात्यस्य कुरुश्रेष्ठ तत्तुभ्यां तात रोचताम् ॥
श्रुत्वा यः सुहृदां शास्त्रं मर्त्यो न प्रतिपद्यते ।
विपाकान्ते दहत्येनं किंपाकमिव भक्षितम् ॥
यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते ।
स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते ॥
यस्तु न्निःश्रेयसं श्रुत्वा प्राक्तदेवाभिपद्यते ।
आत्मनो मतमुत्सृज्य स लोके सुखमेधते ॥
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते ।
शृणोति प्रतिकूलानि द्विषतां वशमेति सः ॥
सतां मतमतिक्रम्य योऽसतां वर्तते मते ।
शोचन्ते व्यसने तस्य सुहृदो नचिरादिव ॥
मुख्यानमात्यानुत्सृज्य यो निहीनान्निषेवते ।
स घोरामापदं प्राप्य नोत्तारमधिगच्छति ॥
योऽसत्सेवी वृथाचारो न श्रोता सुहृदां सताम् ।
परान्वृणीति स्वान्द्वेष्टि तं गौस्त्यजति भारत ॥
तत्वं विरुद्धा तैर्वीरैस्येतत्राणमिच्छसि ।
अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ ॥
को हि शक्रसमाञ्ज्ञातीनतिक्रम्य महारथान् ।
अन्येभ्यस्त्राणमाशंसेत्त्वदन्यो भुवि मानवः ॥
जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया ।
न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः ॥
मिथ्योपचरितास्तात जन्मप्रभृति बान्धवाः ।
त्वयि सम्यङ्भहाबाहो प्रतिपन्ना यशस्विनः ॥
त्वयाऽपि प्रतिपत्तव्यं तथैव भरतर्षभ ।
स्वेषु बन्धुषु मुख्येषु मा मन्युवशमन्वगाः ॥
त्रिवर्गयुक्तः प्राज्ञानामारम्भो भरतर्षभ ।
धर्मार्थावनुरुद्ध्यन्ते त्रिवर्गासंभवे नराः ॥
पृथक्व विनिविष्टानां धर्मं धीरोऽनुरुध्यते ।
मध्यमोऽर्थं कलिं बालः काममेवानुरुद्ध्यते ॥
इन्द्रियैः प्राकृतो लोभाद्धर्मं विप्रजहाति यः ।
कामार्थावनुपायेन लिप्समानो विनश्यति ॥
कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत् ।
न हि धर्मादपैत्यर्थः कामो वाऽपि कदाचन ॥
उपायं धर्ममेवाहुस्त्रिवर्गस्य विशांपते ।
लिप्समानो हि तेनाशु कक्षेऽग्निरिव वर्धते ॥
स त्वं तातानुपायेन लिप्ससे भरतर्षभ ।
आधिराज्यं महद्दीप्तं प्रथितं सर्वराजसु ॥
आत्मानं तक्षति ह्येष वनं परशुना यथा । यः सम्यग्वर्तमानेषु मिथ्या राजन्प्रवर्तते ।
न तस्य हि मतिं छिन्द्याद्यस्य नेच्छेत्पराभवम् ॥
अविच्छिन्नमतेरस्य कल्याणे धीयते मतिः ।
आत्मवान्नावमन्येत त्रिषु लोकेषु भारत ॥
अप्यन्यं प्राकृतं कञ्चित्किमु तान्पाण्डवर्षभान् ।
अमर्षवशमापन्नो न किंचिद्बुद्व्यते जनः ॥
छिद्यते ह्याततं सर्वं प्रमाणं पश्य भारत ।
श्रेयस्ते दुर्जनात्तात पाण्डवैः सह सङ्गतम् ॥
तैर्हि संप्रीपमाणस्त्वं सर्वान्कामानवाप्स्यसि ।
पाण्डवैर्निर्मितां भूमिं भुञ्जानो राजसत्तम ॥
पाण्डवान्पृष्ठतः कृत्वा त्राणमाशससऽन्वतः ।
दुःशासने दुर्विषहे कर्णे चापि ससौबले ॥
एतेष्वैश्वर्यमाधाय भूतिमिच्छसि भारत ।
न चैते तव पर्याप्ता ज्ञाने धर्मार्थयोस्तथा ॥
विक्रमे चाप्यपर्याप्तः पाण्डवान्प्रति भारत ।
न हीमे सर्वराजानः पर्याप्ताः सहितास्त्वया ॥
क्रुद्धस्य भीमसेनस्य प्रेक्षितुं मुखमाहवे ।
इदं सनिहितं तात समग्रं पार्थिवं बलम् ॥
अयं भीष्मस्तथा द्रोणः कर्णश्चायं तथा कृपः ।
भूरिश्रवाः सौमदत्तिरश्वत्थामा जयद्रथः ॥
अशक्ताः सर्व एवैते प्रतियोद्धुं धनञ्जयम् । अजेयो ह्यर्जुनः सङ्ख्ये सर्वैरपि सुरासुरैः ।
मानुषैरपि गन्धर्वैर्मा युद्धे चेत आधिथाः ॥
दृश्यतां वा पुमान्कश्चित्समग्रे पार्थिवे बले ।
योऽर्जुनं समरे प्राप्य स्वस्तिमानाव्रजेद्गृहान् ॥
किं ते जनक्षयेणेह कृतेन भरतर्षभ ।
यस्मिञ्चिते जितं ते स्यात्पुमानेकः स दृश्यतां ॥
यः सदेवान्सगन्धर्वान्सयक्षासुरपन्नगान् ।
अजयत्खाण्डवप्रस्थे कस्तं युद्धेय मानवः ॥
तथा विराटनगरे श्रूयते महदद्भुतम् ।
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ॥
युद्धे येन महादेवः साक्षात्सन्तोषितः शिवः । तमजेयमनाधृष्यं विजेतुं जिष्णुमच्युतम् ।
आशंससीह समरे वीरमर्जुनमूर्जितम् ॥
मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमर्हति ।
युद्धे प्रतीपमायान्तमपि साक्षात्पुरन्दरः ॥
बाहुभ्यामुद्वहेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः ।
पातयेत्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् ॥
पश्य पुत्रांस्तथा भ्रातॄञ्ज्ञातीन्संबन्धिनस्तथा ।
त्वत्कृते न विनश्येयुरिमे भरतसत्तमाः ॥
अस्तु शेषं कौरवाणां मा पराभूदिदं कुलम् ।
कुलघ्न इति नोच्येथा नष्टकीर्तिर्नराधिप ॥
त्वामेव स्थापयिष्यन्ति यौवराज्ये महारथाः ।
महाराज्येऽपि पितरं धृतराष्ट्रं जनेश्वरम् ॥
मा तात श्रियमायान्तीमवमंस्थाः समुद्यताम् ।
अर्धं प्रदाय पार्थेभ्यो महतीं श्रियमाप्नुहि ॥
पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः ।
संप्रीयमाणो मित्रैश्च चिरं भद्राण्यवाप्स्यसि ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चतुर्विंशत्यधिकशततमोऽध्यायः ॥

5-124-19 शास्त्रे शासने ॥ 5-124-22 किंपाकं महाकालफलम् ॥ 5-124-24 निःश्रेयसं कल्याणम् ॥ 5-124-28 गौः भूमिः ॥ 5-124-32 उपचरिताः प्रचारिताः ॥ 5-124-35 अर्थं कलि कलहहेतम ॥ 5-124-36 अनुपायन हीनोपायेन ॥ 5-124-44 निर्मितां वशीकरणेनोत्पादिताम् ॥ 5-124-52 यस्मिन्नर्जुने जिते सति ते तव जितं जयः स्यात् ॥