अध्यायः 008

पाण्डवान्प्रत्यागच्छतः शल्यस्य मार्गे भ्रमाहुर्योधनसभाप्रवेशः ॥ 1 ॥ तद्भुत्यकृतोपचारतुष्टेन तेन पारितोषिकदाने प्रति श्रुते गूढेनसता दुर्योधनेन प्रकटीभूय साहाय्यवरणम् ॥ 2 ॥ पाण्डवानुपगम्य दुर्योधनवञ्चनां कथितवता शल्येन युधिष्ठिराभ्यर्थनया कर्णस्य सारथ्यकरणेन तेजोवधकरणप्रतिज्ञानम् ॥ 3 ॥

वैशंपायन उवाच ।
शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः ।
अभ्यात्पाण्डवान्राजन्सह पुत्रैर्महारथैः ॥
तस्य सेनानिवेशोऽभूदध्वर्धमिव योजनम् ।
तथा हि विपुलां सेनां बिभर्ति स नरर्षभः ॥
अक्षौहिणीपती राजन्महावीर्यपराक्रमाः ।
विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः ॥
विचित्राभरणाः सर्वे विचित्ररथवाहनाः ।
विचित्रस्रग्धराः सर्वे विवित्राम्बरभूषणाः ॥
स्वदेशवेषाभरणा वीराः शतसहस्रशः ।
तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः ॥
व्यथयन्निव भूतानि कम्पयन्निव मेदिनीम् ।
शनैर्विश्रामयन्सेनां स ययौ यत्र पाण्डवः ॥
ततो दुर्योधनः श्रुत्वा महात्मानं महारथम् ।
उपायान्तमभिद्रुत्य स्वयमानर्च भरत ॥
कारयामास पूजार्थं तस्य दुर्योधनः सभाः ।
रमणीयेषु देशेषु रत्नचित्राः स्वलङ्कृताः ॥
शिल्पिभिर्विविधैश्चैव क्रीडास्तत्र प्रयोजिताः ।
तत्र माल्यानि मांसानि भक्ष्यं पेयं च सत्कृतम् ॥
कूपाश्च विविधाकारा औदकानि गृहाणि च ॥ स ताः सभाः समासाद्य पूज्यमानो यथाऽमरः ।
दुर्योधनस्य सचिवैर्देशे देशे समन्ततः ॥ आजगाम सभामन्यां देवावसथवर्चसम् ।
स तत्र विषयैर्युक्तैः कल्याणैरतिमानुषैः ॥ मेनेऽभ्यधिकमात्मानमवमेने पुरन्दरम् ।
पप्रच्छ स ततः प्रेष्यान्प्रहृष्टः क्षत्रियर्षभः ॥ युधिष्ठिरस्य पुरुषाः केऽत्र चक्रुः सभा इमाः ।
आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः ॥ प्रदेयमेषां दास्यामि कुन्तीपुत्रोऽनुमन्यताम् । 5-8-15a` ततः प्रहृष्टं राजानं ज्ञात्वा ते सचिवास्तदा' दुर्योधनाय तत्सर्वं कथयन्ति स्म विस्मिताः ॥
संप्रहृष्टो यदा शल्यो दिदित्सुरपि जीवितम् ।
गूढो दुर्योधनस्तत्र दर्शयामास मातुलम् ॥
तं दृष्ट्वा मद्रराजश्च ज्ञात्वा यत्नं च तस्य तम् ।
परिष्वज्याब्रवीत्प्रीत इष्टोऽर्थो ध्रियतामिति ॥
दुर्योधन उवाच ।
सत्यवाग्भव कल्याण वरो वै मम दीयताम् ।
सर्वसेनाप्रणेता वै भवान्भवितुमर्हति ॥
यथैव पाण्डवास्तुभ्यं तथैव भवतो ह्यहम् ।
अनुमान्यं च पाल्यं च भक्तं च भज मां विभो ॥
वैशंपायन उवाच ।
कृतमित्यब्रवीच्छल्यः किमन्यत्क्रियतामिति ।
कृतमित्येव गान्धारिः प्रत्युवाच पुनःपुनः ॥
शल्य उवाच ।
गच्छ दुर्योधन पुरं स्वकमेव नरर्षभ ।
अहं गमिष्ये द्रुष्टुं वै युधिष्ठिरमरिंदमम् ॥
दृष्ट्वा युधिष्ठिरं राजन्क्षिप्रमेष्ये नराधिप ।
अवश्यं चापि द्रष्टव्यः पाण्डवः पुरुषर्षभः ॥
दुर्योधन उवाच ।
क्षिप्रामागम्यतां राजन्पाण्डवं वीक्ष्य पार्थिव ।
त्वय्यधीनाः स्म राजेन्द्र वरदानं स्मरस्व नः ॥
शल्य उवाच ।
क्षिप्रमेष्यामि भद्रं ते गच्छस्व स्वपुरं नृप ।
` दृष्ट्वा तु पाण्डवान्राजन्न मिथ्या कर्तुमुत्सहे ॥
वैशंपायन उवाच ।
पर्यष्वजेतामन्योन्यं शल्यदुर्योधनावुभौ ॥
स तथा शल्यमामन्त्र्य पुरायात्स्वकं पुरम् ।
शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत् ॥
उपप्लाव्यं स गत्वा तु स्कन्धावारं प्रविश्य च ।
पाण्डवानथ तान्सर्वाञ्शल्यस्तत्र ददर्श ह ॥
चिरात्तु दृष्ट्वा राजानं मातुलं समितिञ्जयम् ।
आसनेभ्यः समुत्पेतुः सर्वे सहयुधिष्ठिराः ॥
तथा भीमार्जुनौ हृष्टौ स्वस्त्रीयौ च यमावुभौ ।
द्रौपदी च सुभद्रा च अभिमन्युश्च भारत ॥
समेत्य च महापाहुं शल्यं पाण्डुसुतस्तदा ।
पाद्यमर्घ्यं च गां चैव प्रतिग्राह्य पुरोधसा ॥
कताञ्जलिरदीनात्मा धर्मात्मा शल्यमब्रवीत् ।
स्वागतं तेऽस्तु वै राजन्नेतदासनमास्यताम् ॥
ततो न्यषीदच्छल्यश्च काञ्चने परमासने ।
तत्र पाद्यथार्घ्यं च न्यवेदयत पाण्डवः ॥
शल्य उवाच ।
दुःखस्यैतस्य महतो धार्तराष्ट्रकृतस्य वै ।
अवाप्स्यसि फलं राजन्हत्वा शत्रून्परन्तप ॥
विदितं ते महाराज लोकतन्त्रं नराधिप ।
तस्माल्लोककृतं किञ्चित्तव तात न विद्यते ॥
वैशंपायन उवाच ।
निवेद्य चार्घ्यं विधिवन्मद्रराजाय भारत ।
कुशलं पाण्डवोऽपृच्छच्छल्यं सर्वसुखावहम् ॥
स तैः परिवृतः सर्वैः पाण्डवैर्धर्मचारिभिः ।
आसने चोपविष्टः स शल्यः पार्थमथाब्रवीत् ॥
शल्य उवाच ।
कुशलं राजशार्दूल सर्वत्र कुरुनन्दन ।
अरण्यवासाद्दिष्ट्याऽसि विमुक्तो जयतां वर ॥
दुष्करं ते कृतं राजन्निर्जने गहने वने ।
भ्रातृभिः सह कौन्तेय कृष्णाया चानयाऽनघ ॥
अज्ञातवासं घोरं च वसता दुष्करं कृतम् ।
दुःखमेव कुतः सौख्यं राज्यभ्रष्टस्य भारत ॥
सत्ये तपसि दाने च तव बुद्धिर्युधिष्ठिर ।
क्षमा दमश्चाहिंसा च सत्यं चैव युधिष्ठिर ॥
अद्भुतश्च पुनर्लोकस्त्वयि राजन्प्रतिष्ठितः ।
मृदुर्वदान्यो ब्रह्मण्यो दान्तो धर्मपरायणः ॥
धर्मास्ते विदिता राजन्बहवो लोकसाक्षिकाः ।
सर्वं जगदिदं तात विदितं ते परन्तप ॥
मुदितश्च पुनर्लोकस्त्वयि राजन्प्रतिष्ठिते ।
दिष्ट्या कृच्छ्रमिदं राजन्पारितं भरतर्षभ ॥
दिष्ट्या पश्यामि राजेन्द्र धर्मात्मानं सहानुगम् ।
निस्तीर्णदुष्करं राजंस्त्वां धर्मनिचयं प्रभो ॥
वैशंपायन उवाच ।
ततोऽस्याकथयद्राजा दुर्योधनसमागमम् ।
तच्च शुश्रूषितं सर्वं वरदानं च भारत ॥
युधिष्ठिर उवाच ।
सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना ।
दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम् ॥
एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते ।
राजन्नकर्तव्यमपि कर्तुमर्हसि सत्तम ॥
मम त्ववेक्षया वीर शृणु विज्ञापयामि ते ।
भवानिह महाराज वासुदेवसमो युधि ॥
कर्णार्जुनाभ्यां संप्राप्ते द्वैरथे राजसत्तम ।
कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः ॥
तत्र पाल्योऽर्जुनो राजन्यदि मत्प्रियमिच्छसि । तेजोवधश्च ते कार्यः सौतेरस्मञ्जयावह्नः ।
अकर्तव्यमपि ह्येतत्कर्मुमर्हसि मातुल ॥
शल्य उवाच ।
श्रृणु पाण्डव भद्रं ते यद्ब्रवीषि महात्मनः ।
तेजोवधनिमित्तं मां सूतपुत्रस्य सङ्गमे ॥
अहं तस्य भविष्यामि सङ्घ्रामे सारथिर्ध्रुवम् ।
वासुदेवेन हि समं नित्यं मां सोऽभिमन्यतो ॥
तस्याहं कुरुशार्दूल प्रतीपमहितं वचः ।
ध्रुवं संकथयिष्यामि योद्धुकामस्य संयुगे ॥
यथा स हृतदर्पश्च हृततेजाश्च पाण्डव ।
भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते ॥
एवमेतत्करिष्यामि यथा तात त्वमात्थ माम् ।
यच्चान्यदपि शक्ष्यामि तत्करिष्यामि ते प्रियम् ॥
यच्च दुःखं त्वया प्राप्तं द्यूते वै कृष्णया सह ।
परुषाणि च वाक्यानि सूतपुत्रकृतानि वै ॥
जटासुरात्परिक्लेशः कीचकाच्च महाद्युते ।
द्रौपद्याऽधिगतं सर्वं दमयन्त्या यथाऽशुभम् ॥
सर्वं दुःखमिदं वीर सुखोदर्कं भविष्यति ।
नात्र मन्युस्त्वया कार्यो विधिर्हि बलवत्तरः ॥
दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर ।
देवैरपि हि दुःखानि प्राप्तानि जगतीपते ॥
इन्द्रेण श्रूयते राजन्सभार्येण महात्मना ।
अनुभूतं महद्दुःखं देवराजेन भारत ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि अष्टमोऽध्यायः ॥

5-8-27 उपप्लाव्यं विराटनगरस्य प्रदेशविशेषम् । स्कन्धावारं सेनानिवेशस्थानम् ॥ 5-8-53 प्रतीपं प्रसङ्गप्रतिकूलम् । अहितं परिणामविरुद्धम् ॥ 5-8-58 मन्युर्दैन्यम् ॥