अध्यायः 127

दुर्योधनेन श्रीकृष्णंप्रति स्वस्मिन्नपराधलेशोऽपि नास्तीति कथनम् ॥ 1 ॥ भीष्मादिरक्षितस्य स्वस्याजय्यत्वकथनपूर्वकं युद्धे निधनसंभवेऽपि पाण्डवेभ्यः सूच्यग्रपरिमितभूमेरप्यप्रदानवचनम् ॥ 2 ॥

वैशंपायन उवाच ।
श्रुत्वा दुर्योधनो वाक्यमप्रियं कुरुसंसदि ।
प्रत्युवाच महाबाहुं वासुदेवं यशस्विनम् ॥
प्रसमीक्ष्य भवानेतद्वक्तुमर्हति केशव ।
मामेव हि विशेषेण विभाष्य परिगर्हसे ॥
भक्तिवादेन पार्थानामकस्मान्मधुसूदन ।
भवान्गर्हयति नित्यं किं समीक्ष्य बलाबलम् ॥
भवान्क्षत्ता च राजा वाऽप्याचार्यो वा पितामहः ।
मामेव परिगर्हन्ते नान्यं कंचन पाण्डवम् ॥
न चाहं लक्षये कंचिद्व्यभिचारमिहात्मनः ।
अथ सर्वे भवन्तो मां विद्विषन्ति सराजकाः ॥
न चाहं कंचिदत्यर्थमपराधमरिन्दम ।
विचिन्तयन्प्रपश्यामि सुसूक्ष्ममपि केशव ॥
प्रियाभ्युपगते द्यूते पाण्डवा मधूसूदन ।
जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम् ॥
यत्पुनर्द्रविणं किंचित्तत्राजीयन्त पाण्डवाः ।
तेभ्य एवाभ्यनुज्ञातं तत्तद मधुसूदन ॥
अपराधो न चास्माकं यत्ते ह्यक्षैः पराजिताः ।
अजेया जयतां श्रेष्ठ पार्थाः प्रव्राजिता वनम् ॥
केन वाऽप्यपवादेन विरुद्ध्यन्त्यरिभिः सह ।
अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्रवत् ॥
किमस्माभिः कृतं तेषां कस्मिन्वा पुनरागसि ।
धार्तराष्ट्राञ्जिघांसन्ति पाण्डवाः सृञ्जयैः सह ॥
न चापि वयमुग्रेण कर्मणा वचनेन वा ।
प्रभ्रष्टाः प्रणमामेह भयादपि शतक्रतुम् ॥
न च तं कृष्ण पश्यामि क्षत्रधर्ममनुष्ठितम् ।
उत्सहेत युधा जेतुं यो नः शत्रुनिबर्हण ॥
न हि भीष्मकृपद्रोणाः सकर्णा मधुसूदन ।
देवैरपि युधा जेतुं शक्याः किमुत पाण्डवैः ॥
स्वधर्ममनुपश्यन्तो यदि माधव संयुगे ।
अस्त्रेण निधनं काले प्राप्स्यामः स्वर्ग्यमेव तत् ॥
मुख्यश्चैवैष नो धर्मः क्षत्रियाणां जनार्दन ।
यच्छयीमहि सङ्ग्रामे शरतल्पगता वयम् ॥
ते वयं वीरशयनं प्राप्स्यामो यदि संयुगे ।
अप्रणम्यैव शत्रूणां न नस्तप्स्यन्ति माधव ॥
कश्च जातु कुले जातः क्षत्रधर्मेण वर्तयन् ।
भयाद्वृत्तिं समीक्ष्यैवं प्रणमेदिह कर्हिचित् ॥
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् ।
अप्यपर्वणि भज्येत न नमेदिह कर्हिचित् ॥
इति मातङ्गवचनं परिप्सन्ति हितेप्सवः ।
धर्माय चैव प्रणमेद्ब्राह्मणेभ्यश्च मद्विधः ॥
अचिन्तयन्कंचिदन्यं यावज्जीवं तथा चरेत् ।
एष धर्मः क्षत्रियाणां मतमेतच्च मे सदा ॥
राज्यांशश्चाभ्यनुज्ञातो यो मे पित्रा पुराऽभवत् ।
न स लभ्यः पुनर्जातु मयि जीवति केशव ॥
यावच्च राजा ध्रियते धृतराष्ट्रो जनार्दन । न्यस्तशस्त्रा वयं ते वाऽप्युपजीवाम माधव ।
अप्रदेयं पुरा दत्तं राज्यं परवतो मम ॥
अज्ञानाद्वा भयाद्वाऽपि मयि बाले जनार्दन ।
न तदद्य पुनर्लभ्यं पाण्डवैर्वृष्णिनन्दन ॥
ध्रियमाणे महाबाहौ मयि संप्रति केशव । यावद्धि तीक्ष्णया सूच्या विद्ध्येदग्रेण केशव ।
तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि सप्तविंशत्यधिकशततमोऽध्यायः ॥

5-127-19 अपर्वणि अप्रस्तावे ॥ 5-127-20 मातंगः मुनिः ॥