अध्यायः 134

कुन्त्या विदुलोपाख्यानकथनम् ॥ 1 ॥

विदुलोवाच ।
अथैतस्यामवस्थायां पौरुषं हातुमिच्छसि ।
निहीनसेवितं मार्गं गमिष्यस्यचिरादिव ॥
यो हि तेजो यथाशक्ति न कर्शयति विक्रमात् ।
क्षत्रियो जीविताकाङ्क्षी स्तेन इत्येव तं विदुः ॥
अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च ।
नैव संप्राप्नुवन्ति त्वां मुमूर्षुमिव भेषजम् ॥
सन्ति वै सिन्धुराजस्य सन्तुष्टा न तथा जनाः ।
दौर्बल्यादासते मूढा व्यसतौघपतीक्षिणः ॥
सहायोपचितिं कृत्वा व्यवसाय्य ततस्ततः ।
अनुदुष्येयुरपरे पश्यन्तस्तव पौरुषम् ॥
तैः कृत्वा सह संघातं गिरिदुर्गालयं चर ।
काले व्यसनमाकाङ्क्षन्नैवायमजरामरः ॥
सञ्जयो नामतश्च त्वं न च पश्यामि तत्त्वयि ।
अन्वर्थनामा भव मे पुत्र मा व्यर्थनामकः ॥
सम्यग्दृष्टिर्महाप्राज्ञो बालं त्वां ब्राह्मणोऽब्रवीत् ।
अयं प्राप्य महत्कृच्छ्रं पुनर्वृद्धिं गमिष्यति ॥
तस्य स्मरन्ती वचनमाशंसे विजयं तव ।
तस्मात्तात ब्रवीमि त्वां वक्ष्यामि च पुनःपुनः ॥
यस्य ह्यर्थाभिनिर्वृत्तौ भवन्त्याप्यायिताः परे ।
तस्यार्थसिद्धिर्नियता नयेष्वर्थानुसारिणः ॥
समृद्धिरसमृद्धिर्वा पूर्वेषां मम सञ्जय ।
एवं विद्वान्युद्धमना भव मा प्रत्युपाहरः ॥
नातः पापीयसीं कांचिदवस्थां शम्बरोऽब्रवीत् ।
यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते ॥
पतिपुत्रवधादेतत्परमं दुःखमब्रवीत् ।
दारिद्र्यमिति यत्प्रोक्तं पर्यायमरणं हि तत् ॥
अहं महाकुले जाता ह्रदाद्ध्रदमिवागता ।
ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता ॥
महार्हमाल्याभरणां सुमृष्टाम्बरवाससम् ।
पुरा हृष्टः सुहृद्वर्गो मामपश्यत्सुहृद्गताम् ॥
यदा मां चैव भार्यां च द्रष्टासि भृशदुर्बलाम् ।
न तदा जीवितेनार्थो भविता तव सञ्जय ॥
दासकर्मकरान्भृत्यानाचार्यर्त्विक्पुरोहितान् ।
अवृत्त्याऽस्मान्प्रजहतो दृष्ट्वा किं जीवितेन ते ॥
यदि कृत्यं न पश्यामि तवाद्याहं यथा पुरा ।
श्लाघनीयं यशस्यं च का शान्तिर्हृदयस्य मे ॥
नेति चेद्ब्राह्मणं ब्रूयां दीर्येत हृदयं मम ।
न ह्यद न च मे भर्ता नेति ब्राह्मणमुक्तवान् ॥
वयमाश्रयणीयाः स्म न श्रोतारः परस्य च ।
अन्यमासाद्य जीवन्ती परित्यक्ष्यामि जीवितम् ॥
अपारे भव नः पारमप्लवे भव नः प्लवः ।
कुरुष्व स्थानमस्थाने मृतान्सञ्जीवयस्व नः ॥
सर्वे ते शत्रवः शक्या न चेञ्जीवितुमर्हसि ।
अथ चेदीदृशीं वृत्तिं क्लीबामभ्युपपद्यसे ॥
निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम् ।
एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम् ॥
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत ।
माहेन्द्रं च ग्रहं लेभे लोकानां चेश्वरोऽभवत् ॥
नाम विश्राव्य वै शङ्ख्ये शत्रूनाहूय दंशितान् ।
सेनाग्रं चापि विद्राव्य हत्वा वा पुरुषं वरम् ॥
यदैव लभते वीरः सुयुद्धेन महद्यशः ।
तदैव प्रव्यथन्तेऽस्य शत्रवो विनमन्ति च ॥
त्यक्त्वात्मानं रणे दक्षं शूरं कापुरुषा जनाः ।
अवशास्तर्पयन्ति स्म सर्वकामसमृद्धिभिः ॥
राज्यं चाप्युग्रवि भ्रंशं संशयो जीवितस्य वा ।
न लब्धस्य हि शत्रोर्वै शेषं कुर्वन्ति साधवः ॥
स्वर्गद्वारोपमं राज्यमथवाप्यमृतोपमम् ।
रुद्धमेकायनं मत्वा पतोल्मुक इवारिषु ॥
जहि शत्रून्रणे राजन्स्वधर्मनुपालय ।
मा त्वा दृशं सुकृपणं शत्रूणां भयवर्धनम् ॥
अस्मदीयैश्च शोचिद्भिर्नदद्भिश्च परैर्वृतम् ।
अपि त्वां नानुपश्येयं दीनाद्दीनमिवास्थितम् ॥
हृप्य सौवीरकन्याभिः श्लाघस्वार्थैर्यथा पुरा ।
मा च सैन्धवकन्यानामवसन्नो वशं गमः ॥
युवा रूपेण संपन्नो विद्ययाभिजनेन च ।
यत्त्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः ॥
अधुर्यवच्च वोढव्ये मन्ये मरणमेव तत् ।
यदि त्वामनुपश्यामि परस्य प्रियवादिनम् ॥
पृष्ठतोऽनुव्रजन्तं वा का शान्तिर्हृदयस्य मे । नास्मिञ्जातु कुले जातो गच्छेद्योन्यस्य पृष्ठतः ।
न त्वं परस्यानुचरस्तात जीवितुमर्हसि ।
अहं हि क्षत्रहृदयं वेद यत्परिशाश्वतम् ॥
पूर्वैः पूर्वतरैः प्रोक्तं परैः परतरैरपि ।
शाश्वतं चाव्ययं चैव प्रजापतिविनिर्मितम् ॥
यो वै कश्चिदिहाजातः क्षत्रियः क्षत्रधर्मवित् ।
भयाद्वृत्तिसमीक्षो वा न नमेदिह कस्यचित् ॥
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् ।
अप्यपर्वणि भज्येत न नमेतेह कस्यचित् ॥
मातङ्गो मत्त इव च परीयात्स महामनाः ।
ब्राह्मणेभ्यो नमेन्नित्यं धर्मायैव च सञ्जय ॥
नियच्छन्नितरान्वर्णान्विनिघ्नन्सर्वदुष्कृतः ।
ससहायोऽसहायो वा यावज्जीवं तथा भवेत् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चतुस्त्रिंशदधिकशततमोऽध्यायः ।

5-134-11 पूर्वेषां मम च युद्धे समृद्धिरसमृद्धिर्वाऽवश्यंभाविनीत्येव विद्वान् युद्धमना भव लाभालाभौ समौ कृत्वा युध्यस्त्वेति भावः । माप्रत्युपाहरः प्रत्युपहारं युद्धोपसंहारं माकार्षीरित्यर्थः ॥ 5-134-18 कृत्यं कर्तव्यं पराक्रमम् ॥ 5-134-20 श्रोतारः पराज्ञायाः ॥ 5-134-22 शक्याः जेतुमिति शेषः ॥ 5-134-23 निर्विण्णात्मा विरक्तचित्तः । यतो हतमना नष्टसंकल्पः । विश्रुतिं ख्यातिम् ॥ 5-134-24 ग्रहं सोमपात्रम् । प्रग्रहमिति पाठे नियमनं नियन्तृत्वमित्यर्थः ॥ 5-134-27 कापुरुषाः जनाः रणे आत्मानं देहं त्यक्त्वा रणे रक्षं शूरं समृद्धिभिस्तर्पयन्तिस्मेति संबन्धः ॥ 5-134-28 उग्रविभ्रंशं महाप्रपातम् । जीवितस्य संशयो मरणम् । लब्धस्य जितस्य । शेषं पुनः स्वल्पेन विभवेनावस्थापनम् ॥ 5-134-29 रुद्धं ग्रस्तं मत्वा एकायनं स्वर्गराज्ययोर्मध्ये एकं मार्गं पत गच्छ ॥ 5-134-30 शत्रूणां भयवर्धनं भयच्छेदनम् । अनुग्रत्वात् सुकृषणं दीनं त्वा त्वां मा दृशं माद्राक्षम् ॥ 5-134-32 हृष्य हर्षं प्राप्नुहि । सौवीरकन्याभिः स्वदारैः । माचेति । सैन्धवकन्यानां शत्रुदेशजकन्यानाम् ॥ 5-134-33 विकुर्वीत अपसरणं कुर्वीत ॥ 5-134-34 अधुर्यवत् अदान्तवृषभवत् । तत् विकारकरणम् ॥ 5-134-36 वेद वेद्मि । परिशाश्वतं सर्वथैवैकरूपम् । अक्षीणमित्यर्थः ॥ 5-134-37 अव्ययं अपक्षयहीनं क्षत्रहृदयं प्रोक्तमिति पूर्वेण संबन्धः ॥ 5-134-38 आजातः सम्यग्जातः कुले जात इत्यर्थः । य आजातः स भयात्कस्यचिन्न नमेत् । वृत्तिसमीक्षो वृत्तिं समीक्षमाणो वा न नमेत् ॥ 5-134-40 परीयात् पर्यटनं कुर्यात् ॥ 5-134-41 दुष्कृतः पापिष्टान् ॥