अध्यायः 009

शल्येन इन्द्रस्यापि दुःखानुभवे कथिते युधिष्ठिरपृच्छया तेन विस्तरेण तत्कथनोपक्रमः ॥ 1 ॥ इन्द्रजिघांसया त्वष्ट्रा सृष्टस्य त्रिशिरसो विश्वरूपस्य तपोभङ्गाय इन्द्रेण अप्सरसां प्रेषणम् ॥ 2 ॥ अप्सरोभिस्तस्याधर्षणीयत्वे ज्ञाते इन्द्रेण वज्रपातनात्तस्य हननम् ॥ 3 ॥ हतेपि तस्मिन् जीवतीव दृश्यमाने भयादिन्द्रप्रार्थनया यदृच्छया आगतेन तक्ष्णा तच्छिरश्छेदनम् ॥ 4 ॥ विश्वरूपहननकुपितेन त्वष्ट्रा पुनरिन्द्रवधाय वृत्रस्योत्पादनम् ॥ 5 ॥ वृत्रेणेन्द्रे पराजिते सेन्द्राणां देवानां विष्णुं प्रति गमनम् ॥ 6 ॥

युधिष्ठिर उवाच ।
कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना ।
दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम् ॥
शल्य उवाच ।
शृणु राजन्पुरावृत्तमितिहासं पुरातनम् ।
सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत ॥
त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः ।
स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात्किलासृजत् ॥
ऐन्द्रं स प्रार्थयत्स्थानं विश्वरूपो महाद्युतिः ।
तैस्त्रिभिर्वदनैर्घोरैः सूर्येन्दुज्वलनोपमैः ॥
वेदानेकेन सोऽधीते सुरामेकेन चापिबत् ।
एकेन च दिशः सर्वाः पिबन्निव निरीक्षते ॥
स तपस्वी मुदुर्दान्तो धर्मे तपसि चोद्यतः ।
तपस्तस्य महत्तीव्रं सुदुश्चरमरिन्दम ॥
तस्य दृष्ट्वा तपोवीर्यं सत्यं चामिततेजसः ।
विषादमगमच्छक्र इन्द्रोऽयं मा भवेदिति ॥
कथं सज्जेच्च भोगेषु न च तप्येन्महत्तपः ।
विवर्धमानस्त्रिशिराः सर्वं हि भुवनं ग्रसेत् ॥
इति संचिन्त्य बहुधा बुद्धिमान्भरतर्षभ ।
आज्ञापयत्सोऽप्सरसस्त्वष्टृपुत्रप्रलोभने ॥
यथा स सज्जेत्रिशिराः कामभोगेषु वै भृशम् ।
क्षिप्रं कुरुत गच्छध्वं प्रलोभयत माचिरम् ॥
शृङ्गारवेषाः सुश्रोण्यो हारैर्युक्ता मनोहरैः ।
हावभावसमायुक्ताः सर्वाः सौन्दर्यशोभिताः ॥
प्रलोभयत भद्रं वः शमयध्वं भयं मम ।
अस्वस्थं ह्यात्मनात्मानं लक्षयामि वराङ्गनाः ॥
भयं तन्मे महाघोरं क्षिप्रं नाशयताबलाः ।
अप्सरस ऊचुः ।
तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने ।
यथा नावाप्स्यसि भयं तस्माद्बलनिषूदन ॥
निर्दहन्निव चक्षुर्भ्यां योऽसावास्ते तपोनिधिः ।
तं प्रलोयितुं देव गच्छामः सहिता वयम् ॥
यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम् ।
शल्य उवाच ।
इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम् ।
तत्र ता विविधैर्भावैर्लोभयन्त्यो वराङ्गनाः ॥
नृत्तं संदर्शयामासुस्तथैवाङ्गेषु सौष्ठवम् ।
नाभ्यगच्छत्प्रहर्षं ताः स पश्यन्सुमहातपाः ॥
इन्द्रियाणि वशे कृत्वा पूर्णसागरसन्निभः ।
तास्तु यत्नं परं कृत्वा पुनः शक्रमुपस्थिताः ॥
कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन् ।
न स शक्यः सुदुर्धर्षो धैर्याच्चालयितुं प्रभो ॥
यत्ते कार्यं महाभाग क्रियतां तदनन्तरम् ।
संपूज्याप्सरसः शक्रो विसृज्य च महामतिः ॥
चिन्तयामास तस्यैव वधोपायं युधिष्ठिर ।
स तूष्णीं चिन्तयन्वीरो देवराजः प्रतापवान् ॥
विनिश्चितमतिर्धीमान्वधे त्रिशिरसोऽभवत् ।
वज्रमस्य क्षिपाम्यद्य स क्षिप्रं नभविष्यति ॥
शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा ।
शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम् ॥
अथ वैश्वानरनिभं घोररूपं भयावहम् ।
मुमोच वज्रं संक्रुद्धः शक्रस्त्रिशिरसं प्रति ॥
स पपात हतस्तेन वज्रेण दृढमाहतः ।
पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले ॥
तं तु वज्रहतं दृष्ट्वा शयानमचलोपमम् ।
न शर्म लेभे देवेन्द्रो दीपिततस्तस्य तेजसा ॥
हतोऽपि दीप्ततेजाः स जीवन्निव हि दृश्यते ।
घातितस्य शिरांस्याजौ जीवन्तीवाद्भुतानि वै ॥
` शिरांसि तस्याजायन्त त्रीण्येव शकुनास्त्रयः । तित्तिरिः कलविङ्कश्च तथैव च कपिञ्जलः ।
विश्वरूपशिरांस्येव जायन्ते तानि भारत ' ॥
ततोऽतिभीतगात्रस्तु शक्र आस्ते विचारयन् ।
अथाजगाम परशुं स्कन्धेनादाय वर्धकिः ॥
तदरण्यं महाराज यत्रास्तेऽसौ निपातितः ।
स भीतस्तत्र तक्षाणं घटमानं शचीपतिः ॥
अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः ।
क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम ॥
तक्षोवाच ।
महास्कन्धो भृशं ह्येष परशुर्नभविष्यति ।
कर्तुं चाहं न शक्ष्यामि कर्म राद्भिर्विगर्हितम् ॥
इन्द्र उवाच ।
मा भैस्त्वं शीघ्रमेतद्वै कुरुष्व वचनं मम ।
मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति ॥
तक्षोवाच ।
कं भवन्तमहं विद्यां घोरकर्माणमद्य वै ।
एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे ॥
इन्द्र उवाच ।
अहमिन्द्रो देवराजस्तक्षन्विदितमस्तु ते ।
कुरुष्वैतद्यथोक्तं मे तक्षन्माऽत्र विचारय ॥
` मया हि निहतः शेते त्रिशिरास्त्वं च विद्वि वै ।
वैशंपायन उवाच ।
स प्रह्वः प्राञ्जलिर्भूत्वा इदं वचनमब्रवीत्' ॥
क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा ।
ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते ॥
शक्र उवाच ।
पश्चाद्धर्मं चरिष्यामि पावनार्थ सुदुश्चरम् ।
शत्रुरेष महावीर्यो वज्रेण निहतो मया ॥
अद्यापि चाहमुद्विग्नस्तक्षन्नस्माद्बिभेमि वै ।
क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव ॥
शिरः पशोस्ते दास्यन्ति भागं यज्ञेषु मानवाः ।
एष तेऽनुग्रहस्तक्षन्क्षिप्रं कुरु मम प्रियम् ॥
शल्य उवाच ।
एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनात्तदा ।
शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत्तदा ॥
निकृत्तेषु ततस्तेषु निष्क्रामन्नण्डजास्त्वथ ।
कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः ॥
येन वेदानधीते स्म पिबते सोममेव च ।
तस्माद्वक्रार्द्विनिश्चेरुः क्षिप्रं तस्य कपिञ्जलाः ॥
येन सर्वा दिशो राजन्पिबन्निव नीरीक्षते ।
तस्माद्वक्राद्विनिश्चेरुस्तित्तिरास्तस्य पाण्डव ॥
यत्सुरापं तु तस्यासीद्वक्रं त्रिशिरसस्तदा ।
कलविङ्काः समुत्पेतुः श्येनाश्च भरतर्षभ ॥
ततस्तेषु निकृत्तेषु विज्वरो मघवानथ । `तक्ष्णे तथा वरं दत्त्वा प्रहृष्टस्त्रिदशेश्वरः ॥'
जगाम त्रिदिवं देवस्तक्षाऽपि स्वगृहान्ययौ ।
मेने कृतार्थमात्मानं हत्वा शत्रुं सुरारिहा ॥
` तक्षापि स्वगृहं गत्वा नैव शंसति कस्यचित् ।
अथैनं नाभिजानन्ति वर्षमेकं तथागतम् ॥
अथ संवत्सरे पूर्णे भूताः पशुपतेः प्रभो । तमाक्रोशन्त मघवान्नः प्रभुर्ब्रह्महा इति ।
तत इन्द्रो व्रतं घोरमाचरत्पाकशासनः ।
तपसा च सुसंयुक्तः सह देवैर्मरुद्गणैः ॥
समुद्रेषु पृथिव्यां च वनस्पतिषु स्त्रीषु च ।
विभज्य ब्रह्महत्यां च तान्वरैरप्ययोजयत् ॥
वरदस्तु वरं दत्त्वा पृथिव्यै सागराय च ।
वनस्पतिभ्यः स्त्रीभ्यश्च ब्रह्महत्यां नुनोद ताम् ॥
ततस्तु शुद्धो भगवान्देवैर्लोकैश्च पूजितः ।
इन्द्रस्थानमुपातिष्ठत्पूज्यमानो महर्षिभिः' ॥
त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथ हतं सुतम् ।
क्रोधसंरक्तनयन इदं वचनमब्रवीत् ॥
त्वष्टोवाच ।
तप्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम् ।
विनाऽपराधेन यतः पुत्रं हिंसितवान्मम ॥
तस्माच्छक्रविनाशाय वृत्रमुत्पादयाम्यहम् । लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महम् ।
स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः ॥
उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहायशाः ।
अग्नौ हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह ॥
इन्द्रशत्रो विवर्धस्व प्रभावात्तपसो मम ।
सोऽवर्घत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः ॥
किं करोमीति चोवाच कालसूर्य इवोदितः ।
शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः ॥
ततो युद्धं समभवद्वृत्रवासवयोर्महत् ।
संक्रुद्धयोर्महाघोरं प्रसक्तं कुरुसत्तम ॥
ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम् ।
अपावृत्याक्षिपद्वक्रे शक्रं कोपसमन्वितः ॥
ग्रस्ते वृत्रेण शक्रे तु संभ्रान्तास्त्रिदिवेश्वराः ।
असृजंस्ते महासत्वा जृम्भिकां वृत्रनाशिनीम् ॥
विजृम्भमाणस्य ततो वृत्रस्यास्यादपावृतात् ।
स्वान्यङ्गान्यभिसंक्षिप्य निष्क्रान्तो बलनाशनः ॥
ततः प्रभृति लोकस्य जृम्भिका प्राणिसंश्रिता ।
जहृषुश्च सुराः सर्वे शक्रं दृष्ट्वा विनिःसृतम् ॥
ततः प्रववृते युद्धं वृत्रवासवयोः पुनः ।
संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ ॥
यदा व्यवर्धत रणे वृत्रो बलसमन्वितः । त्वष्टुस्तेजोबलाविद्धस्तदा शक्रो न्यवर्तत ।
निवृत्ते च तदा देवा विषादमगमन्परम् ।
समेत्य सह शक्रेण त्वष्टुस्तेजोविमोहिताः ॥
अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत ।
किं कार्यमिति वै राजन्विचिन्त्य भयमोहिताः ॥
जग्मुः सर्वे महात्मानं मनोभिर्विष्णुमव्ययम् ।
उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि नवमोऽध्यायः ॥

5-9-11 हावाः शृङ्गारचेष्टाः । भावाः चित्तविकारा हर्षादयस्तर्युक्ताः ॥ 5-9-16 सौषवं सौन्दर्यम् । प्रहर्ष लब्धभोयोऽस्मीति तोषम् ॥ 5-9-28 वर्धकिः तक्षा ॥ 5-9-31 नभविष्यति नङ्क्ष्यति ॥ 5-9-56 ठपस्पृश्य आचम्य ॥ 5-9-60 अपावृत्य मुखं संप्रसार्य ॥