अध्यायः 135

कुन्त्या विदुलोपाख्यानकथनम् ॥ 1 ॥

पुत्र उवाच ।
कृष्णायसस्येव च ते संहत्य हृदयं कृतम् ।
मम मातस्त्वकरुणे वीरप्रज्ञे ह्यमर्षणे ॥
अहो क्षत्रसमाचारो यत्र मामितरं यथा ।
नियोजयसि युद्धाय परमातेव मां तथा ॥
ईदृशं वचनं ब्रूयाद्भवती पुत्रमेकजम् ।
किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया ॥
किमाभरणकृत्येन किं भोगैर्जीवितेन वा ।
मयि वा सङ्गरहते प्रियपुत्रे विशेषतः ॥
मातोवाच ।
सर्वावस्था हि विदुषां तात धर्मार्थकारणात् ।
तावेवाभिसमीक्ष्याहं सञ्जय त्वामचूजुदम् ॥
स समीक्ष्य क्रमोपेतो मुख्यः कालोऽयमागतः ।
अस्मिंश्चेदागते काले कार्यं न प्रतिपद्यसे ॥
असंभावितरूपस्त्वमानृशंस्यं करिष्यसि ।
तं त्वामयशसा स्पृष्टं न ब्रूयां यदि सञ्जय ॥
खरीवात्सल्यमाहुस्तन्निःसामर्थ्यमहेतुकम् ।
सद्भिर्विगर्हितं मार्गं त्यज मूर्खनिषेवितम् ॥
अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः ।
तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः ॥
धर्मार्थगुणयुक्तेन नेतरेण कथञ्चन ।
दैवमानुषयुक्तेन सद्भिराचरितेन च ॥
यो ह्येवमविनीतेन रमते पुत्रनप्तृणा ।
अनुत्थानवता चापि दुर्विनीतेन दुर्धिया ॥
रमते यस्तु पुत्रेण मोघं तस्य प्रजाफलम् ।
अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च ॥
सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः । युद्धाय क्षत्रियः सृष्टः सञ्जयेह जयाय च ।
`क्रूराय कर्मणे नित्यं प्रजानां परिपालने ॥'
जयन्वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम् । न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम् ।
यदमित्रान्वशे कृत्वा क्षत्रियः सुखमेधते ॥
मन्युना दह्यमानेह पुरुषेण मनस्विना ।
निकृतेनेह बहुशः शत्रून्प्रति जिगीषया ॥
आत्मानं वा परित्यज्य शत्रुं वा विनिपात्य च । प्राप्यते नेह शान्तिर्हि नित्यमेव तु सञ्जय ।
अतोन्येन प्रकारेण शान्तिरस्य कुतो भवेत् ॥
इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति ।
यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम् ॥
प्रियाभावाच्च पुरुषो नैव प्राप्नोति शोभनम् ।
ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम् ॥
पुत्र उवाच ।
नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः ।
कारुण्यमेव पश्य त्वं भूत्वेह जडमूकवत् ॥
मातोवाच ।
अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि ।
चोद्यं मां चोदयस्येतद्भृशं वै चोदयामि ते ॥
अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान् ।
अहं पश्यामि विजयं कृच्छ्रभाविनमेव ते ॥
पुत्र उवाच ।
अकोशस्यासहायस्य कुतः सिद्धिर्जयो मम ।
इत्यवस्थां विदित्वैतामात्मनात्मनि दारुणाम् ॥
राज्याद्भावो निवृत्तो मे त्रिदिवादिव दृष्कृतः ।
ईदृशं भवती कंचिदुपायमनुपश्यति ॥
तन्मे परिणतप्रज्ञे सम्यक्प्रब्रूहि पृच्छते ।
करिष्यामि हि तत्सर्वं यथावदनुशासनम् ॥
मातोवाच ।
पुत्र नात्मावमन्तव्यः पूर्वाभिरसमृद्धिभिः । अभूत्वा हि भवन्त्यर्था भूत्वा नश्यन्ति चापरे ।
अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैः ॥
सर्वेषां कर्मणां तात फले नित्यमनित्यता ।
अनित्यमिति जानन्तो न भवन्ति भवन्ति च ॥
अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते ।
ऐकगुण्यमनीहायामभावः कर्मणां फलम् ॥
अथ द्वैगुण्यमीहायां फलं भवति वा नवा ।
यस्य प्रागेव विदिता सर्वार्थानामनित्यता ॥
नुदेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज ।
उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु ॥
भविष्यतीत्येव मनः कृत्वा सततमव्यथैः ।
मङ्गलानि पुरस्कृत्य ब्राह्मणांश्चेश्वरैः सह ॥
प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रक ।
अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः ॥
निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च ।
अनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम् ॥
पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि ।
क्रुद्धान्लुब्धान्परिक्षीणानवलिप्तान्विमानितान् ॥
स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय । एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान् ।
महावेग इवोद्धूतो मातरिश्वा बलाहकान् ॥
तेषामग्रप्रदायी स्याः कल्पोत्थायी प्रियंवदः ।
ते त्वां प्रियं करिष्यन्ति पुरोधास्यन्ति च ध्रुवम् ॥
यदैव शत्रुर्जानीयात्सपत्नं त्यक्तजीवितम् ।
तदैवास्मादुद्विजेत सर्पाद्वेश्मगतादिव ॥
तं विदित्वा पराक्रान्तं वशे न कुरुते यदि ।
निर्वादैर्निर्वदेदेनमन्ततस्तद्भविष्यति ॥
निर्वादादास्पदं लब्धा धनवृद्धिर्भविष्यति ।
धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च ॥
स्खलितार्थं पुनस्तानि सन्त्यजन्ति च बान्धवाः ।
नह्यस्मिन्नाश्रयन्ते च जुगुप्सन्ते च तादृशम् ॥
शत्रुं कृत्वा यः सहायं विश्वासमुपगच्छति ।
स न संभाव्यमेवैतद्यद्राज्यं प्राप्नुयादिति ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि पञ्चत्रिंशदधिकशततमोऽध्यायः ॥

5-135-1 कृष्णायसस्य लोहस्य । संहत्य णिण्डीकृत्य ॥ 5-135-3 एकजं अभ्रातृकम् ॥ 5-135-5 सर्वावस्था गार्हस्थ्यादिरूपा । तावेव धर्मार्थावेव । अचूचुदं प्रेरितवत्यस्मि ॥ 5-135-6 समीक्ष्य क्रमोपेतः द्रष्टुं योग्येन पराक्रमेण युक्तः । अस्मिन्काले चेत् कार्यं कर्तव्यं युद्धं न प्रतिपद्यसे ॥ 5-135-7 आनृशंस्यं शत्रुषु स्वदेहे वा दयांकरिष्यसि तर्हि त्वं असंभावितरूपस्तिरस्कृतरूपो भविष्यसीति संबन्धः ॥ 5-135-8 स्वरीति । उभयलोकानुपयुक्तेपि पुत्रे वृथा वात्सल्यं खरी करोति तद्वदहमपि स्यामित्यर्थः ॥ 5-135-10 धर्मार्थेति । त्वया भाव्यमिति शेषः ॥ 5-135-15 प्रस्थातव्यमेवेति शेषः ॥ 5-135-17 स्वल्पमैश्वर्यं अप्रियमनिष्टं इच्छति मन्यते प्राज्ञः । यस्य तु अल्पमेवैश्वर्यं प्रियं तस्य ध्रुवं निश्चितं तदेवाल्पं प्रियत्वेन गृहीतं अप्रियमनर्थकरं स्यात् । तेन राज्ञाऽल्पसंतुष्टेन न भवितव्यमित्यर्थः ॥ 5-135-18 अभावं नाशम् ॥ 5-135-19 पश्य हितत्वेनेति शेषःक ॥ 5-135-20 अतो वचनात् मे मम भूयसी नन्दिः समृद्धिः भवितेति शेषः । यत् एवं कारुण्यं देहे कृपां अनुपश्यसि हितत्वेन । एवंसत्यपि त्वमेव चोद्यं पूर्वपक्षं चोदयसि प्रेरयसि कारुण्यं कुर्विति । अथापि वज्रहृदयाहं ते तुभ्यं चोदयामि ॥ 5-135-21 सैन्धवान् हत्वा कृच्छ्रेण भाविनं ते तव विजयं यदा पश्यामि द्रक्ष्यामि अथ त्वां पूजयिष्यामीति योजना ॥ 5-135-22 एतां अवस्थां दारुणामात्मनि आत्मना स्वयं विदित्वा । मे मम भावश्चित्तं राज्यान्निवृत्त इत्युत्तरेण संबन्धः ॥ 5-135-29 वृद्धिः पीडा । वृधु हिंसायामित्यस्य रूपम् । समृद्धिरैश्वर्यम् । आत्मनः पीडां परस्यैर्श्वं च नुदेदित्यर्थः ॥ 5-135-35 तेषां क्रुद्धादीनां अग्रप्रदायी । भक्तं वेतनं च सर्वेभ्यः प्रथमं देयम् । न चेत्सद्यः कुपितास्ते त्यजेयुरित्यर्थः ॥ 5-135-36 एनं निर्वादैः परिनिष्ठितैर्दूतैर्निर्वदेत् परिनिष्ठां प्रापयेत् । साम्ना दानेन वा तं पर्यवस्थापयेदित्यर्थः । अन्ततः फलतः तत् शर्त्रार्वशीकरणं भविष्यति ॥ 5-135-37 तत्रोपायमाह निर्वादादिति । एवं परिनिष्ठिततया आस्पदं स्थानं प्राप्तं चेत् शत्रुणाऽनुपद्रुतस्य धनवृद्ध्यादिकं सर्वं सेत्स्यतीत्यर्थः ॥