अध्यायः 146

सूर्येण कर्णंप्रति कुन्तीवचनस्वीकरणविधानम् ॥ 1 ॥ कर्णेन कुन्तींप्रति सोपालम्भं दुर्योधनपरित्यागस्य सयुक्तिकमनौचेत्यकथनपूर्वकं अर्जुनवर्जं पाण्डवासंहरणप्रतिज्ञानम् ॥ 2 ॥

वैशंपायन उवाच ।
ततः सूर्यान्निश्चरितां कर्णः शुश्राव भारतीम् ।
दुरत्ययां प्रणयिनीं पितृवद्भास्करेरिताम् ॥
सूर्य उवाच ।
सत्यमाह पृथा वाक्यं कर्ण मातृवचः कुरु ।
श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा ॥
वैशंपायन उवाच ।
एवमुक्तस्य मात्रा च स्वयं पित्रा च भानुना ।
चचाल नैव कर्णस्य मतिः सत्यधृतेस्तदा ॥
कर्ण उवाच ।
न चैतच्छ्रद्दधे वाक्यं क्षत्रिये भाषितं त्वया ।
धर्मद्वारं ममैतत्स्यान्नियोगकरणं तव ॥
अकरोन्मयि यत्पापं भवती सुमहात्ययम् ।
अपाकीर्णोऽस्मि यन्मातस्तद्यशःकीर्तिनाशनम् ॥
अहं चेत्क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम् ।
त्वत्कृते किं नु पापीयः शत्रुः कुर्यान्ममाहितम् ॥
क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम ।
हीनसंस्क्रासमयमद्य मां समचूचुदः ॥
न वै मम हितं पूर्वं मातृवच्चेष्टितं त्वया ।
सा मां संबोधयस्यद्य केवलात्महितैषिणी ॥
कृष्णेन सहितात्को वै न व्यथेत धनंजयात् ।
कोद्य भीतं न मां विद्यात्पर्थानां समितिं गतम् ॥
अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः ।
पाण्डवान्यदि गच्छामि किं मां क्षत्रं वदिष्यति ॥
सर्वकामैः संविभक्तः पूजितश्च यथासुखम् ।
अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम् ॥
उपनह्य परैर्वैरं ये मां नित्यमुपासते ।
नमस्कुर्वन्ति च सदा वसवो वासवं यथा ॥
मम प्राणेन ये शत्रूञ्शक्ताः प्रतिसमासितुम् ।
मन्यन्ते ते कथं तेषामहं छिन्द्यां मनोरथम् ॥
मया प्लवेन संग्रामं तितीर्षन्ति दुरत्ययम् ।
अपारे पारकामा ये त्यजेयं तानहं कथम् ॥
अयं हि कालः संप्राप्तो धार्तराष्ट्रोपजीविनाम् ।
निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता ॥
कृतार्थाः सुभृता ये हि कृत्यकाले ह्युपस्थिते ।
अनवेक्ष्य कृतं पापा विकुर्वन्त्यनवस्थिताः ॥
राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम् । नैवायं न परो लोको विद्यते पापकर्मणाम् ।
धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः ।
बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे ॥
आनृशंस्यमथो वृत्तं रक्षन्सत्पुरुषोचितम् ।
अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः ॥
न च तेऽयं समारम्भो मयि मोघो भविष्यति ।
वध्यान्विषह्यान्संग्रामे न हनिष्यामि ते सुतान् ॥
युधिष्ठिरं च भीमं च यमौ चैवार्जुनादृते ।
अर्जुनेन समं युद्धमपि यौधिष्ठिरे बले ॥
अर्जुनं हि निहत्याजौ संप्राप्तं स्यात्फलं मया ।
यशसा चापि युज्येयं निहतः सव्यसाचिना ॥
न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि ।
निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि ॥
इति कर्णवचः श्रुत्वा कुन्ती दुःखात्प्रवेषती ।
उवाच पुत्रमाश्लिष्य कर्णं धैर्यादकम्पनम् ॥
एवं वै भाव्यमेतेन क्षयं यास्यन्ति कौरवाः ।
यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम् ॥
त्वया चतुर्णां भ्रातॄणामभयं शत्रुकर्शन ।
दत्तं तत्प्रतिजानीहि सङ्गरप्रतिमोचनम् ॥
अनामयं स्वस्ति चेति पृथाथो कर्णमब्रवीत् ।
तां कर्णोऽभ्यवदत्प्रीतस्ततस्तौ जग्मतुः पृथक् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि षट्चत्वारिंशदधिकशततमोऽध्यायः ॥

5-146-4 न श्रद्दधे कर्तव्यत्वेन न मन्ये । धर्मद्वारं विपरीतलक्षणया धर्मापगमद्वारम् । तव नियोगकरणं त्वदाज्ञप्तार्थानुष्ठानम् ॥ 5-146-5 सुमहात्ययं सुमहान् अत्ययो जातिभ्रंशाख्यो विनाशो यस्मात् । अपाकीर्णस्त्यक्तः ॥ 5-146-6 त्वत्कृते त्वत्सुखार्थं कानीनो गर्भः प्रकटो माभूदिति हेतोरहं क्षत्रसत्क्रियां चेन्न प्राप्तस्तर्हि त्वदन्यः कः शत्रुः किं ममाहितं पापीय इति इतोपि पापतरं कुर्यान्न कोऽपीत्यर्थः ॥ 5-146-7 क्रियाकाले क्षत्रियोचितसंस्कारकाले । अनुक्रोशं दयाम् । समचूचुदः स्वकार्यार्थं प्रेरितवत्यनि ॥ 5-146-12 उपनह्य बध्वा ॥ 5-146-13 प्रतिसमासितुं जेतुम् ॥ 5-146-15 निर्वेष्टव्यं आनृण्यं कर्तव्यम् ॥ 5-146-20 विषह्यान् हन्तुं शक्यानपीत्यर्थः ॥