अध्यायः 011
ऋषिभिर्देवैश्च नहुपस्य वरदानपूर्वकमिन्द्रराज्ये अभिषेचनम् ॥ 1 ॥ कदाचन स्वावलीकनेन कलुषितमनसा नहुपेण काम्यमानायै इन्द्राण्यै बृहस्पतिना अभयप्रदानम् ॥ 2 ॥
शल्य उवाच । 
					ऋषयोऽथाब्रुवन्सर्वे देवाश्च त्रिदिवेश्वराः ।
						अयं वै नहुपः श्रीमान्देवराज्येऽभिषिच्यताम् ॥
					तेजस्वी च यशस्वी च धार्मिकश्चैव नित्यदा ।
						ते गत्वा त्वब्रुवन्सर्वे राजा नो भव पार्थिव ॥
					स तानुवाच नहुषो देवानृपिगणांस्तथा ।
						पितृभिः सहितान्राजन्परिप्सन्हितमात्मनः ॥
					दुर्बलोऽहं न मे शक्तिर्भवतां परिपालने ।
						बलवाञ्ज्ञायतां कश्चिद्बलं शक्रे हि नित्यदा ॥
					तमब्रुवन्पुनः सर्वे देवा ऋषिपुरोगमाः ।
						अस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे ॥
					परस्परभयं घोरमस्माकं हि न संशयः ।
						अभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे ॥
					देवदानवयक्षाणामृषीणां रक्षसां तथा ।
							पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम् ।
						
					तेज आदास्यसे पश्यन्बलवांश्च भविष्यसि ।
						धर्मं पुरस्कृत्य सदा सरवलोकाधिपो भव ॥
					ब्रह्मर्षीश्चापि देवांश्च गोपायस्व त्रिविष्टपे ।
						
						शल्य उवाच ।
						अभिषिक्तः स राजेन्द्र ततो राजा त्रिविष्टपे ॥
						
					धर्मं पुरस्कृत्य तदा सर्वलोकाधिपोऽभवत् ।
						सुदुर्लभं वरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपे ॥
					धर्मात्मा सततं भूत्वा कामात्मा समपद्यत ।
						देवोद्यानेषु सर्वेषु नन्दनोपवनेषु च ॥
					कैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वते ।
						सह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च ॥
					अप्सरोभिः परिवृतो देवकन्यासमावृतः ।
						नहुषो देवराजोऽथ क्रीडन्बहुविधं तदा ॥
					श्रृण्वन्दिव्या बहुविधाः कथाः श्रुतिमनोहराः ।
						वादित्राणि च सर्वाणि गीतं च मधुरस्वनम् ॥
					विश्वावसुर्नारदश्च गन्धर्वाप्सरसां गणाः ।
						ऋतवः षट्च देवेन्द्रं मूर्तिमन्त उपस्थिताः ॥
					मारुतः सुरभिर्वाति मनोज्ञः सत्वशीतलः ।
						एवं विक्रीडतस्तस्य नहुषस्य दुरात्मनः ॥
					संप्राप्ता दर्शनं देवी शक्रस्य महिषी प्रिया ।
						स तां संदृश्य दुष्टात्मा प्राह सर्वान्सभासदः ॥
					इन्द्रस्य महिषी देवी कस्मान्मां नोपतिष्ठति ।
						अहमिन्द्रोऽस्मि देवानां लोकानां च तथेश्वरः ॥
					आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् ।
						तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह ॥
					रक्ष मां नहुषाद्ब्रह्मंस्त्वामस्मि शरणं गता ।
						सर्वलक्षणसंपन्नां ब्रह्मंस्त्वं मां प्रभाषसे ॥
					देवराजस्य दयितामत्यन्तं सुखभागिनीम् ।
						अवैधव्येन युक्तां चाप्येकपत्नीं पतिव्रदाम् ॥
					उक्तवानसि मां पूर्वमृतां तां कुरु वै गिरम् ।
						नोक्तपूर्वं च भगवन्मृषा ते किंचिदीश्वर ॥
					तस्मादेतद्भवेत्सत्यं त्वयोक्तं द्विजसत्तम ।
						बृहस्पतिरथोवाच इन्द्राणीं भयमोहिताम् ॥
					यदुक्तासि मया देवि सत्यं तद्भविता ध्रुवम् ।
						द्रक्ष्यसे देवराजं तमिन्द्रं शीघ्रमिहागतम् ॥
					न भेतव्यं च नहुषात्सत्यमेतद्ब्रवीमि ते ।
						समानयिष्ये शक्रेण नचिराद्भवतीमहम् ॥
					अथ शुश्राव नहुष इन्द्राणीं शरणीं गताम् ।
						बृहस्पतेरङ्गिरसश्रुक्रोध स नृपस्तदा ॥ ॥
					इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि एकादशोऽध्यायः ॥
5-11-2 नोऽस्माकं राजा भव ॥ 2 ॥
