अध्यायः 155
दुर्योधनेन स्वसेनानां अग्र्यमध्यमपाश्चात्यभेदेन त्रेधा विभजनम् ॥ 1 ॥ तासां सांग्रामिकोपकरणसमृद्धिवर्णनम् ॥ 2 ॥ दुर्योधनेन
कृपादीनामेकादशानां पृथक्पृथगक्षौहिण्यधिपतित्वेऽभिषेचनम् ॥ 3 ॥
व्युष्टायां वै रजन्यां हि राजा दुर्योधनस्ततः ।
व्यभजत्तान्यनिकानि दश चैकं च भारत ॥
नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च ।
सर्वेष्वेतेष्वनीकेषु सन्दिदेश नराधिपः ॥
सानुकर्षाः सतूणीराः सवरूथाः सतोमराः ।
सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सहर्ष्टयः ।
सध्वजाः सपताकाश्च सशरासनतोमराः ।
रज्जुभिश्च विचित्राभिः सपाशाः सपरिच्छदाः ॥
सकचग्रहविक्षेपाः सतैलगुडवालुकाः ।
साशीविषघटाः सर्वे ससर्जरसपांसवः ॥
सघण्टफलकाः सर्वे सायोगुडजलोपलाः ॥
सशालभिन्दिपालाश्च समधूच्छिष्टमुद्गराः ॥
सकाण्डदण्डकाः सर्वे ससीरविषतोमराः ।
सशूर्पपिटकाः सर्वे सदात्राङ्कुशतोमराः ॥
सकीलकवचाः सर्वे वाशीवृक्षादनान्विताः ।
व्याघ्रचर्मपरीवारा द्वीपिचर्मावृताश्च ते ॥
सहर्ष्टयः सश्रृङ्गाश्च सप्रासविविधायुधाः ।
सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः ॥
रुक्मजालप्रतिच्छन्ना नानामणिविभूषिताः ।
चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः ॥
तथा कवचिनः शूराः शस्त्रेषु कृतनिश्चयाः ।
कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः ॥
बद्धारिष्टा बद्धकक्षा बद्धध्वजपताकिनः ।
बद्धाभरणनिर्यूहा बद्धचर्मासिपट्टिशाः ॥
चतुर्युजो रथाः सर्वे सर्वे चोत्तमवाजिनः ।
सप्रासऋष्टिकाः सर्वे सर्वे शतशरासनाः ॥
धुर्ययोर्हकययोरेकस्तथान्यौ पर्ष्णिसारथी ।
तौ चापि रथिनां श्रेष्ठौ रथी च हयवित्तथा ॥
नगराणीव गुप्तानि दुराधर्षाणि शत्रुभिः ।
आसन्रथसहस्राणि हेममालीनि सर्वशः ॥
यथा रथास्तथा नागा बद्धकक्षाः स्वलङ्कृताः ।
बभूवुः सप्तपुरुषा रत्नवन्त इवाद्रयः ॥
द्वावङ्कुशधरौ तत्र द्वावुत्तमधनुर्धरौ ।
द्वौ वरासिधरौ राजन्नेकः शक्तिपिनाकधृत् ॥
गजैर्मत्तैः समाकीर्णं सर्वमायुधकोशकैः ।
तद्बभूव बलं राजन्कौरव्यस्य महात्मनः ॥
आमुक्तकवचैर्युक्तैः सपताकैः स्वलङ्कृतैः ।
सादिभिश्चोपपन्नास्तु तथा चायुतशो हयाः ॥
असङ्ग्राहाः सुसंपन्ना हेमभाण्डपरिच्छदाः ।
अनेकशतसाहस्राः सर्वे सादिवशे स्थिताः ॥
नानारूपविकाराश्च नानाकवचशस्त्रिणः ।
पदातिनो नरास्तत्र बभूवुर्हेममालिनः ॥
रथस्यासन्दश गजा गजस्य दश वाजिनः ।
नरा दश हयस्यासन्पादरक्षाः समन्ततः ॥
रथस्य नागाः पञ्चाशन्नागस्यासञ्शतं हयाः ।
हयस्य पुरुषाः सप्त भिन्नसन्धानकारिणः ॥
सेना पञ्चशतं नागा रथास्तावन्त एव च ।
दशसेना च पृतना पृतना दश वाहिनी ॥
सेना च वाहिनी चैव पृतना ध्वजिनी चमूः ।
अक्षौहिणीति पर्यायैर्निरुक्ता च वरूथिनी ॥
एवं व्यूढान्यनीकानि कौरवेयेण धीमता ।
अक्षौहिण्यो दशैका च सङ्ख्याताः सप्त चैव ह ॥
अक्षौहिण्यस्तु सप्तैव पाण्डवानामभूद्बलम् ।
अक्षौहिण्यो दशैका च कौरवाणामभूद्बलम् ॥
नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते ।
सेनामुखं च तिस्रस्ता गुल्म इत्यभिशब्दितम् ॥
त्रयो गुल्मा गणस्त्वासीद्गणास्त्वयुतशोऽभवन् ।
दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः ॥
तत्र दुर्योधनो राजा शूरान्बुद्धिमतो नरान् ।
प्रसमीक्ष्य महाबाहुश्चक्रे सेनापतींस्तदा ।
पृथगक्षौहिणीनां च प्रणेतॄन्नरसत्तमान् ।
विधिवत्पूर्वमानीय पार्थिवानभ्यषेचयत् ॥
कृपं द्रोणं च शल्यं च सैन्धवं च जयद्रथम् ।
सुदक्षिणं च काम्भोजं कृतवर्माणमेव च ॥
द्रोणपुत्रं च कर्णं च भूरिश्रवसमेव च ।
शकुनिं सौबलं चैव बाह्लीकं च महाबलम् ॥
दिवसे दिवसे तेषां प्रतिवेलं च भारत ।
चक्रे स विविधाः पूजाः प्रत्यक्षं च पुनः पुनः ॥
तथा विनियताः सर्वे ये च तेषां पदानुगाः ।
बभूवुः सैनिका राज्ञां प्रियं राज्ञश्चिकीर्षवः ॥ ॥
इति श्रीमन्महाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि
पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥
5-155-1 व्युष्टायां व्यतीतायाम् ॥ 5-155-2 सारं पुरोगामि ।
मध्यं मध्यमम् । फल्गु पाश्चात्त्यम् ॥ 5-155-3 अनुकर्षः
युद्धविमर्देयस्यकस्यचिद्रथावयवस्य नष्टस्य प्रतिसमाधानार्थं
यद्रथस्याधोदारुबध्यते तत् । अनुकर्षो रथाधःस्थदारुणीति भेदिनी । तूणीरो
रथवाह्यो बाणकोशः । महान् निषङ्ग इति यावत् । उपासङ्गाः हयगजवाह्यास्तूणाः ।
निषङ्गः पत्तिवाह्यः स ेव ॥ 5-155-5 कचग्रहविक्षेपः कचेषु गृहीत्वा येन
शत्रुर्विक्षिप्यते तादृशः । तैलादयः प्रपप्ताः शत्रूणामुपरि क्षिप्यन्ते ।
साशीविषघटाः ससर्पाः कुम्भाः । सर्जरसो रालद्रव्यमग्र्न्युद्दीपकम् ॥ 5-155-6
सघण्टानि फलकानि शस्त्राग्राणि येषां ते सघण्टफलकाः । अयंसि
खङ्गपट्टिशच्चुरिकादीनि । गुडजलं तप्तम् । उपला यन्त्रक्षेप्या गोलाः । शालते
कत्थते शब्दं करोतीति शालः स चासौ भिन्दिपालो गोफलकः । मधूच्छिष्टं मयनं तदपि
द्रवीकृत्य गुडजलवत्प्रक्षेप्यम् । मुद्गरः मुशलतुत्यो दण्डः ॥ 5-155-7 काण्डं
बाणफलकं तद्युक्तो दण्डः काण्डदण्डः इतियावत् । सीरं लाङ्गलम् । विषं प्रसिद्धं
तेन युक्तास्तोमरा विषतोमराः । शूर्पाणि तप्तगुडादिप्रक्षेपार्थानि ।
पिटकास्तदाश्रया मञ्जूषाः अस्त्ररोधनार्था वा । दात्रां परशुप्रभृति ।
अङ्कुशतोमराः बदरीकण्टकतुल्यलोहकण्टकोपेतास्तोमराः ॥ 5-155-8 कीलकवचवान् हि
परेण मुष्टियुद्धे जेतुमशक्यः । वाशी काष्ठप्रच्छन्नं शस्त्रम् । वृक्षादनाः
लोहकण्टककीलादीन्युपकरणानि । व्याघ्रचर्मणा द्वीपी चित्रव्याघ्रस्तच्चर्मणा च
परिवृता रथा एव ॥ 5-155-9 तैलक्षौमानि तैलाक्तवस्त्रविशेषा येषां भस्म
प्रहारस्थले दीयते । सर्पिश्च पुरातनं तदर्थमेव ॥ 5-155-10 चित्रानीकाः
चित्राणि सैन्यानि ॥ 5-155-11 विनिवेशेता येषु रथेष्विति शेषः ॥ 5-155-12
बद्धानि अरिष्टानि अशुभहराणि यन्त्रौषधादीनि येषु ते बद्धारिष्टाः । बद्धकक्षाः
बद्धाः कक्षाः स्पर्धापदानि तुरगादिशिरसि घण्टामालामौक्तिकगुच्छादीनि । बद्धानि
बिरुदानि येषु । बद्धानि आभरणानि क्षुद्रघण्टिकादीनि निर्यूहाः शिखराणि च येषु ॥ 5-155-14 चतुर्युज इत्येतद्व्याचष्टे धुर्ययोरिति । धुर्ययोः धूःसन्निहितयोः ।
पार्ष्णिस्पारथी चक्ररक्षौ ॥ 5-155-17 पिनाकः त्रिशूलम् ॥ 5-155-20 संग्राहः
हेषणपूर्वकमग्रादाभ्यामुत्प्लवनं तद्रहिताः । यतः सुसंपन्नाः सम्यकशिक्षिताः ॥ 5-155-22 एकस्य रथस्य यथोक्तविभागेन दश गजाः शतं अश्वाः सहस्रं पदातयश्च परिवार
इत्यर्थः ॥ 5-155-23 पक्षान्तरमाह रथस्येति । एकस्य रथस्य पञ्चाशद्रदा
पञ्चसहस्रं अश्वाः पञ्चत्रिंशत्सहस्रं पदातयः परिवार इत्यर्थः ॥ 5-155-24
पृतनायां तु पञ्चसहस्रं नागास्तावन्तो रथाः पञ्चविंशतिसहस्रं नराः पञ्चदशसहस्रं
अश्वाः । वाहिन्यां पञ्चाशत्सहस्रं नागास्तावन्तो रथाः सार्धलक्षद्वयं नराः ।
सार्धलक्षं अश्वा इति ज्ञेयम् ॥