अध्यायः 157

युधिष्ठिरेण श्रीकृष्णानुमत्या द्रुपदादीनां सप्तानां पृतगक्षौहिण्याधिपत्येऽभिषेचनपूर्वकं धृष्टद्युम्नस्य सर्वसैन्याधिपत्येऽभिषेचनम् ॥ 1 ॥ बलरामस्य अक्रूरादिभिः सह पाण्डवदिदृक्षया कुरुक्षेत्रागमनम् ॥ 2 ॥ युधिष्ठिरादिपूजितस्य तस्य बन्धुनिधनावलोकनासहिष्णुतया तीर्थनिषेवणार्थं गमनम् ॥ 3 ॥

जनमेजय उवाच ।
आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम् ।
पितामहं भारतानां ध्वजं सर्वमहीक्षिताम् ॥
बृहस्पतिसं बुद्ध्या क्षमया पृथिवीसमम् ।
समुद्रमिव गाम्भीर्ये हिमवन्तमिव स्थिरम् ॥
प्रजापतिमिवौदार्ये तेजसा भास्करोपमम् ।
महेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः ॥
रणयज्ञे प्रवितते सुभीमे लोमहर्षणे ।
दीक्षितं चिररात्राय श्रुत्वा तत्र युधिष्ठिरः ॥
किमब्रवीन्महाबाहुः सर्वशस्त्रभृतां वरः ।
भीमसेनार्जुनौ वापि कृष्णो वा प्रत्यभाषत ॥
वैशंपायन उवाच ।
आपद्धर्मार्थकुशलो महाबुद्धिर्युधिष्ठिरः ।
सर्वान्भ्रातॄन्समानीय वासुदेवं च शाश्वतम् ॥
उवाच वदतां श्रेष्ठः सान्त्वपूर्वमिदं वचः ।
पर्याक्रामत सैन्यानि यत्तास्तिष्ठत दंशिताः ॥
पितामहेन वो युद्धं पूर्वमेव भविष्यति ।
तस्मात्सप्तसु सेनासु प्रणेतॄन्मम पश्यत ॥
कृष्ण उवाच ।
यथार्हति भवान्वक्तुमस्मिन्काले ह्युपस्थिते ।
तथेदमर्थवद्वाक्यमुक्तं ते भरतर्षभ ॥
रोचते मे महाबाहो क्रियतां यदनन्तरम् ।
नायकास्तव सेनायां क्रियन्तामिह सप्त वै ॥
वैशंपायन उवाच ।
ततो द्रुपदमानाय्य विराटं शिनिपुङ्गवम् । धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिव ।
शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम् ॥
एतान्सप्त महाभागान्वीरान्युद्धाभिकाङ्क्षिणः ।
सेनाप्रणेतॄन्विधिवदभ्यषिञ्चद्युधिष्ठिरः ॥
सर्वसेनापतिं चात्र धृष्टद्युम्नं चकार ह ।
द्रोणान्तहेतोरुत्पन्नो य इद्धाञ्जातवेदसः ॥
सर्वेषामेव तेषां तु समस्तानां महात्मनाम् ।
सेनापतिपतिं चक्रे गडाकेशं धनञ्जयम् ॥
अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम् ।
सङ्कर्णणानुजः श्रीमान्महाबुद्धिर्जनार्दनः ॥
तद्दृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम् ।
प्राविशद्भवनं राज्ञः पाण्डवानां हलायुधः ॥
सहाक्रूरप्रभृतिभिर्ददसाम्बोद्धवादिभिः ।
रौक्मिणेयाहुकसुतैश्चारुदेष्णपुरोगमैः ॥
वृष्णिमुख्यैरधिगतैर्व्याघ्रैरिव बलोत्कटैः ।
अभिगुप्तो महाबाहुर्मरुद्भिरिव वासवः ॥
नीलकौशेयवसनः कैलासशिखरोपमः ।
सिंहखेलगतिः श्रीमान्मदरक्तान्तलोचनः ॥
तं दृष्ट्वा धर्मराजश्च केशवश्च महाद्युतिः ।
उदतिष्ठत्ततः पार्थो भीमकर्मा वृकोदरः ॥
गाण्डीवधन्वा ये चान्ये राजानस्तत्र केचन ।
पूजयाञ्चक्रिरे ते वै समायान्तं हलायुधम् ॥
ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना ।
वासुदेवपुरोगास्तं सर्व एवाभ्यवादयन् ॥
विराटद्रुपदौ वृद्धावभिवाद्य हलायुधः ।
युधिष्ठिरेण सहित उपाविशदरिन्दमः ॥
ततस्तेषूपविष्टेषु पार्थिवेषु समन्ततः ।
वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषत ॥
भवितायं महारौद्रो दारुणः पुरुषक्षयः ।
दिष्टमेतद्ध्रुवं मन्ये न शक्यमतिवर्तितुम् ॥
तस्माद्युद्धात्समुत्तीर्णानपि वः समुहृञ्जानान् ।
अरोगानक्षतैर्देहैर्द्रष्टास्मीति मतिर्मम ॥
समेतं पार्थिवं क्षत्रं कालपक्वमसंशयम् ।
विमर्दश्च महान्भावी मांसशोणितकदर्दमः ॥
उक्तो मया वासुदेवः पुनः पुनरुपह्वरे ।
संबन्धिषु समां वृत्तिं वर्तस्व मधुसूदन ॥
पाण्डवा हि यथास्माकं तथा दुर्योधनो नृपः ।
तस्यापि क्रियतां साह्यं स पर्येति पुनःपुनः ॥
तच्च मे नाकरोद्वाक्यं त्वदर्थे मधुसूदनः ।
निर्विष्टः सर्वभावेन धनञ्जयमवेक्ष्य ह ॥
ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः ।
तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत ॥
न चाहमृत्सहे कृष्णमृते लोकमुदीक्षितुम् ।
ततोऽहमनुवर्तामि केशवस्य चिकीर्षितम् ॥
उभौ शिष्यौ हि मे वीरौ गदायद्धविशारदौ ।
तुल्यस्नेहोऽस्म्यतो भीते तथा दुर्योधने नृपे ॥
तस्माद्यास्यामि तीर्थानि सरस्वत्या निषेवितुम् ।
न हि शक्ष्यामि कौरव्यान्नश्यमानानवेक्षितुम् ॥
वैशंपायन उवाच ।
एवमुक्त्वा महाबाहुरनुज्ञातश्च पाण्डवैः ।
तीर्थयात्रां ययौ रामो निवर्त्य मधुसूदनम् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वमि सैन्यनिर्याणपर्वणि सप्तपञ्चाशदधिकशततमोऽध्यायः ॥

5-157-13 इद्धात्प्रदीप्तात् ॥ 5-157-16 महात्ययं अत्यन्तं क्षयकरम् ॥ 5-157-24 रौहिणेयो बलरामः ॥ 5-157-28 उपह्वरे एकान्ते ॥