अध्यायः 164
युधिष्ठिरेण युद्धाय सेनानिर्यातनम् ॥ 1 ॥ धृष्टद्युम्नेन भीमादीनां दुर्योधनादिभिः सह द्वन्द्वयुद्धाय समादेशः ॥ 2 ॥
संजय उवाच ।
उलूकस्य वृत्तः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः ।
सेनां नियापयामास धृष्टद्युम्नपुरोगमाम् ॥
पदातिनीं नागवतीं रथिनीमश्वबृन्दिनीम् ।
चतुर्विधबलां भीमामकम्पां पृथिवीमिव ॥
भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः ।
धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम् ॥
तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः ।
द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नो व्यकर्षत ॥
यथाबलं यथोत्साहं रथिनः समुपादिशत् ।
अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च ॥
धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम् ।
अश्वात्थाम्ने च नकुलं शैब्यं च कृतवर्मणे ॥
सैन्धवाय च वार्ष्णेयं युयुधानं समादिशत् ।
शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत् ॥
सहदेवं शकुनये चेकितानं शलाय वै ।
द्रौपदेयांस्तथा पञ्च त्रिगर्तेभ्यः समादिशत् ॥
वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम् ।
स समर्थं हि तं मेने पार्थादभ्यधिकं रणे ॥
एवं विभज्य योधांस्तान्पृथक्व सह चैव ह ।
ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत् ॥
धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः ।
विधिवद्व्यूह्य मेधावी युद्धाय धृतमानसः ॥
यथोद्दिष्टानि सैन्यानि पाण्डवानामयोजयत् ।
जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे ॥ ॥
इति श्रीमन्महाभारते उद्योगपर्वणि उलूकदूतागमनपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः ॥
5-164-10 अंशं स्वकीयमिति शेषः ॥