अध्यायः 168

भीष्मेण कर्णस्यार्धरथत्वे कथिते तेन भूष्मोपालम्भनपूर्वकं तज्जीवितावधि स्वेन युद्धाकरणप्रतिज्ञा ॥ 1 ॥ भीष्मेण कर्णगर्हणे दुर्योधनेन भीष्मंप्रति सान्त्वनपूर्वकं परसेनायां रथातिरथसंख्यानप्रार्थना ॥ 2 ॥

भीष्म उवाच ।
अचलो वृषकश्चैव सहितौ भ्रातरावुभौ ।
रथौ तव दुराधर्षौ शत्रून्विध्वंसयिष्यतः ॥
बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ ।
गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ ॥
सखा ते दयितो नित्यं य एष रणकर्कशः ।
उत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह ॥
परुषः कत्थनो नीचः कर्णो वैकर्तनस्त्रव ।
मन्त्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः ॥
एष नैव रथः पूर्णो न चाप्यतिरथो रणे ।
वियुक्तः कवचेनैष सहजेन विचेतनः ॥
कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी ।
अभिशापाच्च रामस्य ब्राह्मणस्य च भाषणात् ॥
करणानां वियोगाच्च तेन मेऽर्थरथो मतः ।
नैष फाल्गुनमासाद्य पुनर्जीवन्विमोक्ष्यते ॥
ततोऽब्रवीत्पुनर्द्रोणः सर्वशस्त्रभृतां वरः ।
एवमेतद्यथाऽऽत्थ त्वं न मिथ्यास्ति कदाचन ॥
रणेरणेऽभिमानी च विमुखश्चापि दृश्यते ।
घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः ॥
संजय उवाच ।
एतच्छ्रुत्वा तु राधेयः क्रोधादुल्फाल्य लोचने ।
उवाच भीष्मं राधेयस्तुदन्वाग्भिः प्रतोदवत् ॥
पितामह यथेष्टं मां वाक्शरैरुपकृन्तसि ।
अनागसं सदा द्वेषादेवमेव पदेपदे ॥
मर्षयामि च तत्सर्वं दुर्योधनकृतेन वै ।
त्वं तुं मां मान्यसे मन्दं यथा कापुरुषं तथा ॥
भवानर्धरथो मह्यं मतो वै नात्र संशयः ।
सर्वस्य जगतश्चैव गाङ्गेयो न मृषा वदेत् ॥
कुरूणामहितो नित्यं न च राजाऽवबुध्यते ।
को हि नाम समानेषु राजसूदारकर्मसु ॥
तेजोवधमिमं कुर्याद्विभेदयिषुराहवे ।
यथा त्वं गुणविद्वेषादपरागं चिकीर्षसि ॥
न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः ।
महारयत्वं संख्यातुं शक्यं क्षत्रस्य कौरव ॥
बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः ।
धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाऽधिकाः ॥
यथेच्छकं स्वयं ब्रूया रथानतिरथांस्तथा ।
कामद्वेषसमायुक्तो मोहात्प्रकुरुते भवान् ॥
दुर्योधन महाबाहो साधु सम्यगवेक्ष्यताम् ।
त्यज्यतां दुष्टभावोऽयं भीष्मः किल्बिषकृत्तव ॥
भिन्ना हि सेना नृपते दुःसन्धेया भवत्युत ।
मौला हि पुरुषव्याघ्र किमु नानासमुत्थिताः ॥
एषां द्वैधं समुत्पन्नं योधानां युधि भारत ।
तेजोवधो नः क्रियते प्रत्यक्षेण विशेषतः ॥
रथानां क्वच विज्ञानं क्वच भीष्मोऽल्पचेतनः ।
अहमावारयिष्यामि पाण्डवानामनीकिनीम् ॥
आसाद्य माममोघेषुं गमिष्यन्ति दिशो दश ।
पाण्डवाः सहपञ्चालाः शार्दूलं वृषभा इव ॥
क्वच युद्धं विमर्दो वा मन्त्रे सुव्याहृतानि च ।
क्वचभीष्मो गतवयामन्दात्मा कालचोदितः ॥
एकाकी स्पर्धति नित्यं सर्वेण रमता सह ।
न चान्यं पुरुषं कंचिन्मन्यते मोघदर्शनः ॥
श्रोतव्यं खलु वृद्धानमिति शास्त्रनिदर्शनम् ।
न त्वेव ह्यतिवृद्धानां पुनर्बालाहि ते मताः ॥
अहमेको हनिष्यामि पाण्डवानानीकिनीम् ।
सुयुद्धे राज्यशार्दूल यशो भीष्मं गमिष्यति ॥
कृतः सेनापतिस्त्वेष त्वया भीष्मो नराधिप ।
सेनापतौ यशो गन्ता न तु योधान्कथञ्चन ॥
नाहं जीवति गाङ्गेये योत्स्ये राजन्कथञ्चन ।
हते भीष्मे तु योद्धाऽस्मि सर्वैरेव महारथैः ॥
भीष्म उवाच ।
समुद्यतोयं भारो मे सुमहान्सागरोपमः ।
धार्तराष्ट्रस्य संग्रामे वर्षपूगाभिचिन्तितः ॥
तस्मिन्नभ्यागते काले प्रतप्ते रोमहर्षणे ।
मिथो भेदो न मे कार्यस्तेन जीवसि सूतज ॥
न ह्यहं त्वद्य विक्रम्य स्थविरोऽपि शिशोस्तव ।
युद्धश्रद्धामहं छिन्द्यां जीवितस्य च सूतज ॥
जामदग्र्येन रामेण महास्त्राणि विमुञ्चता ।
न मे व्यथा कृता काचित्त्वं तु मे कि करिष्यसि ॥
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् ।
वक्ष्यामि तु त्वां सन्तप्तो निहीन कुलपांसन ॥
समेतं पार्थिवं क्षत्रं काशिराजस्वयंवरे ।
निर्जित्यैकरथेनैव याः कन्यास्तरसाहृताः ॥
ईदृशानां सहस्राणि विशिष्टानामथो पुनः ।
मयैकेन निरस्तानि ससैन्यानि रणाजिरे ॥
त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान् ।
उपस्थितो विनाशाय यतस्व पुरुषो भव ॥
युध्यस्व समरे पार्थं येन विस्पर्धसे सह ।
द्रक्ष्यामि त्वां विनिर्मुक्तमस्माद्युद्धात्सुदुर्मते ॥
तमुवाच ततो राजा धार्तराष्ट्रः प्रतापवान् ।
मां समीक्षस्व गाङ्गेय कार्यं हि महदुद्यतम् ॥
चिन्त्यतामिदमेकाग्रं मम निःश्रेयसं परम् ।
उभावपि भवन्तौ मे महत्कर्म करिष्यतः ॥
भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान् ।
ये चैवातिथास्तत्र ये चैव रथयूथपाः ॥
बलाबलममित्राणां श्रोतुमिच्छामि कौरव ।
प्रभातायां रजन्यां वै इदं युद्धं भविष्यति ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि रथातिरथसंख्यानपर्वणि अष्टषष्ट्यधिकशततमोऽध्यायः ॥

5-168-5 विचेतनः मूर्खः ॥ 5-168-6 घृणी निन्दकः ॥ 5-168-7 करणाना सहजकवचादीनाम् ॥ 5-168-13 भवान् कर्णोऽधरथो मह्यं मम मत इति गाङ्गेयो वदेत्तन्न मृषेति सर्वस्य जगतो मत इति संबन्धः । त्वद्वाक्यात्सर्वेपि मामवमंस्यन्त इति भावः । गाङ्गेय न मृषावदे इति खo घo पाठः ॥ 5-168-15 अपरायां द्वेषम् ॥ 5-168-18 प्रकुरुते प्रकारं भेदं कुरुते । प्रकारस्तुल्यभेदयोरिति विश्वः ॥ 5-168- पारंपर्यागताः तेपि भिन्नाः सन्तो दुःसधेया भवन्ति नाना पृथक्भूताः एकककार्यार्थं ...........