अध्यायः 173

शिखण्डिनोऽसंहरणकारणप्रश्ने तत्कथनाय भीष्मेण दुर्योधनंप्रति अम्बोपाख्यानकथनारम्भः ॥ 1 ॥ तथा स्वयंवरे स्वेन अम्बादिकन्यात्रयहरणकथनम् ॥ 2 ॥

दुर्योधनं उवाच ।
किमर्थं भरतश्रेष्ठ नैव हन्याः शिखण्डिनम् ।
उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम् ॥
पूर्वमुक्त्वा महाबाहो पाञ्चालान्सह सोमकैः ।
हनिष्यामीति गाङ्गेय तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
श्रृणु दुर्योधन कथां सहैभिर्वसुधाधिपैः ।
यदर्थं युधि संप्रेक्ष्य नाहं हन्यां शिखण्डिनम् ॥
महाराजो मम पिता शान्तनुर्लोकविश्रुतः ।
दिष्टान्तमाप धर्मात्मा समये भरतर्षभ ॥
ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन् ।
चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यपेचयम् ॥
तस्मिंश्च निधनं प्राप्ते सत्यवत्या मते स्थितः ।
विचित्रवीर्यं राजानमभ्यषिञ्चं यथाविधि ॥
मयाऽभिषिक्तो राजेन्द्र यवीयानपि धर्मतः ।
विचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत ॥
तस्य दारक्रियां तात चिकीर्षुरहमप्युत ।
अनुरूपादिव कुलादित्येव च मनो दधे ॥
तथाऽश्रौषं महाबाहो तिस्रः कन्याः स्वयंवरे । रूपेणाप्रतिमाः सर्वाः काशिराजसुतास्तदा ।
अम्बां चैवाम्बिकां चैव तथैवाम्बालिकामपि ॥
राजानश्च समाहूताः पृथिव्यां भरतर्षभ ।
अम्बा ज्येष्ठाभवत्तासामम्बिका त्वथ मध्यमा ॥
अम्बालिका च राजेन्द्र राजकन्या यवीयसी ।
सोऽहमेकरथेनैव गतः काशिपतेः पुरीम् ॥
अपश्यं ता महाबाहो तिस्रः कन्याः स्वलङ्कृताः ।
राज्ञश्चैव समाहूतान्पार्थिवान्पृथिवीपते ॥
ततोऽहं तान्नृपान्सर्वानाहूय समरे स्थितान् ।
रथमारोपयाञ्चक्रे कन्यास्ता भरतर्षभ ॥
वीर्यशुल्काश्च ता ज्ञात्वा समारोप्य रथं तदा । अवोचं पार्थिवान्सर्वानहं तत्र समागतान् ।
भीष्मः शान्तनवः कन्या हरतीति पुनःपुनः ॥
ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः ।
प्रसह्य हि हराम्येष मिषतां वो नरर्षभाः ॥
ततस्ते पृथिवीपालाः समुत्पतुरुदायुधाः ।
योगो योग इति क्रुद्धाः सारथीनभ्यचोदयन् ॥
ते रथैर्गसङ्काशैर्गजैश्च गजयोधिनः ।
पुष्टैश्वाश्वैर्महीपालाः समुत्पेतुरुदायुधाः ॥
ततस्ते मां महीपालाः सर्व एव विशां पते ।
रथव्रातेन महता सर्वतः पर्यवारयन् ॥
तानहं शरवर्षेण समन्तात्पर्यवारयम् ।
सर्वान्नृपांश्चाप्यजयं देवराडिव दानवान् ॥
अपातयं शरैर्दीप्तैः प्रहसन्भरतर्षभ ।
तेषामापततां चित्रान्ध्वजान्हेमपरिष्कृतान् ॥
एकैकेन हि बाणेन भूमौ पातितवानहम् ।
हयांस्तेषां गजांश्चैव सारथींश्चाप्यहं रणे ॥
ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं मम । 5-173-22b`प्रणिपेतुश्च सर्वे वै प्रशशंसुश्च पार्थिवाः ॥
तत आदाय ताः कन्या नृपतींश्च विसृज्य तान् ।' अथाऽहं हास्तिनपुरमायां जित्वा महीक्षितः ॥
ततोऽहं ताश्च कन्या वै भ्रातुरर्थाय भारत ।
तच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि त्रिसप्तत्यधिकशततमोऽध्यायः ॥

5-173-4 दिष्टान्तं मरणम् ॥