अध्यायः 176

अम्बांप्रति तापसेषु चिन्तयत्सु होत्रवाहनाम्नोऽम्बामातामहस्य तत्रागमनम् ॥ 1 ॥ तेनाम्बायाः परशुरामंप्रति शरणागतिचोदना ॥ 2 ॥ तत्र यदृच्छासमागते अकृतव्रणनाम्नि महर्षौ अम्बया स्ववृत्तन्तनिवेदनम् ॥ 3 ॥

भीष्म उवाच ।
ततस्ते तापसाः सर्वे कार्यवन्तोऽभवंस्तदा ।
तां कन्यां चिन्तयन्तस्ते किंकार्यमिति धर्मिणः ॥
केचिदाहुः पितुर्वेश्म नीयतामिति तापसाः ।
केचिदस्यदुमालम्भे मतिं चक्रुर्हि तापसाः ॥
केचित्साल्वपतिं गत्वा नियोज्यमिति मेनिरे ।
नेति केचिद्व्यवस्यन्ति प्रत्याख्याता हि तेन सा ॥
एवं गते तु किं शक्यं भद्रे कर्तुं मनीषिभिः ।
पुनरूचुश्च तां सर्वे तापसाः संशितव्रताः ॥
अलं प्रव्रजितेनेह भद्रे श्रृणु हितं वचः ।
इतो गच्छस्व भद्रं ते पितुरेव निवेशनम् ॥
प्रतिपस्त्यति राजा स पिता ते यदनन्तरम् ।
तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता ॥
न च तेऽन्या गतिर्न्याय्या भवेद्भद्रे यथा पिता । पतिर्वापि गतिर्नार्याः पिता वा वरवर्णिनि ।
गतिः पतिः समस्थाया विषमे च पिता गतिः ॥
प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः ।
राजपुत्र्याः प्रकृत्या चक कुमार्यास्तव भामिनि ॥
भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि ।
आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर्गृहे ॥
ततस्त्वन्येऽब्रुवन्वाक्यं तापसास्तां तपस्विनीम् ॥
त्वामिहैकाकिनीं दृष्ट्वा निर्जने गहने वने ।
प्रार्थयिष्यन्तिराजानस्तस्मान्मैवं मनः कृथाः ॥
अम्बोवाच ।
न शक्यं काशिनगरं पुनर्गन्तुं पितुर्गृहान् ।
अवज्ञाता भविष्यामि बान्धवानां न संशयः ॥
उषितास्मि तथा बाल्ये पितुर्वेश्मनि तापसाः । नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम ।
तपस्तप्तुमभीप्सामि तापसैः परिरक्षिता ॥
यथा परेऽपि मे लोके न स्यादेवं महात्ययः ।
दौर्भाग्यं तापसश्रेष्ठास्तस्मात्तप्स्याम्यहं तपः ॥
भीष्म उवाच ।
इत्येवं तेषु विप्रेषु चिन्तयन्सु यथातथम् । राजर्षिस्तद्वनं प्राप्तस्तपस्वी होत्रवाहनः ।
`तां तथा भाविनीं दृष्ट्वा श्रुत्वा चोद्विग्रमानसः'
ततस्ते तापसाः सर्वे पूजयन्ति स्म तं नृपम् ।
पूजाभिः स्वागताद्याभिरासनेनोदकेन च ॥
तस्योपविष्टस्य सतो विश्रान्तस्योपश्रृण्वतः ।
पुनरेव कथां चक्रुः कन्यां प्रति वनौकसः ॥
अम्बायास्तां कथां श्रुत्वा काशिराज्ञश्च भारत ।
राजर्षिः स महातेजा बभूवोद्विग्रमानसः ॥
तां तथावादिनीं श्रुत्वा दृष्ट्वा च स महातपाः ।
राजर्षिः कृपयाविष्टो महात्मा होत्रवाहनः ॥
स वेपमान उत्थाय मातुस्तस्याः पिता तदा ।
तां कन्यामङ्कमारोप्य पर्यश्वासयत प्रभो ॥
स तामपृच्छत्कार्त्स्न्येन व्यसनोत्पत्तिमादितः ।
सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत् ॥
ततः स राजर्षिरभूद्दुःखशोकसमन्वितः ।
कार्यं च प्रतिपेदे तन्मनसां सुमहातपाः ॥
अब्रवीद्वेपमानश्च कन्यामार्तां सुदुःखितः ।
मा गाः पितुर्गृहं भद्रे मातुस्ते जनको ह्यहम् ॥
दुःखं छिन्द्यामहं ते वै मयि वर्तस्व पुत्रिके ।
पर्याप्तं ते मनो वत्से यदेवं परिशुष्यसि ॥
गच्छ मद्वचनाद्रामं जामदग्न्यं तपस्विनम् ।
रामस्ते सुमहद्दुःखं शोकं चैवापनेष्यति ॥
हनिष्यति रणे भीष्मं न करिष्यति चेद्वचः ।
तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम् ॥
प्रतिष्ठापयिता स त्वां समे पथि महातपाः ।
ततस्तु सुस्वरं बाष्पसुत्सृजन्ती पुनः पुनः ॥
अब्रवीत्पितरं मातुः मा तदा होत्रवाहनम् ।
अभिवादयित्वा शिरसा गमिष्ये तव शासनात् ॥
अपि नामाद्य पश्येयमार्यं तं लोकविश्रुतम् । कथं च तीव्रं दुःकं मे नाशकयिष्यति भार्गवः ।
एतदिच्छाम्यहं ज्ञातुं यथा यास्यमि तत्र वैः ॥
होत्रवाहन उवाच ।
रामं द्रक्ष्यसि भद्रे त्वं जामदग्न्यं महावने ।
उग्रे तपसि वर्तन्तं सत्यसन्धं महाबलम् ॥
महेन्द्रं वै गिरिश्रेष्ठं रामो नित्यमुपास्ति ह ।
ऋषयो वेदविद्वांसो गन्धर्वाप्सरसस्तथा ॥
तत्र गच्छस्व भद्रं ते ब्रूयाश्चैनं वचो मम ।
अभिवाद्य च तं मूंर्ध्ना तपोवृद्धं दृढव्रतम् ॥
ब्रूयाश्चैनं पुनर्भद्रे यत्ते कार्यं मनीषितम् ।
मयि संकीर्तिते रामः सर्वं तत्ते करिष्यति ॥
मम रामः सखा वत्से प्रीतियुक्तः सुहृच्च मे ।
जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः ॥
एवं ब्रुवति कन्यां तु पार्थिवे होत्रवाहने ।
अकृतव्रणः प्रादुरासीद्रामस्यानुचरः प्रियः ॥
ततस्ते मनुयः सर्वे समुत्तस्थुः महस्रशः ।
स च राजा वयोवृद्धः सृञ्ययो होत्रवाहनः ॥
ततो दृष्ट्वा कृतातिथ्यमन्योन्यं ते वनौकसः ।
सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम् ॥
ततस्ते कथयामासुः कथास्तास्ता मनोरमाः ।
धन्या दिव्याश्च राजेन्द्र प्रीतिहर्षमुदा युताः ॥
ततः कथान्ते राजर्षिर्महात्मा होत्रवाहनः ।
रामं श्रेष्ठं महर्षीणामपृच्छदकृतव्रणम् ॥
क्व संप्रति महाबाहो जामदग्न्यः प्रतापवान् ।
अकृतव्रण शक्यो वै द्रुष्टुं वेदविदां वर ॥
अकृतव्रण उवाच ।
भवन्तमेव सततं रामः कीर्तयति प्रभो ।
सृञ्जयो मे प्रियसखो राजर्षिरिति पार्थिव ॥
इह रामः प्रभाते श्वो भवितेति मतिर्मम ।
द्रष्टस्येनमिहायान्तं तव दर्शनकाङ्क्षया ॥
इयं च कन्या राजर्षे किमर्थं वनमागता ।
कस्य चेयं तव च का भवतीच्छामि वेदितुम् ॥
होत्रवाहन उवाच ।
दौहित्रीयं मम विभो काशिराजसुता प्रिया ।
ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानध ॥
इयमम्बेति विख्याता ज्येष्ठा काशिपतेः सुता ।
अम्बिकाम्बालिके कन्ये कनीयस्यौ तपोधन ॥
समेतं पार्थिवं क्षत्रं काशिपुर्यां ततोऽभवत् ।
कन्यानिमित्तं विप्रर्षे तत्रासीदुत्सवो महान् ॥
तता किल महावीर्यो भीष्मः शान्तनवो नृपान् ।
अधिक्षिप्य महातेजास्तिस्त्रः कन्या जहार ताः ॥
निर्जित्य पृथिवीपालानथ भीष्मो जगाह्वयम् ।
आजगाम विशुद्धात्मा कन्याभिः सह भारतः ॥
सत्यवत्यै निवेद्याथ विवाहं समनन्तरम् ।
भ्रातुर्विचित्रवीर्यस्य समाज्ञापयत प्रभुः ॥
तं तु वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम् ।
अब्रवीत्तत्र गाङ्गेयं मन्त्रिमध्ये द्विजर्षभ ॥
मया साल्वपतिर्वीरो मनसाऽभिवृतः पतिः ।
न ममार्हसि धर्मज्ञ दातुं भ्रात्रेऽन्यमानसाम् ॥
तच्छ्रुत्वा वचनं भीष्मः संमन्त्र्य सह मन्त्रिभिः ।
निश्चित्य विससर्जेमां सत्यवत्या मते स्थितः ॥
अनुज्ञाता तु भीष्मेण साल्वं सौभपतिं ततः ।
कन्येयं मुदिता तत्र काले वाचनमब्रवीत् ॥
विसर्जितास्मि भीष्मेण धर्मं मां प्रतिपादय ।
मनसाभिवृत्तः पूर्वं मया त्वं पार्थिवर्षम ॥
प्रत्याचख्यौ च साल्वोऽस्याश्चारित्रस्याभिशङ्कितः ।
सेयं तपोवनं प्राप्ता तापस्येऽभिरता भृशम् ॥
मया च प्रत्यभिज्ञाता वंशस्य परिकीर्तनात् । अस्य दुःखस्य चोत्पत्तिं भीष्ममेवेह मन्यते ।
अम्बोवाच ।
भगवन्नेवमेवेह यथाह पृथिवीपतिः ।
शरीरकर्ता मातुर्मे सृञ्जयो होत्रवाहनः ॥
न ह्युत्सहे स्वनगरं प्रतियातुं तपोधन ।
अपमानभयाच्चैव व्रीडया च महामुने ॥
यत्तु मां भगवान्रामो वक्ष्यति द्विजसत्तम ।
तन्मे कार्यतमं कार्यमिति मे भगवन्मतिः ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि षट्सप्तत्यधिकशततमोऽध्यायः ॥

5-176-14 महात्ययः सुखनाशः । मम उद्धव उत्सव इति कोशः ॥ 5-176-56 उत्पत्तिं कारणम् ॥